छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.4
छुप्भ्_1,3.12 आत्मानमुद्गाता स्वं रूपं गोत्रनामादिभिः सामादीन्क्रमेण स्वं चाऽत्मानमन्ततो ऽन्त उपसृत्य स्तुवीत ।
कामं ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वंस्ततो ऽभ्याशः क्षिप्रमेव ह यद्यत्रास्मा एवंविदे स कामः समृध्येत समृद्धिं गच्छेत् ।
को ऽसौ, यत्कामो यः कामो ऽस्य सो ऽयं यत्कामः सन्स्तुवीतेति ।
द्विरुक्तिकादरार्था ॥12॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य तृतीयः खण्डः
=======================================================================
स्तर्त् छुप् 1,4.1
ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत ।
ओम् इति ह्य् उद्गायति ।
तस्योपव्याख्यानम्
छुप्भ्_1,4.1 ओमित्येतदित्यादिप्रकृतस्याक्षरस्य पुनरुपादानमुद्गीथाक्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् ।
प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमित्यारम्भः ।
ओमित्यादि व्याख्यातम् ॥1 ॥
स्तर्त् छुप् 1,4.2
देवा वै मृत्योर् बिभ्यतस् त्रयीं विद्यां प्राविशन् ।
ते छन्दोभिर् अच्छादयन् ।
यद् एभिर् अच्छादयंस् तच् छन्दसां छन्दस्त्वम्
छुप्भ्_1,4.2 देवा वै मृत्योर्मारकाद्विभ्यतः किं कृतवन्त इत्युच्यते ।
त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन्प्रविष्टवन्तो वैदिकं कर्म प्रारब्धवन्त इत्यर्थः ।
तन्मृत्योस्राणं मन्यमानाः ।
किञ्च ते कर्मण्यविनियुक्तैश्छन्दोभिर्मन्त्रैर्जपहोमादि कुर्वन्त आत्मानं कर्मान्तरेष्वच्छादयंश्छादितवन्तः ।
यद्यस्मादेभिर्मन्त्रैरच्छादयंस्तत्तस्माच्छन्दसां मन्त्राणां छादनाच्छन्दस्त्वं प्रसिद्धमेव ॥2 ॥
स्तर्त् छुप् 1,4.3
तान् उ तत्र मृत्युर् यथा मत्स्यम् उदके परिपश्येद् एवं पर्यपश्यद् ऋचि साम्नि यजुषि ।
ते नु वित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरम् एव प्राविशन्
छुप्भ्_1,4.3 तांस्तत्र देवान्कर्मपरान्मृत्युर्यथा लोके मत्स्यघातको मत्स्यमुदके नातिगम्भीरे परिपश्येद्बडिशोदकस्रावोपायसाध्यं मन्यमान एवं पर्यपश्यद्दृष्टवान्मृत्युः कर्मक्षयोपायेन साध्यान्देवान्मेन इत्यर्थः ।
क्वासौ देवान्ददर्शेत्युच्यते-ऋचि साम्नि यजुषि ।
ऋग्यजुःसामसम्बन्धिकर्मणीत्यर्थः ।
ते नु देवा वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तो मृत्योश्चिकीर्षितं विदितवन्तः ।
विदित्वा च त ऊर्ध्वा व्यावृत्ताः कर्मभ्य ऋचः साम्नो यजुष ऋग्यजुःसामसम्बद्धात्कर्मणो ऽभ्युत्थायेत्यर्थः ।
तेन कर्मणा मृत्युभयापगमं प्रति निराशास्तदपास्यामृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः ।
ओङ्कारोपासनपराः संवृत्ताः ।
एवशब्दो ऽवधारणार्थः सन्समुच्चयप्रतिषेधार्थः ।
तदुपासनपराः संवृत्ता इत्यर्थः ॥3 ॥
स्तर्त् छुप् 1,4.4
यदा वा ऋचम् आप्नोत्य् ओम् इत्य् एवातिस्वरति एवं सामैवं यजुः ।
एष उ स्वरो यद् एतद् अक्षरम् एतद् अमृतम् अभयम् ।
तत् प्रविश्य देवा अमृता अभवन्
छुप्भ्_1,4.4 कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येत्युच्यते-यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं यजुः ।
एष उ स्वरः ।
को ऽसौ यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य यथागुणमेवामृता अभयाश्चाभवन्देवाः ॥4 ॥
स्तर्त् छुप् 1,4.5
स य एतद् एवं विद्वान् अक्षरं प्रणौत्य् एतद् एवाक्षरं स्वरम् अमृतम् अभयं प्रविशति ।
तत् प्रविश्य यद् अमृता देवास् तद् अमृतो भवति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0