चतुर्वर्गसंग्रह · अध्याय 3
ललितललनालीलोदञ्चद्विलोलविलोचनो त्पलवनरुचां चञ्चन्तीनां चयैर् इव चर्चिता ।
सुरभिसुहृदः पक्षच्छातावृतेव च षट्पदैः कुसुमधनुषः श्यामा मूर्तिस् तनोतु सुखानि वः ॥
भ्रमद्भ्रमरकेतकीविकसदेकपत्रप्रभाः सनीलमणिनायका इव विमुक्तमुक्तालताः ।
दृशः शशिकला इव प्रचितपक्ष्मलेशाङ्किता जयन्ति हरिणीदृसाम् अमृतकालकूटच्छटाः ॥
क्रतुं धनानां फलम् अग्र्यम् आहुः फलं क्रतूनाम् अविवादि पुण्यम् ।
पुण्यस्य पूर्णं फलम् इन्द्रलोको द्विरष्ट्वर्षाः स्त्रिय एव नाकः ॥
एताः सन्ति वधूविलासकुटिला भ्रूकार्मुकश्रेणयः कर्णान्तायतपातिनश् च तरुणीनेत्रत्रिभागेषवः ।
निर्दग्धो ऽन्धकवैरिणा नवमनःक्षोभाभियोगोद्भवात् संरम्भाद् अविचार्य केवलम् असौ मिथ्या तपस्वी स्मरः ॥
लज्जावक्रो मनसिजधनुर् भ्रूविलासेन तान्व्यश् चिन्तापाण्डुः स्पृशति कृशतां वक्रकान्त्या शशाङ्कः ।
यात्य् एवाधः प्रहसितरुचिदोर्लताभ्यां मृणाली क्लीबं धत्ते कुवलयकुलं कालिमानं कटाक्षैः ॥
अयोमयानां हृदयेषु तेषां को ऽप्य् अस्ति नूनं कुलिशोपदेशः ।
सोढानि यैः प्रौढविलासिनीनां कर्णान्तमुक्तानि विलोचनानि ॥
कुवलयमयी लोलापाङ्गे तरङ्गमयी भ्रुवोः शशिशतमयी वक्त्रे गात्रे मृणाललतामयी ।
मलयजमयी स्पर्शे तन्वी तुषारमयी स्मिते दिशति विषमं स्मृत्या तापं किम् अग्निमयीव सा ॥
स्मरशरनिशिताक्ष्याः कम्पयन्ते न केषां कुरव इव कटाक्षाः प्रौढशल्या मनांसि ।
भ्वनजनजिगीषोत्साहयोगाय येषाम् अधिचपलतराणां निश्चला कर्णमैत्री ॥
स्तनस्थली हारिणि सुन्दरीणां नितम्बबिम्बे रशनासनाथे ।
धत्ते विशेषाभरणाभिमानलीलानवोल्लेखलिपिप्रपञ्चम् ॥
कान्ताया विलसद्विलासहसितस्वच्छांशचश्चामरं संसक्ताव् अभिषेकहेमकलशौ यच् चन्दनाङ्कौ स्तनौ ।
यत्कार्तस्वरकान्ति चारु जघनं सिंहासनं भूभुजां साम्राज्यं तद् इदं जयाजयमयः शेषस् तु चिन्तामयः ॥
नासादितानि वनवासदृढव्रतेन चित्राणि नेत्रचरितानि मृगैर् मृगाक्ष्याः ।
तत्कान्तिर् उज्ज्वलरुचिव्यसनाद् अहो नु हेम्ना हुताशपतनैर् अपि नैव लब्धा ॥
अभिनवपयोधरोद्गतिविषमस्थितिहारहंसमुखपतिता ।
शैवलवलीव चास्यास् त्रिककलिता भाति रोमलता ॥
नेयं तरुण्यास् त्रिवली तरङ्गकुसङ्गिनी राजति रोमराजिः ।
स्नात्वा गतो ऽस्यां स्मरकेलिवाप्यां कलङ्कलेखाम् अपहाय चन्द्रः ॥
कर्णे कोकिलकामिनीकलरवः संतप्तसूचीचयः फुल्लाशोकपलाशचम्पकवनाद्युद्दामदावानलः ।
तन्वङ्ग्या विरहे वस्नतसमयः कालः किम् अन्यन् नृणां देहोच्चाटनम् एव षट्पदघटाघ्राणातिथिर् मन्मथः ॥
