छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.11
छुप्भ्_1,10.10-11 एवमेवोद्गातारं प्रतिहर्तारमुवाचेत्यादि समानमन्यत् ।
ते प्रस्तोत्रादयः कर्मभ्यः समारता उपरताः सन्तो मूर्धपातभयात्तूष्णीमासांचक्रिरे ऽन्यच्चाकुर्वन्तः अर्थित्वात् ॥10-11 ॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोधध्यायस्य दशमः खण्डः
=======================================================================
स्तर्त् छुप् 1,11.1
अथ हैनं यजमान उवाच ।
भगवन्तं वा अहं विविदिषाणीति ।
उषस्तिर् अस्मि चाक्रायण इति होवाच
छुप्भ्_1,11.1 अथानन्तरं हैनमुषस्तिं यजमानो राजोवाच ।
भगवन्तं वै पूजावर्न्तमहं विविदिषामि वेदितुमिच्छामीत्युक्त उषस्तिरस्मि चाक्रायणस्तवापि श्रोत्रपथमागतो यदीति होवाचोक्तवान् ॥1 ॥
स्तर्त् छुप् 1,11.2
स होवाच ।
भगवन्तं वा अहम् एभिः सर्वैर् आर्त्विज्यैः पर्यैषिषम् ।
भगवतो वा अहम् अवित्त्यान्यान् अवृषि
छुप्भ्_1,11.2 स ह यजमान उवाच सत्यमेवमहं भगवन्तं बहुगुणमश्रौषं सर्वैश्च ऋच्विक्कर्मभिरार्त्विज्यैः पर्यैषिषं पर्येषणं कृतवानस्मि ।
अन्विष्य भगवतो वा अहमवित्त्यालाभेनान्यानिमानवृषि वृतवानस्मि ॥2 ॥
स्तर्त् छुप् 1,11.3
भगवांस् त्व् एव मे सर्वैर् आर्त्विज्यैर् इति ।
तथेति ।
अथ तर्ह्य् एत एव समतिसृष्टाः स्तुवताम् ।
यावत् त्व् एभ्यो धनं दद्यास् तावन् मम दद्या इति ।
तथेति ह यजमान उवाच
छुप्भ्_1,11.3 अद्यापि भगवांस्त्वेव मे मम सर्वैरार्त्विज्यैरृत्विक्कर्मार्थमस्त्वित्युक्तस्तथेत्याहोषस्त् इः ।
किन्त्वथैवं तर्ह्येत एव त्वया पूर्व वृता मया समतिसृष्टा मया सम्यक्प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम् ।
त्वया त्वेतत्कार्यम् ।
यावत्त्वेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि तावन्मम दद्या इत्युक्तस्तथेति ह यजमान उवाच ॥3 ॥
स्तर्त् छुप् 1,11.4
अथ हैनं प्रस्तोतोपससाद ।
प्रस्तोतर् या देवता प्रस्तावम् अन्वायत्ता तां चेद् अविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् ।
कतमा सा देवतेति
छुप्भ्_1,11.4 अथ हैनमौषस्त्यं वचः श्रुत्वा प्रस्तोतोपससादोषस्तिं विनयेनोपजगाम ।
प्रस्तोतर्या देवतेत्यादि मा मां मगवानवोचत्पूर्वम् ।
कतमा सा देवता या प्रस्तावभक्तिमन्वायत्तेति ॥4 ॥
स्तर्त् छुप् 1,11.5
प्राण इति होवाच ।
सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसंविशन्ति ।
प्राणम् अभ्युज्जिहते ।
सैषा देवता प्रस्तावम् अन्वायत्ता ।
तां चेद् अविद्वान् प्रास्तोष्यो मूर्धा ते विपतिष्यत् तथोक्तस्य मयेति
छुप्भ्_1,11.5 पृष्टः प्राण इति होवाच ।
युक्तं प्रस्तावस्य प्राणो देवतेति ।
कथं, सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेवाभिसंविशन्ति प्रलयकाले प्राणमभि लक्षयित्वा प्राणात्मनैवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले ।
अतः सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वांस्त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि मूर्धा शिरस्ते व्यपतिष्यद्विपतितमभविष्यत्तथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति ।
अतस्त्वया साधु कृतम् ।
मया निषिद्धः कर्मणो यदुपरममकार्षीरित्यभिप्रायः ॥5 ॥
स्तर्त् छुप् 1,11.6
अथ हैनम् उद्गातोपससाद ।
उद्गातर् या देवतोद्गीथम् अन्वायत्ता तां चेद् अविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् ।
कतमा सा देवता इति
छुप्भ्_1,11.6 तथोद्गाता पप्रच्छ कतमा सोद्गीथभक्तिमनुगतान्वायत्ता देवतेति ॥6 ॥
स्तर्त् छुप् 1,11.7
आदित्य इति होवाच ।
सर्वाणि ह वा इमानि भूतान्य् आदित्यम् उच्चैः सन्तं गायन्ति ।
सैषा देवतोद्गीथम् अन्वायत्ता ।
तां चेद् अविद्वान् उदगास्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति
छुप्भ्_1,11.7 पृष्ट आदित्य इति होवाच ।
सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैरूर्ध्वं सन्तं गायन्ति शब्दयन्ति स्तुवन्तीत्यभिप्रायः ।
उच्छब्दसामान्यात्प्रशब्दसामान्यादिव प्राणो ऽतः सैषा देवतेत्यादि पूर्ववत् ॥7 ॥
स्तर्त् छुप् 1,11.8
अथ हैनं प्रतिहर्तोपससाद ।
प्रतिहर्तर् या देवता प्रतिहारम् अन्वायत्ता तां चेद् अविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् ।
कतमा सा देवतेति
छुप्भ्_1,11.8 एवमेवाथ हैनं प्रतिहर्तोपसाद कतमा सा देवता प्रतिहारमन्वायत्तेति ॥8 ॥
स्तर्त् छुप् 1,11.9
अन्नम् इति होवाच ।
सर्वाणि ह वा इमानि भूतन्य् अन्नम् एव प्रतिहरमाणानि जीवन्ति ।
सैषा देवता प्रतिहारम् अन्वायत्ता ।
तां चेद् अविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0