छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.5
छुप्भ्_1,4.5 स यो ऽन्यो ऽपि देववदेवैतदक्षरमेवममृतमभयगुणं विद्वान्प्रणौति स्तौति ।
उपासनमेवात्र स्तुतिरभिप्रेता ।
स तथैवैतदेवाक्षरं स्वरममृतमभयं प्रविशति ।
तत्प्रविश्य च राजकुलं प्रविष्टानामिव राज्ञो ऽन्तरङ्गबहिरङ्गतावन्न विशिष्टस्तदमृतो भवति न न्यूनता नाप्यधिकतामृतत्व इत्यर्थः ॥5॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य चतुर्थः खण्डः
=======================================================================
स्तर्त् छुप् 1,5.1
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
असौ वा आदित्य उद्गीथ एष प्रणवः ।
ओम् इति ह्य् एष स्वरन्न् एति
छुप्भ्_1,5.1 प्राणादित्यदृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूद्य प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्ट्याक्षरस्योपासनमनेकपुत्रफलमिदानीं वक्तव्यमित्यारभ्यते-अथ खलु य उद्गीथः स प्रणवो बह्वृचानां यश्च प्रणवस्तेषां स एव च्छान्दोग्य उद्गीथशब्दवाच्यः ।
असौ वा आदित्य उद्गीथ एष प्रणवशब्दवाच्यो ऽपि स एव बह्वृचानां नान्यः ।
उद्गीथ आदित्यः कथम् ।
उद्गीथाख्यमक्षरमोमित्येतदेष हि यस्मात्स्वरन्नुच्चारयन्ननेकार्थत्वाद्धातूनाम् ।
अथवा स्वरन्गच्छन्नैति ।
अतो ऽसावुद्गीथः सविता ॥1 ॥
स्तर्त् छुप् 1,5.2
एतम् उ एवाहम् अभ्यगासिषं तस्मान् मम त्वम् एको ऽसीति ह कौषीतकिः पुत्रम् उवाच ।
रश्मींस् त्वं पर्यावर्तयात् ।
बहवो वै ते भविष्यन्ति ।
इत्य् अधिदैवतम्
छुप्भ्_1,5.2 तमेतमु एवाहमभ्यगासिषमाभिमुख्येन गीतवानस्म्यादित्यरश्म्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः ।
तेन तस्मात्कारणान्मम त्वमेको ऽसि पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रमुवाचोक्तवान् ।
अतो रश्मीनादित्यं च भेदेन त्वं पर्यावर्तयात्पर्यावर्तयेत्यर्थः ।
त्वंयोगात् ।
एवं बहवो वै ते तव पुत्रा भविष्यन्तीत्यधि दैवतम् ॥2 ॥
स्तर्त् छुप् 1,5.3
अथाध्यात्मम् ।
य एवायं मुख्यः प्राणस् तम् उद्गीथम् उपासित ।
ओम् इति ह्य् एष स्वरन्न् एति
छुप्भ्_1,5.3 अथानन्तरमध्यात्ममुच्यते ।
य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत् ।
तथोमिति ह्येष प्राणो ऽपि स्वरन्नेत्योमिति ह्यनुज्ञां कुर्वन्निव वागादिप्रवृत्त्यर्थमेतोत्यर्थः ।
न हि मरणकाले मुमूर्षोः समीपस्थाः प्राणस्योङ्कारणं शृण्वन्तीति ।
एतत्सामान्यादादित्ये ऽप्योङ्करणमनुज्ञामात्रं द्रष्टव्यम् ॥3 ॥
स्तर्त् छुप् 1,5.4
एतम् उ एवाहम् अभ्यगासिषं तस्मान् मम त्वम् एको ऽसीति ह कौषीतकिः पुत्रम् उवाच ।
प्राणांस् त्वं भूमानम् अभिगायताद् बहवो वै मे भविष्यन्तीति
छुप्भ्_1,5.4 एतमु एवाहमभ्यगासिषित्यादि पूर्ववदेव ।
अतो वागादीन्मुख्यं च प्राणं भेदगुणविशिष्टगुद्गीथं पश्यन्भूमानं मनसाभिगायतात् ।
पूर्ववदावर्तयेत्यर्थः ।
बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः ।
प्राणादित्यैकत्वोद्गीथदृष्टेरेकपुत्रत्वफलदोषेणापोदितत्वाद्रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यते ऽस्मिन्काण्डे बहुपुत्रफलत्वार्थम् ॥4 ॥
स्तर्त् छुप् 1,5.5
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
होतृषदनाद् ध एवापि दुरुद्गीथम् अनुसमाहरतीत्य् अनुसमाहरतीति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0