आपाण्डुता मदनकीर्तिसखी मुखेन्दौ प्रौधिं बिभर्ति विरहे हरिनायताक्ष्याः ।
अच्छिन्नबाष्पविसरारुणनेत्रकोण लीनप्रतापम् इव मन्मथम् उद्वहन्त्याः ॥
वियोगे तन्वङ्ग्या हृदयदमने दैन्यसदने घने भर्तृस्नेहान् मदनदहने घर्यचलने ।
समासन्ने चिन्ताच्यसनशमने प्राणगमने तनुस् तापम्लाने वलति नलिनीपत्रशयने ॥
दाक्षिण्यप्रणयेन पादपतिते कान्ते मया नेक्षिते प्राणानां ज्वलितः प्रवासपिशुनः शापानलः पश्यसि ।
एतैः संभ्रमकातरे किम् अधुना मिथ्यासमाश्वासनैः संतापाय सखि त्वयैव ननु मे मनोपदेशः कृतः ॥
समायाते पत्यौ बहुतरदिनप्राप्यपदवीं समुलङ्घ्याविघ्नागमनचतुरं चारुनयना ।
स्वयं हर्षोद्बाष्पा हरति तुरगस्यादरवती रजः स्कन्धालीनं निजवसनकोणावहननैः ॥
वासः कम्पविशृङ्खलं वितिलकं स्वेदोद्गमादाननं संदष्टो ऽधरपल्लवः कलयति श्वासोष्मना म्लानताम् ।
दूति त्वद्वचने शठस्य कठिनस्याग्रे गते कुण्ठतां मत्स्नेहाद् विहितस् त्वया कुपितया क्लेशप्रवेशः कियान् ॥
व्याप्तास्व् अशोकज्वलनेन दिक्षु निरन्तरापातशिलीमुखासु ।
रुद्धासु जालैर् वनमञ्जरीणां नष्टा गतिः पान्थकुरङ्गकस्य ॥
विकसति सहकारे दुःसहे कर्णिकारे मधुकरपरिहारे सस्मिते सिन्धुवारे ।
अहह विरहभीत्या कामिनीं कण्ठलग्नां त्यजति नववसन्ते हन्त कापालिकः कः ॥
तन्वङ्ग्या नवसंगमे व्यवसिते कान्ते बलान् मेखलां मोक्तुं श्वासविकासकम्पविकलाः कण्ठे लुठन्त्यः सुधाम् ।
मीलत्पद्मनिपीडितालिरणिताः क्लीबाः किरन्ति क्षणं धन्यानां नननेति निःसहतया हुंकारगर्भा गिरः ॥
गाढालिङ्गननिश्चलाङ्गलतिका कान्तेन रुद्धा बलाद् आलम्ब्यालकवल्लरिं विदधता वक्राम्बुजे चुम्बनम् ।
कम्प्रप्रस्फुरितारुणाधरदला बाला निमील्याक्षिणी मन्ये मानसजन्मजीवजननं जप्यं समभ्यस्यति ॥
केनैव विशिखाः स्फुरच्छिखिशिखाशाखासखा मानिनी मौनोन्माथपृथुप्रथा विरहिनीनिःश्वासपक्षानिलाः ।
सह्यन्ते रतिवल्लभस्य लटभानेत्रान्ततीक्ष्णानना संदष्टाधरपल्लवाग्रतरुणीसीत्कारशूत्कारिणः ॥
आयुर् दीर्घतरं तनोतु नयनद्वन्द्वं कुरङ्गीदृशां कीर्तिं ते स्मितसंततिः स्तनतटश्रोणी विशालश्रियम् ।
देवस्य त्रिजगज्जयाय पटहे दत्ते मृगाक्षीगिरोर् इत्य् उत्साहसहे हिताय विहिता जाने जनन्याशिषः ॥
मूल पाठ: Caturvargasaṃgraha · Edition: Paṇḍit Durgāprasād Kāśīnāth Pāṇḍuraṅg Parab Kāvyāmālā Part 5 Bombay Nirnaya Sagar Press 85-101 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0