चतुर्वर्गसंग्रह · अध्याय 2
प्रधानधाम्नां निधये धनाय नमोऽ स्तु तस्मै गुणिनो ऽपि यत्नात् ।
यदाशया निर्गुणभूपतीनाम् अग्रे गुणान् षण्यदशां नयन्ति ॥
दानादिधर्मः क्रियते धनेन धनेन धन्या धनम् आप्नुवन्ति ।
धनैर् विना कामकथापि नास्ति त्रिवर्गमूलं धनम् एव नान्यत् ॥
यत् क्लीबैर् भटकुक्कुटोत्कटरणक्रीडा समादिश्यते यन् मूर्खैः सुखलिलया कविशुकालापश्चिरं चर्व्यते ।
नीचैर् उच्चतरश् च सेवकहयः स्वाम्येन यद् वाह्यते तद् वित्तस्य विलासनृत्तवसतेर् उद्वृत्तवृत्तायितम् ॥
पूजा धनेनैव न सत्कुलेन कीर्तिर् धनेनैव न विक्रमेण ।
रूपं धनेनैव न यौवनेन क्रिया धनेनैव न जीवितेन ॥
वृद्धाः प्रसिद्धा विबुधा विदग्धाः शूरा श्रुतिज्ञाः कवयः कुलीनाः ।
विलोकयन्तः सधनस्य वक्त्रं जयेति जीवेति सदा वदन्ति ॥
क्रुद्ध्या युतं निश्चलपक्ष्मनेत्रं मौनान्वितं देवम् इवाकुलीनम् ।
दीनः कुलीनः प्रणमत्कुलीनः कृताञ्जलिः स्तौति धनाभिकामः ॥
तस्माद् अलब्धद्रविणस्य लाभे लब्धस्य रक्षानियमे यतेन ।
संरक्षमाणस्य सदा विवृद्धौ वृद्धस्य च स्थानविभागसर्गे ॥
धर्माधानो ऽशशिशुचियमः प्रेयसीमित्रबन्धु स्थानोत्साहोपचयविजयप्राणविद्याकलाप्तौ ।
श्लाघ्ये देहप्रशमसमये निर्विवादे विभागे वित्तत्यागे न भवति सतां ग्रन्थिबन्धानुबन्धः ॥
गोष्ठी विटैश् चारणचक्रचर्या वेश्यारतिः साधुविशेषगन्धः ।
स्पर्धा सुवेषैर् निजवृत्तिलज्जा प्रधानम् एतन् निधनं धनानाम् ॥
जाया शीलविवर्जिता व्ययवती मायानिकायः सुहृद् दुष्पूरो गुरुर् अर्थभोगनिचयैर् बन्धुर् दरिद्रः शठः ।
दासश् चौर्यपरो ऽसलश् च कुपदे पुत्रः खलैः पातितः सो ऽयं क्लेशशताप्तसंचयनिधेः प्रत्यक्षलक्ष्यः क्षयः ॥
दाक्ष्यं वित्तस्य मूलं सुनयपरिचयः संपदुद्यानसेकः प्रागल्भ्यं रत्नवर्षि व्यसनवनसमुन्मूलनं संयतत्वम् ।
श्रीरक्षा मन्त्रगुप्तिर् विपदुपशमनं वर्जनं दुर्जनानाम् आलस्यं मानवानां धनवननलिनासह्यभारस् तुषारः ॥
हिमासहत्वं रवितापभीतिः कथामतिर् मार्गजनप्रतीक्षा ।
लज्जाभिमानः क्षणसंमुखत्वं नक्षत्रचर्चा च धनस्य विघ्नाः ॥
वेषः परिक्लेशविशेषचिन्ता परोपरोधः स्ववशावलेपः ।
नदीफलानाम् इव शीघ्रगानां हानिर् धनानां ग्रहणे विलम्बः ॥
गुरुगणकैर् अबुधानां क्षयचतुरैश् चौरमुषकैर् वणिजाम् ।
कायस्थगायनगणैर् भूमिभुजां भुज्यते लक्ष्मीः ॥
दारिद्र्येण कुलं मदेन कुशलं द्वेषेण विद्याफलं शीलं दुर्जनसंगमेन मलिनाचारेण शुक्लं यशः ।
आलस्येन धनं प्रयाति निधनं लौल्येन मानोन्नतिर् याच्ञादैन्यपरिग्रहेण च गुणग्रामः समग्रो नृणाम् ॥
मौग्ध्यान् मृगर्थी रघुनन्दनो ऽपि बाणः प्रमादाद् बलिर् आर्जवेन ।
नलः कुसङ्गेन ययातिजश् च क्लेशासहत्वाद् व्यसनान्य् अवापुः ॥
मौग्ध्यं प्रमादो ऽविश्वासः कुसङ्गः क्लेशभीरुता ।
पञ्च संकोचदा दोषाः पद्मिन्या इव संपदः ॥
कुभूपकूपान्तरलम्बनाप्तवित्तानि रन्ध्रैर् घटसंनिभानाम् ।
असंवृत्तैर् इन्द्रियनामधेयैः पुंसां पयांसीव परिस्रवन्ति ॥
सास्वादे नवसौरभे मधुलिहां पद्मोदरे बन्धनं दीपे रूपरताः प्रयान्ति सततापातात् पतङ्गाः क्षयम् ।
गीतेनैव मृगाः पतन्ति करिणीस्पर्शेन नीता गजास् तस्माद् इन्द्रियसक्तिर् एव सहसा पुंसां विपद्दूतिका ॥
कुलं कुवृत्त्या कलुषीकृतं तैः कृतो गुणौघस् तृनतुल्यमूल्यः ।
मानस्य मूले निहितः कुठारः प्राप्तं न वित्तं परिरक्षितं यैः ॥
जातः सत्कुलजः स नीचविनयी सेवावमानैर् अधस् तस्योग्रं पतितः स्वमानयशसोर् द्रोहेण शापानलः ।
तेनास्वस्तिमता स्वहस्तनिहितं याच्ञाविषं भक्षितं वित्तं येन न रक्षितं रिपुमुखं तेन स्थितं वीक्षितम् ॥
धावन् सेवितुम् एति साधुर् अधमं कन्ध्यस् ततो यात्य् असौ नीता मूल्यतुलां गुणाश् च गुणिभिः कश्चिन् न गृह्णाति तान् ।
याच्ञा मानमहाशनिर् धनकृता प्राप्तं न किंचित् तया किं किं वा न विधीयते धनधिया धन्यः स यस्यास्ति तत् ॥
विद्याकलापरिचयः क्षितिपालसेवा दिग्द्वीपमार्गगिरिसंभ्रमणप्रयासः ।
युद्धाक्रियाश् च भुवि भोजनलाभलोभात् तद्वित्तलभ्यम् इति वित्तवतां प्रवादः ॥
तावद् धर्मकथा मनोभवरुचिर् मोक्षस्पृहा जायते यावत् तृप्तिसुखोदयेन न जनः क्षुत्क्षामकुक्षिः क्षणम् ।
प्राप्ते भोजनचिन्तनस्य समये वित्तं निमित्तं विना धर्मे कस्य धियः स्मरं स्मरति कः केनेक्ष्यते मोक्षभूः ॥
अर्थाकृष्टिं विधातुं कटुरटनपटुर् दाम्भिकः श्रीजडानां जानात्य् अन्यासहिष्णुर् वितथनिजगुणस्तोत्रपाठेष्व् अलज्जः ।
आर्यः कुर्यान् न सेवं कुलविनयगुणैस् तेन मूको ऽर्थनायां तीक्ष्णानां मार्गणानां भवति हि पुरतः क्ष्मापतेर् लक्षलाभः ॥
मूल पाठ: Caturvargasaṃgraha · Edition: Paṇḍit Durgāprasād Kāśīnāth Pāṇḍuraṅg Parab Kāvyāmālā Part 5 Bombay Nirnaya Sagar Press 85-101 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0