भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.6

1.6.1

छुप्भ्_1,5.5 अथ खलु य उद्गीथ इत्यादिप्रणवोद्गीथैकत्वदर्शनमपक्तं तस्यैतत्फलमाहर्तुं शक्यम् ।
किं तद्धैवापि दुरुद्गीतं दुष्टमुद्गीतमुद्गानं कृतमुद्गात्रा स्वकर्मणि क्षतं कृतमित्यर्थः ।
तदनुसमाहरत्यनुसन्धत्त इत्यर्थः ।
चिकित्सयेव धातुवैषम्यसमीकरणमिति ॥5॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य पञ्चमः खण्डः
=======================================================================
स्तर्त् छुप् 1,6.1
इयम् एवर्क् ।
अग्निः साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्माद् ऋच्य् अध्यूढं साम गीयते ।
इयम् एव सा ।
अग्निर् अमः ।
तत् साम

1.6.2

छुप्भ्_1,6.1 अथेदानीं सर्वफलसम्पत्त्यर्थमुद्गीथस्योपासनान्तरं विधित्स्यते-इयमेव पृथिव्यृक् ।
ऋचि पृथिवीदृष्टिः कार्या ।
तथाग्निः साम ।
साम्न्यग्निदृष्टिः ।
कथं पृथिव्यग्न्योर् ऋक्सामत्वमिति ।
उच्यते ।
तदेतत्तदेतदग्न्याख्यं सामैतस्यां पृथिव्यामृच्यध्यूढमधिगतमुपरिभावेन स्थितमित्यर्थः ।
ऋचीव साम ।
तस्मादत एव कारणादृच्यध्यूढमेव साम गीयत इदानीमपि सामगैः ।
यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यं तथैतौ पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्वमापन्नं साम ।
तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव ।
तस्माच्च पृथिव्यग्न्योर् ऋक्सामत्वमित्यर्थः ।
सामाक्षरयोः पृथिव्यग्निदृष्टिविधानार्थमियमेव साग्निरम इति केचित् ॥1 ॥
स्तर्त् छुप् 1,6.2-3
अन्तरिक्षम् एवर्क् ।
वायुः साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्माद् ऋच्य् अध्यूढं साम गीयते ।
अन्तरिक्षम् एव सा ।
वायुर् अमः ।
तत् साम

1.6.3

द्यौर् एवर्क् ।
आदित्यः साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्माद् ऋच्य् अध्यूढं साम गीयते ।
द्यौर् एव सा ।
आदित्यो ऽमः ।
तत् साम

1.6.4

छुप्भ्_1,6.2,3 अन्तरिक्षमेवर्ग्वायुः सामेत्यादि पूर्ववत् ॥2-3 ॥
स्तर्त् छुप् 1,6.4
नक्षत्रान्य् एवर्क् ।
चन्द्रमाः साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्माद् ऋच्य् अध्यूढं साम गीयते ।
नक्षत्राण्य् एव सा ।
चन्द्रमा अमः ।
तत् साम

1.6.5

छुप्भ्_1,6.4 नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ॥4 ॥
स्तर्त् छुप् 1,6.5
अथ यद् एतद् आदित्यस्य शुक्लं भाः सैवर्क् ।
अथ यन् नीलं परःकृष्णं तत् साम ।
तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम ।
तस्मद् ऋच्य् अध्यूढं साम गीयते

1.6.6

छुप्भ्_1,6.5 अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैवर्क ।
अथ यदादित्ये नीलं परः कृष्णं परो ऽतिशयेन कार्ष्ण्यं तत्साम ।
तद्ध्येकान्तसमाहितदृष्टेर्दृश्यते ॥5 ॥
स्तर्त् छुप् 1,6.6
अथ यद् एवैतद् आदित्यस्य शुक्लं भाः सैव सा ।
अथ यन् नीलं परःकृष्णं तद् अमः ।
तत् साम ।
अथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर् हिरण्यकेश आ प्रणखात् सर्व एव सुवर्नः

1.6.7

छुप्भ्_1,6.6 ते एवैते भाः शुक्लकृष्णत्वे सा चामश्च साम ।
अथ य एषो ऽन्तरादित्ये आदित्यस्यान्तर्मध्ये हिरण्मयो हिरण्मय इव हिरण्मयः ।
न हि सुवर्णविकारत्वं देवस्य सम्भवति ।
ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात् ।
न हि सौवर्णे ऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिषिध्येत ।
चाक्षुषे चाग्रहणात् ।
अतो लुप्तोपम एव हिरण्मयशब्दो ज्योतिर्मय इत्यर्थः ।
उत्तरेषवपि समाना योजना ।
पुरुषः पुरि शयनात्पूरयति वा स्वेनाऽत्मना जगदिति ।
दृश्यते निवृत्तचक्षुर्भिः समाहितचेतोभिर्ब्रह्मचर्यादिसाधनापेक्षम् ।
तेजस्विनो ऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टि-हिरण्यश्मश्रुर्हिरण्यकेश इति ।
ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेत्यर्थः ।
आप्रणखात्प्रणखो नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः ॥6 ॥
स्तर्त् छुप् 1,6.7
तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी ।
तस्योद् इति नाम ।
स एष सर्वेभ्यः पाप्मभ्य उदितः ।
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद

1.6.8

छुप्भ्_1,6.7 तस्यैवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्वशेषः ।
कथं?तस्य यथा कपेर्मर्कटस्याऽसः कप्यासः ।
आसेरुपवेशनार्थस्य करणे घञ् ।
कपिपृष्ठान्तो येनोपविशति ।
कप्यास इव पुण्डरीकमत्यन्ततेजस्व्येवमस्य देवस्याक्षिणी ।
उपमितोपमानत्वान्न हीनोपमा ।
तस्यैवङ्गुणविशिष्टस्य गौणमिदं नामोदिति ।
कथं गौणत्वम् ।
स एष देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्येभ्य इत्यर्थः ।
य आत्मापहतपाप्मेत्यादि वक्ष्यति ।
उदित उद् इत उद्गत इत्यर्थः ।
अतो ऽसावुन्नामा ।
तमेवङ्गुणसम्पन्नमुन्नामानं यथोक्तेन प्रकारेण यो वेद सो ऽप्येवमेवोदेत्युद्गच्छति सर्वेभ्यः पाप्मभ्यः ।
ह वा इत्यवधारणार्थौ निपातौ ।
उदेत्येवेत्यर्थः ॥7 ॥
स्तर्त् छुप् 1,6.8
तस्यर्क् च साम च गेष्णौ ।
तस्माद् उद्गीथः ।
तस्मात् त्व् एव उद्गाता ।
एतस्य हि गाता ।
स एष ये चामुष्मात् पराञ्चो लोकास् तेषां चेष्ट देवकामानां च ।
इत्य् अधिदैवतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc