भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.2

1.2.1

छुप्भ्_1,1.10 तत्राक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमाभिपति-तेनाभरेणोभौ यश्चैतदक्षरमेवं व्याख्यातं वेद यश्च कर्ममात्रविदक्षरयाथात्म्यं न वेद तावुभौ कुरुतः कर्म ।
तयोश्च कर्मसामर्थ्यादेव फलं स्यात्किं तत्राक्षरयाथात्म्यविज्ञानेनेति ।
दृष्टं हि लोके हरीतकीं भक्षयतोस्तद्रसाभिज्ञेतरयोर्विरेचनम् ।
नैवम् ।
यस्मान्नाना तु विद्या चाविद्या च भिन्ने हि विद्याविद्ये ।
तुशब्दः पक्षव्यावृत्त्यर्थः ।
नोङ्कारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानं किं तर्हि ततो ऽभ्यधिकम् ।
तस्मात्तदङ्गाधिक्यात्फलाधिक्यं युक्तमित्यभिप्रायः ।
दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात्फलाधिक्यम् ।
तस्माद्यदेव विद्यया विज्ञानेन युक्तः सन्करोति कर्मश्रद्धया श्रद्दधानश्च सन्नुपनिषदा योगेन युक्तश्चेत्यर्थः ।
तदेव कर्म वीर्यवत्तरमविद्वत्कर्मणो ऽधिकफलं भवतीति ।
विद्वत्कर्मणो वीर्यवत्तर[त्वटवचनादविदुषो ऽपि कर्म वार्यदेव भवतीत्यभिप्रायः ।
न चाविदुषः कर्मण्यनधिकारः ।
औषस्त्ये काण्डे ऽविदुषामप्यार्विज्यदर्शनात् ।
रसतमाप्तिसमृद्धिगुणवदक्षरमित्येकमुपासनम् ।
मध्ये प्रयत्नान्तरादर्शनात् ।
अनेकैर्हि विशेषणैरनेकधोपास्यत्वात्खल्वेतस्यैव प्रकृतस्योद्गीथाख्यस्याक्षरस्योपव्याख्यानं भवति ॥10॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य प्रथम खण्डः
=======================================================================
स्तर्त् छुप् 1,2.1
देवासुरा ह वै यत्र संयेतिरे ।
उभये प्राजापत्यास् तद् ध देवा उद्गीथम् आजह्रुर् अनेनैनान् अभिभविष्याम इति

1.2.2

छुप्भ्_1,2.1 देवासुरा देवाश्चासुराश्च ।
देवा दीव्यतेर्द्येतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः ।
अशिरास्तद्विरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात्स्वाभाविक्यस्तम आत्मिका इन्द्रियवृत्तय एव ।
ह वा इति पूर्ववृत्तोद्भासकौ निपातौ ।
यत्र यस्मिन्निमित्त इतरेतरविषयापहारलक्षणे संयेतिरे ।
सम्पूर्वस्य यततेः संग्रामार्थत्वमिति संग्रामं कृतवन्त उत्यर्थः ।
शास्रीयप्रकाशवृत्तयभिभवनाय प्रवृत्ताः स्वाभाविक्यस्तमोरूपा इन्द्रियवृत्तयो ऽसुराः ।
तथा तद्विपरीताः शास्रार्थविषयविवेकज्योतिरात्मानो देवा स्वाभाविकतमोरूपासुराभिभवनाय प्रवृत्ता इत्यन्योन्याभिभवोद्भवरूपः संग्राम इव सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामो ऽनादिकालप्रवृत्त इत्यभिप्रायः ।
स इहश्रुत्याऽख्यायिकारूपेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया ।
अत उभये ऽपि देवासुराः प्रजापतेरपत्यानीति प्राजापत्याः ।
प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः ।
"पुरुष एवोक्थमयमेव महान्प्रजापतिः"इति श्रुत्यन्तरात् ।
तस्य हि शास्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धा अपत्यानीव तदुद्भवत्वात् ।
तत्तत्रोत्कर्षापकर्षलक्षणनिमित्ते ह देवा उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्माऽजह्रुराहृतवन्तः ।
तस्यापि केवलस्याऽहरणासम्भवाज्जोतिष्टोमाद्याहृतवन्त इत्यभिप्रायः ।
तत्किमर्थमाजह्रुरित्युच्यते अनेन कर्मणैनानसुरानभिभविष्याम इत्येवमभिप्रायाः सन्तः ॥1 ॥
स्तर्त् छुप् 1,2.2
ते ह नासिक्यं प्राणम् उद्गीथम् उपासां चक्रिरे ।
तं ह असुराः पाप्मना विविधुः ।
तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।
पाप्मना ह्य् एष विद्धः

