भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.12

1.12.1

छुप्भ्_1,11.9 पृष्टो ऽन्नमिति होवाच ।
सर्वाणि ह वा इमानि भूतान्यन्नमेवाऽत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्ति ।
सैषा देवता प्रतिशब्दसामान्यात्प्रतिहारभक्तिमनुगता ।
समानमन्यत्तथोक्तस्य मयेति ।
प्रस्तावोद्गीथप्रतिहारभक्तीः प्राणादित्यान्नदृष्ट्योपासीतेति समुदायार्थः ।
प्राणाद्यापत्तिः कर्मसमृद्धिर्वा फलमिति ॥9॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्यैकादशः खण्डः
=======================================================================
स्तर्त् छुप् 1,12.1
अथातः शौव उद्गीथः ।
तद् ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायम् उद्वव्राज

1.12.2

छुप्भ्_1,12.1 अतीते खण्डे ऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्तोच्छिष्टपर्युषितभक्षणलक्षणा ।
सा मा भूदित्यन्नलाभायाथानन्तरं शौवः श्वभिर्दृष्ट उद्गीथ उद्गानं सामातः प्रस्तूयते ।
तत्तत्र ह किल बको नामतो दल्भस्यापत्यं दाल्भ्यो ग्लावो वा नामतो मित्रायाश्चापत्यं मैत्रेयः ।
वाशब्दश्चार्थे ।
द्व्यामुष्यायणो ह्यसौ ।
वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः ।
द्विनामा द्विगोत्र इत्यादि हि स्मृतिः ।
दृश्यते चोभयतः पिण्डभाक्त्वम् ।
उद्गीथे बद्धचित्तत्वादृषावनादराद्वा ।
वाशब्दः स्वाध्यायार्थः ।
स्वाध्यायं कर्तुं ग्रामाद्बहिरुद्वव्राजोद्गतवान्विविक्तदेशस्थोदकाभ्याशम् ।
उद्वव्राज प्रतिपालयाञ्चकारेति चैकवचनाल्लिङ्गादेको ऽसावृषिः ।
श्वोद्गीथकालप्रतिपालनादृषेः स्वाध्यायकरणमन्नकामनयेति लक्ष्यत इत्यभिप्रायः ॥1 ॥
स्तर्त् छुप् 1,12.2
तस्मै श्वा श्वेतः प्रादुर् बभूव ।
तम् अन्ये श्वान उपसमेत्योचुः ।
अन्नं नो भगवान् आगायतु ।
अशनायाम वा इति

1.12.3

छुप्भ्_1,12.2 स्वाध्यायेन तोषिता देवतर्षिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः संस्तस्मा ऋषये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार ।
तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वान उपसमेत्योचुरुक्तवन्तो ऽन्नं नो ऽस्मभ्यं भगवानागायत्वागानेन निष्पादयत्वित्यर्थः ।
मुक्यप्राणं वागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोषिताः सन्तो ऽनुगृह्णीयुरेनं स्वरूपमादायेति युक्तमेवं प्रतिपत्तुम् ।
अशनायाम वै बुभुक्षिताः स्मो वा इति ॥2 ॥
स्तर्त् छुप् 1,12.3
तान् होवाचेहैव मा प्रातर् उपसमीयतेति ।
तद् ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयां चकार

1.12.4

छुप्भ्_1,12.3 एवमुक्ते श्वा श्वेत उवाच तान्क्षुल्लाकाञ्शुन इहैवास्मिन्नेव देशे मा मां प्रातः प्रातःकाल उपसमीयातेति ।
दैर्ध्यं छन्दसं समीयातेति, प्रमादपाठो वा ।
प्रातः कालकरणं तत्काल एव कर्तव्याझ्र्व्यताटर्थम् ।
अन्नदस्य वा सवितुरपराह्ने ऽनाभिमुख्यात् ।
तत्तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयाञ्चकार प्रतीक्षणं कृतवानित्यर्थः ॥3 ॥
स्तर्त् छुप् 1,12.4
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्य् एवम् आससृपुः ।
ते ह समुपविश्य हिञ् चक्रुः

1.12.5

छुप्भ्_1,12.4 ते श्वानस्तत्रैवाऽगम्य ऋषेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणा ।
उद्गातृपुरुषाः संरब्धाः संलग्ना अन्योन्यमेव मुखेनान्योन्यस्य पुच्छं गृहीत्वाऽससृपुरासृप्तवन्तः परिभ्रमणं कृतवन्त इत्यर्थः ।
त एवं संसृप्य समुपविश्योपविष्टाः सन्तो हिं चक्रुर्हिङ्कारं कृतवन्तः ॥4 ॥
स्तर्त् छुप् 1,12.5
ओ3मदा3म ।
ओं3 पिबा3म ।
ओं3 देवो वरुणः प्रजापतिः सविता2ऽन्नम् इहा2ऽहरत् ।
अन्नपते3ऽन्नमिहा2ऽऽहरा2ऽऽहरो3मिति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc