भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.3

1.3.1

छुप्भ्_1,2.14 तथान्यो ऽप्युद्गाताऽगाता ह वै कामानां भवति एवं विद्वान्यथोक्तगुणं प्राणमक्षरमुद्गीथमुपास्ते तस्यैतद्दृष्टं फलमुक्तम् ।
प्राणात्मभावस्त्वदृष्टम्"देवो भूत्वा देवानप्येति"इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः ।
इत्यध्यात्ममेतदात्मविषयमुद्गीथोपासनमित्युक्तोपसंहारो ऽधिदैवतोद्गीथोपासने वक्ष्यमाणे बुद्धिसमाधानार्थः ॥14॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य द्वितीयः खण्डः
=======================================================================
स्तर्त् छुप् 1,3.1
अथाधिदैवतम् ।
य एवासौ तपति तम् उद्गीथम् उपासीत ।
उद्यन् वा एष प्रजाभ्य उद्गायति ।
उद्यंस् तमो भयम् अपहन्ति ।
अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद

1.3.2

छुप्भ्_1,3.1 अथानन्तरमधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमुत्यर्थो ऽनेकधोपास्यत्वादुद्गीथस्य ।
य एवासावादित्यस्तपति समुद्गीथमुपासीताऽदित्यदृष्ट्योद्गीथमुपासीतेत्यर्थः ।
तमुद्गीथमित्युद्गीथशब्दो ऽक्षरवाची सन्कथमादित्ये वर्तत इति?उच्यते ।
उद्यन्नुद्गच्छन्वा एष प्रजाभ्यः प्रजार्थमुद्गायति प्रजानामन्नोत्पत्त्यर्थम् ।
न ह्यनुद्यति तस्मिन्व्रीह्यादेः पक्तिः स्यादत उद्गायतीवोद्गायति, यथैवोद्गातान्नार्थमत उद्गीथः सवितेत्यर्थः ।
किञ्चोद्यन्नैशं तमस्तज्जं च भयं प्रणिनामपहन्ति तमेवङ्गुणं सवितारं यो वेद सो ऽपहन्ता नाशयिता ह वै भयस्य जन्ममरणादिलक्षणस्याऽत्मनस्तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति ॥1 ॥
स्तर्त् छुप् 1,3.2
समान उ एवायं चासौ च ।
उष्णो ऽयम् उष्णो ऽसौ ।
स्वर इतीमम् आचक्षते स्वर इति प्रत्यास्वर इत्य् अमुम् ।
तस्माद् वा एतम् इमम् अमुं च उद्गीथम् उपासीत

1.3.3

छुप्भ्_1,3.2 यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते तथापि न स तत्त्वभेदस्तयोः ।
कथम्-समान उ एव तुल्य एव प्राणः सवित्रा गुणतः सविता च प्राणेन ।
यस्मादुष्णो ऽयं प्राण उष्णश्चासौ सविता ।
किञ्च स्वर इतीमं प्राणमाचक्षते कथयन्ति तथा स्वर इति;प्रत्यास्वर इति चामुं सवितारम् ।
यस्मात्प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति ।
सविता त्वस्तमित्वा पुनरप्यहन्यहनि प्रत्यागच्छति ।
अतः प्रत्यास्वरो ऽस्माद्गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ ।
अतः सतत्त्वाभेदादेतं प्राणमिमममुं चाऽदित्यमुद्गीथमुपासीत ॥2 ॥
स्तर्त् छुप् 1,3.3
अथ खलु व्यानम् एवोद्गीथम् उपासीत ।
यद् वै प्राणिति स प्राणः ।
यद् अपानिति सो ऽपानः ।
अथ यः प्राणापानयोः संधिः स व्यानः ।
यो व्यानः सा वाक् ।
तस्माद् अप्राणन्न् अनपानन् वाचम् अभिव्याहरति

1.3.4

छुप्भ्_1,3.3 अथ खल्विति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते-व्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषमुद्गीथमुपासीत ।
अधुना तत्सतत्त्वं निरूप्यते-यद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति स प्राणाख्यो वायोर्वृत्तिविशेषो यदपानित्यपश्वसिति ताभ्यामेवान्तराकर्षति वायुं सो ऽपानो ऽपानाख्या वृत्तिः ।
ततः किमिति, उच्यते-अथ य उक्तलक्षणयोः प्राणापानयोः सन्धिस्तयोरन्तरा वृत्तिविशेषः स व्यानः, यः साङ्ख्यादिशास्रप्रसिद्धिः श्रुत्या विशेषनिरूपणान्नासौ व्यान इत्यभिप्रायः ।
कस्मात्पुनः प्राणापानौ हित्वा महताऽयासेन व्यानस्यैवोपासनमुच्यते ।
वीर्यवत्कर्महेतुत्वमित्याह-यो व्यानः सा वाक् ।
व्यानकार्यत्वाद्वाचः ।
यस्माद्व्याननिर्वर्त्या वाक्तस्मादप्राणन्ननपानन्प्राणापानव्यापारावकुर्वन्वाचमभिव्याहरत्युच्चारयति लोकः ॥3 ॥
स्तर्त् छुप् 1,3.4
या वाक् सर्क् ।
तस्माद् अप्राणन्न् अनपानन्न् ऋचम् अभिव्याहरति ।
यर्क् तत् साम ।
तस्माद् अप्राणन्न् अनपानन् साम गायति ।
यत् साम स उद्गीथः ।
तस्माद् अप्रानन्न् अनपानन्न् उद्गायति

1.3.5

छुप्भ्_1,3.4 तथा वाग्विशेषामृचमृक्संस्थं च साम सामावयवं चोद्गीथमप्राणन्ननपानन्व्यानेनैव निर्वर्तयतीत्यभिप्रायः ॥4 ॥
स्तर्त् छुप् 1,3.5
अतो यान्य् अन्यानि वीर्यवन्ति कर्माणि यथाग्नेर् मन्थनम् आजेः सरणं दृढस्य धनुष आयमनम् अप्राणन्न् अनपानंस् तानि करोति ।
एतस्य हेतोर् व्यानम् एवोद्गीथम् उपासीत

1.3.6

छुप्भ्_1,3.5 न केवलं वागाद्यभिव्याहरणमेवातो ऽस्मादन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि यथाग्नेर्मन्थनमाजेर्मर्यादायाः सरणं धावनं दृढस्य धनुष आयमनमाकर्षणमप्राणन्ननपानंस्तानि करोति ।
अतोविशिष्टो व्यानः प्राणादिवृत्तिभ्यः ।
विशिष्टस्योपासनं ज्यायः फलवत्त्वाद्राजोपासनवत् ।
एतस्य हेतोरेतस्मात्कारणाद्व्यानमेवोद्गीथमुपासीत नान्यद्वृत्त्यन्तरम् ।
कर्मवीर्यवत्तरत्वं फलम् ॥5 ॥
स्तर्त् छुप् 1,3.6
अथ खलूद्गीथाक्षराण्य् उपासीत उद्-गी-थ इति ।
प्राण एवोत् ।
प्राणेन ह्य् उत्तिष्ठति ।
वग् गीः ।
वाचो ह गिर इत्य् आचक्षते ।
अन्नं थम् ।
अन्ने हीदं सर्वं स्थितम्

1.3.7

छुप्भ्_1,3.6 अथाधुना खलूद्गीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टि-उद्गीथ इति ।
उद्गीथनामाक्षराणीत्यर्थो नामाक्षरोपासने ऽपि नामवत एवोपासनं कृतं भवेदमुकमिश्रा इति यद्वत् ।
प्राण एवोत्, उदित्यस्मिन्नक्षरे प्राणदृष्टिः ।
कथं प्राणस्योत्त्वमित्याह-प्राणेन ह्युत्तिष्ठति सर्वो ऽप्राणस्यावसाददर्शनादतो ऽस्त्युदः प्राणस्य च सामान्यम् ।
वाग्गीः ।
वाचो ह गिर इत्याचक्षते शिष्टाः ।
तथान्नं थमन्ने हीदं सर्वं स्थितमतो ऽस्त्यन्नस्य थाक्षरस्य च सामान्यम् ॥6 ॥
स्तर्त् छुप् 1,3.7
द्यौर् एवोत् ।
अन्तरिक्षं गीः ।
पृथिवी थम् ।
आदित्य एवोत् ।
वायुर् गीः ।
अग्निस् थम् ।
सामवेद एवोत् ।
यजुर्वेदो गीः ।
ऋग्वेदस् थम् ।
दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः ।
अन्नवान् अन्नादो भवति ।
य एतान्य् एवं विद्वान् उद्गीथाक्षराण्य् उपास्त उद्-गी-थ इति