1.2.3

छुप्भ्_1,2.2 यदा च तदुद्गीथं कर्माऽजिहीर्षवस्तदा-ते ह देवा नासिक्यं नासिकायां भवं चेतनावन्तं घ्राणं प्राणमुद्गीथकर्तारमुद्गीथभक्त्योपासांचक्रिरेझ्रुपासनण्टकृतवन्त इत्यर्थः ।
नासिक्यप्राणमदृष्ट्योद्गीथाख्यमक्षरमोङ्कारमुपासांचक्रिर इत्यर्थः ।
एवं हि प्रकृतार्थपरित्यागो ऽप्रकृतार्थोपादानं च न कृतं स्यात् ।
खल्वेतस्यैवाक्षरस्येत्योङ्कारमुपासांचक्रिर इत्यर्थः ।
एवं हि प्रकृतार्थपरित्यागो ऽप्रकृतार्थोपादानं च न कृतं स्यात् ।
खल्वेतस्यैवाक्षरस्येत्योङ्कारो ह्यापास्यतया प्रकृतः ।
ननूद्गीथोपलक्षितं कर्माऽहृतवन्त इत्यवोच इदानीमेव;कथं नासिक्यप्राणदृष्ट्योङ्कारमुपासांचक्रिर इत्यात्थ ।
नैष दोषः ।
उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्योद्गीथभक्त्यवयवश्चोङ्कार उपास्यत्वेन विवक्षितो न स्वतन्त्रो ऽतस्तादर्थ्येन कर्माऽहृतवन्त इति युक्तमेवोक्तम् ।
तमेवं देवैर्वृतमुद्गातारं हासुराः स्वाभाविकतम आत्मानो ज्योतीरूपं नासिक्यं प्राणं देवं स्वोत्थेन पाप्मनाधर्मासङ्गरूपेण विविधुर्विद्धवन्तः संसर्ग कृतवन्त इत्यर्थः ।
स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव ।
स तेन दोषेण पाप्मसंसर्गी बभूव ।
तदिदमुक्तमसुराः पाप्मना विविधुरिति ।
यस्मादासुरेण पाप्मना विद्धस्तस्मात्तेन पाप्मना प्रेरितो घ्राणः प्राणो दुर्गन्धिग्राहकः प्राणिनाम् ।
अतस्तेनोभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च ।
पाप्मना ह्येष यस्माद्विद्धः ।
उभयग्रहणमविवक्षितम् ।
यस्योभयं हविरार्तिमार्छतीति यद्वत् ।
यदेवेदमप्रतिरूपं जिघ्रतीति समानप्रकरणश्रुतेः ॥2 ॥
स्तर्त् छुप् 1,2.3-6
अथ ह वाचम् उद्गीथम् उपासां चक्रिरे ।
तां हासुराः पाप्मना विविधुः ।
तस्मात् तयोभयं वदति सत्यं चानृतं च ।
पाप्मना ह्य् एषा विद्धा

1.2.4

अथ ह चक्षुर् उद्गीथम् उपासां चक्रिरे ।
तद् धासुराः पाप्मना विविधुः ।
तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च ।
पाप्मना ह्य् एतद् विद्धम्

1.2.5

अथ ह श्रोत्रम् उद्गीथम् उपासां चक्रिरे ।
तद् धासुराः पाप्मना विविधुः ।
तस्मात् तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च ।
पाप्मना ह्य् एतद् विद्धम्

1.2.6

अथ ह मन उद्गीथम् उपासां चक्रिरे ।
तद् धासुराः पाप्मना विविधुः ।
तस्मात् तेनोभयं संकल्पयते संकल्पनीयं च ।
पाप्मना ह्य् एतद् विद्धम्

1.2.7

छुप्भ्_1,2.3-6 मुख्यप्राणस्योपास्यत्वाय तद्विशुद्धत्वानुभवार्थो ऽयं विचारः श्रुत्या प्रवर्तितः ।
अतश्चक्षुरादिदेवताः क्रमेण विचार्याऽसुरेण पाप्मना विद्धा इत्यपोह्यन्ते ।
समानमन्यत्, अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि ।
अनुक्ता अप्यन्यास्त्वग्रसमादिदेवता द्रष्टव्याः ।
"एवमु खल्वेता देवताः पाप्मभिः" इति श्रुत्यन्तरात् ॥3-6 ॥
स्तर्त् छुप् 1,2.7
अथ ह य एवायं मुख्यः प्राणस् तम् उद्गीथम् उपासां चक्रिरे ।
तं हासुरा ऋत्वा विदध्वंसुर् यथाश्मानम् आखणम् ऋत्वा विध्वंसेतैवम्

1.2.8

छुप्भ्_1,2.7 आसुरेण विद्धत्वाद्घ्राणादिदेवता अपोह्याथानन्तरं य एवायं प्रसिद्धो मुखे भवो मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः पूर्ववदृत्वा प्राप्य विदध्वंसुर्विनष्टा अभिप्रायमात्रेण ।
अकृत्वा किञ्चिदपि प्राणस्य ।
कथं विनष्टा इत्यत्र दृष्टान्तमाह-यथा लोके ऽश्मानमाखणं न शक्यते खनितुं कुद्दालादिभिरपि भेत्तुं न शक्यो ऽखण एवाऽखणस्तमृत्वा सामर्थ्याल्लोष्टः पांसुपिण्डः क्षुत्यन्तराच्चाश्मनि क्षिप्तो ऽश्मभेदनाभिप्रायेण तस्याश्मनः किञ्चिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येतैवं विदध्वंसुरित्यर्थः ॥7 ॥
स्तर्त् छुप् 1,2.8
एवं यथाश्मानम् आखणम् ऋत्वा विध्वंसत एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश् चैनम् अभिदासति ।
स एषो ऽश्माखणः

1.2.9

छुप्भ्_1,2.8 एवं विशुद्धो ऽसुरैरधर्षितत्वात्प्राण इति एवंविदः प्राणात्मभूतस्येदं फलमाह-यथाश्मानमिति ।
एष एव दृष्टान्तः ।
एवं हैव स विध्वंसते विनश्यति ।
को ऽसावित्याह-य एवंविदि यथोक्तप्राणविदि पापं तदनर्हं कर्तु कामयत इच्छति यश्चाप्येनमभिदासति हिनस्ति प्राणविदं प्रत्याक्रोशताडनादि प्रयुङ्क्ते सो ऽप्येवमेव विध्वंसत इत्यर्थः ।
यस्मात्स एष प्राणवित्प्राणभूतत्वादश्माखण इवाश्माखणो ऽधर्षणीय इत्यर्थः ।
ननु नासिक्यो ऽपि प्राणो वाय्वात्मा यथा मुख्यस्तत्र नासिक्यः प्राणः पाप्मना विद्धः प्राण एव सन्न मुख्यः कथम् ।
नैष दोषः ।
नासिक्यस्तु स्थानकरणवैगुण्याद्विद्धो वाय्वात्मापि सन्मुख्यः स्थानदेवताबलीयस्त्वान्न विद्ध इति युक्तम् ।
यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति नान्यहस्तगतास्तद्वद्दोषवद्घ्राणसचिवत्वाद्विद्धा घ्राणदेवता न मुख्यः ॥8 ॥
स्तर्त् छुप् 1,2.9
नैवैतेन सुरभि न दुर्गन्धि विजानाति ।
अपहतपाप्मा ह्य् एषः ।
तेन यद् अश्नाति यत् पिबति तेनेतरान् प्राणान् अवति ।
एतम् उ एवान्ततो ऽवित्त्वोत्क्रामति ।
व्याददात्य् एवान्तत इति

1.2.10

छुप्भ्_1,2.9 यस्मान्न विद्धो ऽसुरैर्मुख्यस्तस्मान्नैवैतेन सुरभि दुर्गन्धि वा विजानाति घ्राणेनैव तदुभयं विजानाति लोकः ।
अतश्च पाप्मकार्यादर्शनादपहतपाप्मापहतो विनाशितो ऽपनीतः पाप्मा यस्मात्सो ऽयमपहतपाप्मा ह्येष विशुद्ध इत्यर्थः ।
यस्माच्चाऽत्मम्भरयः कल्याणाद्यासङ्गवत्त्वाद्घ्राणादयो न तथाऽत्मम्भरिर्मुख्यः किं तर्हि सर्वार्थः ।
कथमिति, उच्यते-तेन मुख्येन यदश्नाति यत्पिबति लोकस्तेनाशितेन पीतेन चोतरान्घ्राणादीनवति पालयति ।
तेन हि तेषां स्थितिर्भवतीत्यर्थः ।
अतः सर्वम्भरः प्राणो ऽतो विशुद्धः ।
कथं पुनर्मुख्याशितपीताभ्यां स्थितिरेषां गम्यत इति, उच्यते-एतं (तमु एव) मुख्यं प्राणं मुख्यप्राणस्य वृत्तिमन्नपाने इत्यर्थः ।
अन्ततो ऽन्ते मरणकाले ऽवित्त्वालब्ध्वोत्-क्रामति ।
घ्राणादिप्राणसमुदाय इत्यर्थः ।
अप्राणो हि न शक्नोत्यशितुं पातुं वा ।
तेन तदोत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य ।
दृश्यते ह्युत्क्रान्तौ प्राणस्याशिशिषा ।
अतो व्याददात्येवाऽस्यविदारणं करोतीत्यर्थः ।
तद्ध्यन्नालाभ उत्क्रान्तस्य लिङ्गम् ॥9 ॥
स्तर्त् छुप् 1,2.10
तं हाङ्गिरा उद्गीथम् उपासां चक्रे ।
एतम् उ एवाङ्गिरसं मन्यन्ते ऽङ्गानां यद् रसः

1.2.11

छुप्भ्_1,2.10 तं हाङ्गिरास्तं मुख्यं प्राणं हाङ्गिरा इत्येवङ्गुणमुद्गीथमुयासाञ्चक्रे बक इत्येव सम्बन्धं कृतवन्तः केचित् ।
एतमु एवाऽङ्गिरसं बृहस्पतिमयास्यं प्राणं मन्यन्त इति चनात् ।
भवत्येवं यथाश्रुतासम्भवे, सम्भवति तु यथाश्रुतमृषिचोदनायामपि श्रुत्यन्तरवत् ।
तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तमृषिमपि ।
तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवो ऽत्रिरित्यादि ऋषीनेव प्राणमापादयति श्रुतिः ।
तथैतानप्यृषीन्प्राणोपासकानङ्गिरोबृहस्पत्ययास्यान्प्राणं करोत्यभेदविज्ञानाय ।
"प्राणो ह पिता प्राणो माता"इत्यादिवच्च ।
तस्मादृषिरङ्गिरा नाम प्राण एव सन्नात्मानमङ्गिरसं प्राणमुद्गीथमुपासाञ्चक्र इत्येतत् ।
यद्यस्मात्सो ऽङ्गानां प्राणः सन्रसस्तेनासावाङ्गिरसः ॥10 ॥
स्तर्त् छुप् 1,2.11-12
तेन तं ह बृहस्पतिर् उद्गीथम् उपासां चक्रे ।
एतम् उ एव बृहस्पतिं मन्यन्ते ।
वाग् घि बृहती तस्या एषपतिः

1.2.12

तेन तं हायास्य उद्गीथम् उपासां चक्रे ।
एतम् उ एवायास्यं मन्यन्ते ।
आस्याद् यद् अयते

1.2.13

छुप्भ्_1,2.11,12 तथा वाचो बृहत्याः पतिस्तेनासौ बृहस्पतिः ।
यथा यद्यस्मादास्यादयते निर्गच्छति तेनाऽयास्य ऋषिः प्राण एव सन्नित्यर्थः तथान्यो ऽप्युपासक आत्मानमेवाऽङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः ॥11-12 ॥
स्तर्त् छुप् 1,2.13
तेन तं ह बको दाल्भ्यो विदां चकार ।
स ह नैमिशीयानाम् उद्गाता बभूव ।
स ह स्मैभ्यः कामान् आगायति

1.2.14

छुप्भ्_1,2.13 न केवलमङ्गिरःप्रभृतयः उपासाञ्चक्रिरे ।
तं ह बको नाम दल्भ्यस्यापत्यं दाल्भ्यो विदाञ्चकार यथादर्शितं प्राणं विज्ञातवान् ।
विदित्वा च स ह नैमिशीयानां सत्त्रिणामुद्गाता बभूव ।
स च प्राणविज्ञानसामर्थ्यादेभ्यो नैमिशीयेभ्यः कामानागायति स्म हाऽगीतवान्किलेत्यर्थः ॥13 ॥
स्तर्त् छुप् 1,2.14
आगाता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते ।
इत्य् अध्यात्मम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc