छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.7
छुप्भ्_1,6.8 तस्योद्गीथत्वं देवस्याऽदित्यादीनामिव विवक्षितत्वादाह-तस्यर्क्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी ।
सर्वात्मा हि देवः ।
परापरलोककामेशितृत्वादुपपद्यते पृथिव्यग्न्यृक्सामगेष्णत्वम् ।
सर्वयोनित्वाच्च ।
यत एवमुन्नामाचासावृक्सामगेष्णश्च तस्मादृक्सामगेष्णत्वप्राप्तमुद्गीथत्वमुच्यते परोक्षेण परोक्षप्रियत्वाद्देवस्य तस्मादुद्गीथ इति ।
तस्मात्तवेव हेतोरुदं गायतीत्युद्गाता ।
यस्माद्ध्येतस्य यथोक्तस्योन्नाम्नो गातासावतो युक्तोद्गातेति नामप्रसिद्धिरुद्गातुः ।
स एष देव उन्नामा ये चामुष्मादादित्यात्पराञ्चः परागञ्चनादूर्ध्वा लोकास्तेषां लोकानां चेष्टे न केवलमीशितृत्वमेव चशब्दाद्धारयति च ।
"स दाधार पृथिवीं द्यामुतेमाम्"इत्यादिमन्त्रवर्णात् ।
किञ्च देवकामानामीष्ट इत्येतदधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम् ॥8॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य षष्ठः खण्डः
=======================================================================
स्तर्त् छुप् 1,7.1
अथाध्यात्मम् ।
वाग् एवर्क् ।
प्राणः साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्माद् ऋच्य् अध्यूढं साम गीयते ।
वाग् एव सा ।
प्राणो ऽमः ।
तत् साम
छुप्भ्_1,7.1 अथाधुनाध्यात्ममुच्यते ।
वागेवर्क्प्राणः साम ।
अधरोपरिस्थानत्वसामान्यात् ।
प्राणो घ्राणमुच्यते सह वायुना, वागेव सा प्राणो ऽम इत्यादि पूर्ववत् ॥1 ॥
स्तर्त् छुप् 1,7.2
चक्षुर् एवर्क् ।
आत्मा साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्माद् ऋच्य् अध्यूढं साम गीयते ।
चक्षुर् एव सा ।
आत्मामः ।
तत् साम
छुप्भ्_1,7.2 चक्षुरेवर्गात्मा साम ।
आत्मेति च्छायात्मा तत्स्थत्वात्साम ॥2 ॥
स्तर्त् छुप् 1,7.3
श्रोत्रम् एवर्क् ।
मनः साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्माद् ऋच्य् अध्यूढं साम गीयते ।
श्रोत्रम् एव सा ।
मनो ऽमः ।
तत् साम
छुप्भ्_1,7.3 श्रोत्रमेवर्ङ्मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम् ॥3 ॥
स्तर्त् छुप् 1,7.4
अथ यद् एतद् अक्ष्नः शुक्लं भाः सैवर्क् ।
अथ यन् नीलं परःकृष्णं तत् साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्माद् ऋच्य् अध्यूढं साम गीयते ।
अथ यद् एवैतद् अक्ष्णः शुक्लं भाः सैव सा ।
अथ यन् नीलं परःकृष्णं तद् अमः ।
तत् साम
छुप्भ्_1,7.4 अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क ।
अथ यन्नीलं परः कृष्णमादित्य इव दृक्शक्त्यधिष्ठानं तत्साम ॥4 ॥
स्तर्त् छुप् 1,7.5
अथ य एषो ऽन्तर् अक्षिणि पुरुषो दृश्यते सैवर्क् ।
तत् साम ।
तद् उक्थम् ।
तद् यजुः ।
तद् ब्रह्म ।
तस्य एतस्य तद् एव रूपं यद् अमुष्य रूपम् ।
याव् अमुष्य गेष्णौ तौ तौ गोष्णौ ।
यन् नाम तन् नाम
छुप्भ्_1,7.5 अथ य एषो ऽन्तरक्षिणि पुरुषो दृश्यते ।
पूर्ववत् ।
सैवर्गध्यात्मं वागाद्या पृथिव्याद्या चाधिदैवतम् ।
प्रसिद्धा च ऋक्पादबद्धाक्षरात्मिका ।
तथा साम ।
उक्थसाहचर्याद्वा स्तोत्रं सामोक्थं शस्त्रम् ।
उक्थादन्यत् तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुस्तत्स एव ।
सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम ।
ऋगादिप्रकरणात्तद्ब्रह्मेति त्रयो वेदाः ।
तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते ।
किं तद्यदमुष्याऽदित्यपुरुषस्य ।
हिरण्मय इत्यादि यदधिदैवतमुक्तम् ।
यावमुष्य गेष्णौ पर्वणी तावेवास्यापि चाक्षुषस्य गेष्णौ ।
यच्चामुष्य नामोदित्युद्गीथ इति च तदेवास्य नाम ।
स्थानभेदाद्रूपगिणनामातिदेशादीशितृत्वविषयभेदव्यपदेशाच्चाऽदित्यचाक्षुषयोर्भेद इति चेत् ।
न ।
अमुनानेनैवेत्येकस्योभयात्मप्राप्त्यनुपपत्तेः ।
द्विधाभावेनोपपद्यत इति चेत् ।
वक्ष्यति हि स एकधा भवति त्रिधा भवतीत्यादि ।
न ।
चेतनस्यैकस्य निरवयवत्वाद्द्विधाभावानुपपत्तेः ।
तस्मादध्यात्माधिदैवतयोरेकत्वमेव ।
यत्तु रूपाद्यतिदेशो भेदकारणमवोचो न तद्भेदावगमाय ।
किं तर्हि स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम् ॥5 ॥
स्तर्त् छुप् 1,7.6
स एष ये चैतस्माद् अर्वाञ्चो लोकास् तेषां चेष्टे मनुष्यकामानां चेति ।
तद् य इमे वीणायां गायन्त्य् एतं ते गायन्ति ।
तस्मात् ते धनसनयः
छुप्भ्_1,7.6 स एष चाक्षुषः पुरुषो ये चैतस्मादाध्यात्मिकादात्मनोर्ऽवाञ्चोर्ऽवाग्गता लोकास्तेषां चेष्टे मनुष्यसम्बन्धिनां च कामानाम् ।
तत्स्माद्य इमे वीणायां गायन्ति गायकस्त एतमेव गायन्ति ।
यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयो धनलाभयुक्ता धनवन्त उत्यर्थः ॥6 ॥
स्तर्त् छुप् 1,7.7
अथ य एतद् एवं विद्वान् साम गायत्य् उभौ स गायति ।
सो ऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकास् तांश् चाप्नोति देवकामांश् च
छुप्भ्_1,7.7 अथ य एतदेवं विद्वान्यथोक्तं देवमुद्गीथं विद्वान्साम गायत्युभौ स गायति चाक्षुषमादित्यं च ।
तस्यैवंविदः फलमुच्यतेसो ऽमुनैवाऽदित्येन स एष ये चामुष्मात्पराञ्चो लोकास्तांश्चाऽप्नोति आदित्यान्तर्गतदेवो भूत्वेत्यर्थो देवकामांश्च ॥7 ॥
स्तर्त् छुप् 1,7.8-9
अथानेनैव ये चैतस्माद् अर्वाञ्चो लोकास् तांश् चाप्नोति मनुष्यकामांश् च ।
तस्माद् उ हैवंविद् उद्गाता ब्रूयात्
कं ते कामम् आगायानीति ।
एष ह्य् एव कामागानस्येष्टे य एवं विद्वान् साम गायति साम गायति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0