1.3.8

छुप्भ्_1,3.7 त्रयाणां श्रुत्युक्तानि सामान्यानि तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि ।
द्यौरेवोदुच्चैः स्थानात् ।
अन्तरिक्षं गार्गिरणाल्लोकानाम् ।
पृथिवी थं प्राणिस्थानात् ।
आदित्य एवोदूर्ध्वत्वात् ।
वायुर्गीरग्न्यादीनां गिरणात् ।
अग्निस्थं यज्ञीयकर्मावस्थानात् ।
सामवेद एवोत्स्वर्गसंस्तुतत्वात् ।
यजुर्वेदो गीर्यजुषा प्रत्तस्य हविषो देवतानां गिरणात् ।
ऋग्वेदस्थमृच्यध्यूढत्वात्साम्नः ।
उद्गीथाक्षरोपासनफलमधुनोच्यते-दुग्धे दोग्ध्यस्मै साधकास्य ।
का सा वाक्, कं दोहम् ।
को ऽसौ दोह इत्याह-यो वाचो दोहः ।
ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्रायस्तद्वाचो दोहस्तं स्वयमेव वाग्दोग्ध्यात्मानमेव दोग्धि ।
किञ्चान्नवान्प्रभूतान्नो ऽन्नादश्च दीप्ताग्निर्भवति ।
य एतानि यथोक्तान्येवं यथोक्तगुणान्युद्गीथाक्षराणि विद्वान्सन्नुपास्त उद्गीथ इति ॥7 ॥
स्तर्त् छुप् 1,3.8
अथ खल्व् आशीः समृद्धिः ।
उपसरणानीत्य् उपासीत ।
येन साम्ना स्तोष्यन् स्यात् तत् सामोपधावेत्

1.3.9

छुप्भ्_1,3.8 अथ खल्विदानीमाशीःसमृद्धिराशिषः कामस्य समृद्धिर्यथा भवेत्तदुच्यत इति वाक्यशेषः ।
उपसरणान्युपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः ।
कथम्, इत्युपासीत, एवमुपासीत ।
तद्यथा-येन साम्ना येन सामविशेषेण स्तोष्यन्स्तुतिं करिष्यन्स्याद्भवेदुद्गाता तत्सामोपधावेदुपसरेच्चिन्तयेदुत्पत्त्यादिभिः ॥8 ॥
स्तर्त् छुप् 1,3.9
यस्याम् ऋचि ताम् ऋचं, यद् आर्षेयं तम् ऋषिं, यां देवताम् अभिष्टोष्यन् स्यात् तां देवताम् उपधावेत्

1.3.10

छुप्भ्_1,3.9 यस्यामृचि तत्साम तां चर्चमुपधावेद्देवतादिभिः ।
यदार्षेयं साम तं चर्षिम् ।
यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥9 ॥
स्तर्त् छुप् 1,3.10
येन च्छन्दसा स्तोष्यन् स्यात् तच् छन्द उपधावेत् ।
येन स्तोमेन स्तोष्यमाणः स्यात् तं स्तोमम् उपधावेत्

1.3.11

छुप्भ्_1,3.10 येन च्छन्दसा गायत्र्यादिना स्तोष्यन्स्यात्तच्छन्द उपधावेत् ।
येन स्तोमेन स्तोष्यमाणः स्यात् ।
स्तोमाङ्गफलस्य कर्तृगामित्वादात्मनेपदं स्तोष्यमाण इति ।
तं स्तोममुपधावेत् ॥10 ॥
स्तर्त् छुप् 1,3.11
यां दिशम् अभिष्टोष्यन् स्यात् तां दिशम् उपधावेत्

1.3.12

छुप्भ्_1,3.11 यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेदधिष्ठात्रादिभिः ॥11 ॥
स्तर्त् छुप् 1,3.12
आत्मानम् अन्तत उपसृत्य स्तुवीत कामं ध्यायन्न् अप्रमत्तः ।
अभ्याशो ह यद् अस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc