भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.1

1.1.1

ओं
सामवेदीया
छान्दोग्योपनिषत्
अथ प्रथमो ऽध्यायः
आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि, सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मे ऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
ओं शान्तिः शान्तिः शान्तिः
श्रीमच्छङ्करभगवत्पादाचार्यविरचितं भाष्यम् उपोद्घातः-
"ओमित्येतदक्षरम्" इत्याद्यष्टाध्यायी छान्दोग्योपनिषत् ।
तस्याः संक्षेपतोर्ऽथजिज्ञासुभ्य ऋजुविवरणमल्पग्रन्थश्रीमन्नरेन्द्रपुरीयतीन्द्रविरचितं छान्दोग्योपनिषद्भाष्यटिप्पणमिदमारभ्यते ।
तत्र सम्बन्धः- समस्तं कर्माधिगतं प्राणादिदेवताविज्ञानसहितमर्चिरादिमार्गेण ब्रह्मलोकप्रतिपत्तिकारणम् ।
केवलं च धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम् ।
स्वभावप्रवृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टाधोगतिरुक्ता ।
न चोभयोर्मार्गयोरन्यतरस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थसिद्धिरित्यतः कर्मनिरपेक्षमद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्देन वक्तव्यमित्युपनिषदारभ्यते ।
न चाद्वैतात्मविज्ञानादन्यत्राऽत्यन्तिकी निःश्रेयसप्राप्तिः ।
वक्ष्यति हि-"अथ ये ऽम्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति" ।
विपर्यये च"स स्वराड्भवति"इति ।
तथा द्वैतविषयानृताभिसन्धस्य बन्धनं तस्करस्येव तप्तपरशुग्रहणे बन्धदाहभावः, संसारदुःखप्राप्तिश्चेत्युक्त्वाद्वैतात्मसत्याभिसन्धस्यातस्करस्येव तप्तपरशुग्रहणे बन्धदाहाभावः संसारदुःखनिवृत्तिर्मोक्षश्चेति ।
अत एव न कर्मसहभाव्.द्वैतात्मदर्शनम् ।
क्रियाकारकफलभेदोपमर्देन"सदेकमेवाद्वितीयम्" "आत्मैवेदं सर्वम्" इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः ।
कर्मविधिप्रत्यय इति चेत् ।
न ।
कर्तृभोक्तृस्वभावविज्ञानवतस्तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात् ।
अधिगतसकलवेदार्थस्य कर्मविधानादद्वैतज्ञानवतो ऽपि कर्मेति चेत् ।
न ।
कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य"सदेकमेवाद्वितीयम्""आत्मैवेदं सर्वम्" इत्यनेनोपमर्दितत्वात् ।
तस्मादविद्यादिदोषवत एव कर्माणि विधीयन्ते ।
नाद्वैतज्ञानवतः ।
अत एव हि वक्ष्यति-"सर्व एते पुण्यलोका भवन्ति ।
ब्रह्मसस्थो ऽमृतत्वमेति"इति ।
तत्रैतस्मिन्नद्वैतविद्याप्रकरणे ऽभ्युदयसाधनान्युपासनान्युच्यन्ते कैवल्यसन्निकृष्टफलानि ।
चाद्वैतादीषद्वीकृतब्रह्मविषयाणि इत्यादीनि कर्मसमृद्धिफलानि च कर्माङ्गसम्बन्धीनि ।
रहस्यसामान्यान्मनोवृत्तिसामान्याच्च यथाद्वैतज्ञानं मनोवृत्तिमात्रं तथान्यान्यप्युपासनानि मनोवृत्तिरूपाणीत्यस्ति हि सामान्यम् ।
कस्तर्ह्यद्वैतज्ञानस्योपासनानां च विशेषः ।
उच्यते ।
स्वाभाविकस्याऽत्मन्यक्रिये ऽध्यारोपितस्य कर्त्रादिकारकक्रियाफलभेदविज्ञानस्य निवर्तकमद्वैतविज्ञानम् ।
रज्ज्वादाविव सर्पाद्यध्यारोपलक्षणज्ञानस्य रज्ज्वादिस्वरूपनिश्चयः प्रकाशनिमित्तः ।
उपासनं तु यथाशास्त्रसमर्पितं किञ्चिदालम्बनमुपादाय तस्मिन्समानचित्तवृत्तिसन्तानकरणं तद्विलक्षणप्रत्ययानन्तरितमिति विशेषः ।
तान्येतान्युपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वावभासकत्वादद्वैतज्ञानोपकारकाण्यालम्बनविषयत्वात् सुसाध्यानि चेति पूर्वमुपन्यस्यन्ते ।
तत्र कर्माभ्यासस्य दृढीकृतत्वात्कर्मपरित्यागेनोपासन एव दुःखं चेतः समर्पणं कर्तृमिति कर्माङ्गविषयमेव तावदादावुपासनमुपन्यस्यते ।
स्तर्त् छुप् 1,1.1
ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत ।
ओम् इति ह्य् उद्गायति ।
तस्योपव्याख्यानम्

1.1.2

छुप्भ्_1,1.1 इत्युपोद्घातभाष्यम्- ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमित्येतदक्षरं परमात्मनो ऽभिधानं नेदिष्ठम् ।
तस्मिन्हि प्रयुज्यमाने स प्रसीदति प्रियनामग्रहण इव लोकः ।
तदिहेतिपरं प्रयुक्तमभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते ।
तथा चार्चादिवत्परस्याऽत्मनः प्रतीकं सम्पद्यते ।
एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्वगतम् ।
जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात्प्रसिद्धमस्य श्रैष्ठ्यम् ।
अतस्तदेतक्षरं वर्णात्मकमुद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यमुपासीत ।
कर्माङ्गावयवभूत ओङ्कारे परमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं सन्तनुयात् ।
स्वयमेव श्रुतिरोङ्कारस्योद्गीथशब्दवाच्यत्वे हेतुमाह-ओमिति ह्युद्गायति ।
ओमित्यारभ्य हि यस्मादुद्गायत्यत उद्गीथ ओङ्कार इत्यर्थः ।
तस्योपव्याख्यानं तस्याक्षरस्योपव्याख्यानमेवमुपासनमेवंविभूत्येवंफलमित्यादिकथनमुपव्याख्यानम् ।
प्रवर्तत इति वाक्यशेषः ॥1 ॥
स्तर्त् छुप् 1,1.2
एषां भूतानां पृथिवी रसः ।
पृथिव्या आपो रसः ।
अपाम् ओषधयो रसः ।
ओषधीनां पुरुषो रसः ।
पुरुषस्य वाग् रसः ।
वाच ऋग् रसः ।
ऋचः साम रसः ।
साम्न उद्गीथो रसः

1.1.3

छुप्भ्_1,1.2 एषां चराचराणां भूतानां पृथिवी रसो गतिः परायणमवष्टम्भः ।
पृथिव्या आपो रसो ऽप्सु ह्योता च प्रोता च पृथिव्यतस्ता रसः पृथिव्याः ।
अपामोषधयो रसो ऽप्परिणामत्वादोषधीनाम् ।
तासां पुरुषो रसो ऽन्नपरिणामत्वात् पुरुषस्य ।
तस्यापि पुरुषस्य वाग्रसः ।
पुरुषावयवानां हि वाक्सारिष्ठा ।
अतो वाक्पुरुषस्य रस उच्यते ।
तस्या अपि वाच ऋग्रसः सारतरा ।
ऋचः साम रसः सारतरम् ।
तस्यापि साम्न उद्गीथः प्रकृतत्वादोङ्कारः सारतरः ॥2 ॥
स्तर्त् छुप् 1,1.3
स एष रसानां रसतमः परमः परार्ध्यो ऽष्टमो यदुद्गीथः

1.1.4

छुप्भ्_1,1.3 एवं स एष उद्गीथाख्य ओङ्कारो भूतादीनामुत्तरोत्तररसानामतिशयेन रसो रसतमः ।
परमः परमात्मप्रतीकत्वात् ।
परार्ध्योर्ऽधं स्थानं, परं च तदर्धं च परार्धं तदर्हतीति परार्ध्यः परमात्मस्थानार्हः परमात्मवदुपास्यत्वादित्यभिप्रायः ।
अष्टमः पृथिव्यादिरससंख्यायां यदुद्गीथो य उद्गीथः ॥3 ॥
स्तर्त् छुप् 1,1.4
कतमा कतम र्क् कतमत् कतमत् साम कतमः कतम उद्गीथ इति विमृष्टं भवति

1.1.5

छुप्भ्_1,1.4 वाच ऋग्रस इत्युक्तम् ।
कतमा सर्क्कतमत्तत्साम कतमो वा स उद्गीथः ।
कतमा कतमेति वीप्साऽदरार्था ।
ननु"वा बहूनां जातिपरिप्रश्ने डतमच्" ।
न ह्यत्र ऋग्जातिबहुत्वं कथं डतमच्प्रयोगः ।
नैष दोषः ।
जातौ परिप्रश्नो जातिपरिप्रश्न इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः ।
न तु जातेः परिप्रश्न इति विगृह्यते ।
ननु जातेः परिप्रश्न इत्यस्मिन्विग्रहे कतमः कठ इत्याद्युदाहरणमुपपन्नं जातौ परिप्रश्न इत्यत्र तु न युज्यते ।
तत्रापि कठादिजातावेव व्यक्तिबहित्वाभिप्रायेण परिप्रश्न इत्यदोषः ।
यदि जातेः परिप्रश्नः स्यात्कतमा कतमर्गित्यादावुपसंख्यानं कर्तव्यं स्याद्विमृष्टं भवति विमर्शः कृतो भवति ॥4 ॥
स्तर्त् छुप् 1,1.5
वाग् एवर्क् ।
प्राणः साम ।
ओम् इत्य् एतद् अक्षरम् उद्गीथः ।
तद् वा एतन् मिथुनं यद् वाक् च प्राणश् चर्क् च साम च

1.1.6

छुप्भ्_1,1.5 विमर्शे हि कृते सति प्रतिवचनोक्तिरुपपन्ना वागेवर्क्प्राणः सामेति ।
वागृचोरेकत्वे ऽपि नाष्टमत्वव्याघातः पूर्वस्माद्वाक्यान्तरत्वादाप्तिगुणसिद्धय ओमित्येतदक्षरमुद्गीथ इति ।
वाक्प्राणावृक्सामयोनी इति वागेवर्क्प्राणः सामेत्युच्यते ।
यथाक्रममृक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात् ।
सर्वर्क्सामावरोधे चर्क्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् ।
तदवरोधे च सर्वे कामा अवरुद्धाः स्युः ।
ओमित्येतदक्षरमुद्गीथ इति भक्त्याशङ्का विनर्त्यते ।
तद्वा एतदिति मिथुनं निर्दिश्यते ।
किं तन्मिथुनमित्याह यद्वाक्च प्राणश्च सर्वऋक्सामकारणभूतौ मिथुनम् ।
ऋक्व साम चेति ऋक्सामकारणावृक्सामशब्दोक्तावित्यर्थः ।
न तु स्वतन्त्रमृक्च साम च मिथुनम् ।
अन्यथा हि वाक्च प्राणश्चेत्येकं मिथुनमृक्साम चापरं मिथुनमिति द्वे मिथुने स्याताम् ।
तथा च तदेतन्मिथुनमित्येकवचननिर्देषो ऽनुपपन्नः स्यात् ।
तस्मादृक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम् ॥5 ॥
स्तर्त् छुप् 1,1.6
तद् एतन् मिथुनम् ओम् इत्य् एतस्मिन्न् अक्षरे संसृज्यते ।
यदा वै मिथुनौ समागच्छत आपयतो वै ताव् अन्यो ऽन्यस्य कामम्

1.1.7

छुप्भ्_1,1.6 तदेतदेवंलक्षणं मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ।
एवं सर्वकामावाप्तिगुणविशिष्टं मिथुनमोङ्कारे संसृष्टं विद्यत इत्योङ्कारस्य सर्वकामावाप्तिगुणवत्त्वं प्रसिद्धम् ।
वाङ्मयत्वमोङ्कारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वं मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते ।
यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतो ग्राम्यधर्मतया संयुज्येयानां तदाऽपयतः प्रापयतो ऽन्योन्यस्येतरेतरस्य तौ कामम् ।
तथा च स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वमोङ्कारस्य सिद्धमित्यभिप्रायः ॥6 ॥
स्तर्त् छुप् 1,1.7
आपयिता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते

1.1.8

छुप्भ्_1,1.7 तदुपासको ऽप्युद्गाता तद्धर्मा भवतीत्याह-आपयिता ह वै कामानां यजमानस्य भवति य एतदक्षरमेवमाप्तिगुणवदुद्गीथमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः ।
"तं यथा यथोपासते तदेव भवति"इति श्रुतेः ॥7 ॥
स्तर्त् छुप् 1,1.8
तद् वा एतद् अनुज्ञाक्षरम् ।
यद् धि किंचानुजानात्य् ओम् इत्य् एव तद् आह ।
एषो एव समृद्धिर् यद् अनुज्ञा ।
समर्धयिता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते

1.1.9

छुप्भ्_1,1.8 समृद्धिगुणवांश्चोङ्कारः ।
कथम्-तद्वा एतत्प्रकृमनुज्ञाक्षरमनुज्ञा च साक्षरं च तत् ।
अनुज्ञानुमतिरोङ्कार इत्यर्थः ।
कथमनुज्ञेत्याह श्रुतिरेव ।
यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वानुजानाति विद्वान्धनी वा तत्रानुमतिं कुर्वन्नोमित्येव तदाह ।
तथा च वेदे"त्रयस्त्रिंशदित्योमिति होवाच"इत्यादिना ।
तथा च लोके ऽपि तवेदं धनं गृह्णामीत्युक्त ओमित्याह ।
अत एषा उ एवैषैव समृद्धिर्यदनुज्ञा यानुज्ञा सा समृद्धिस्तन्मूलत्वादनुज्ञायाः ।
समृद्धो ह्योमित्यनुज्ञां ददाति तस्मात्समृद्धिगुणवानोङ्कार इत्यर्थः ।
समृद्धिगुणोपासकत्वात्तद्धर्मा सन्समर्धयिता ह वै कामानां यजमानस्य भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यादि पूर्ववत् ॥8 ॥
स्तर्त् छुप् 1,1.9
तेनेयं त्रयी विद्या वर्तते ।
ओम् इत्य् आश्रावयति ।
ओम् इति शंसति ।
ओम् इत्य् उद्गायति ।
एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन

1.1.10

छुप्भ्_1,1.9 अथेदानीमक्षरं स्तौत्युपास्यत्वात्प्ररोचनार्थम् ।
कथं, तेनाक्षरेण प्रकृतेनेयमृग्वेदादिलक्षणा त्रयी विद्या त्रयीविद्याविहितं कर्मेत्यर्थः ।
न हि त्रयी विद्यैवाऽश्रावणादिभिर्वर्तते कर्म तु तथा प्रवर्तत इति प्रसिद्धम् ।
कथमोमित्याश्रावत्योमिति शंसत्योमित्युद्गायतीति लिङ्गाच्च सोमयाग इति गम्यते ।
तच्च कर्मैतस्यैवाक्षरस्यापचित्यै पूजार्थम् ।
परमात्मप्रतीकं हि तत् ।
तदपचितिः परमात्मन एव सा ।
"स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः"इति स्मृतेः ।
महिम्ना रसेन ।
किञ्चैतस्यैवाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः ।
तथैतस्यैवाक्षरस्य रसेन व्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः ।
यागहोमाद्यक्षरेण क्रियते ।
तच्चाऽदित्यमुपतिष्ठते ।
ततो वृष्ट्यादिक्रमेण प्राणो ऽन्नं च जायते ।
प्राणैरन्नेन च यज्ञस्तायते ।
अत उच्यते ऽक्षरस्य महिम्ना रस्न्ति ॥9 ॥
स्तर्त् छुप् 1,1.10
तेनोभौ कुरुतः ।
यश् चैतद् एवं वेद यश् च न वेद ।
नाना तु विद्या चाविद्या च ।
यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवतीति खल्व् एतस्यैवाक्षरस्योपव्याख्यानं भवति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc