चतुर्वर्गसंग्रह · अध्याय 4
भोगाभोगविलोपकोपकलहैर् अस्तोकशोकाकुलं कामं कामम् अकामधामसमयं योगं वियोगानुगम् ।
रोगोद्गारविकारपाकविषमं निर्मूल्य नेत्रव्यथाः सेकं मोक्षफलस्य संशयतरोर् एकं विवेकं नुमः ॥
उद्याने मुधचन्द्रिका शशिमुखीगीतं सुहृत्सत्कथा कस्येदं न सुखाधिकं सुखसखीं प्रीतिं परां वर्षति ।
किं त्व् एतत् खलसङ्गसर्परसनामातङ्गकर्णाञ्चल प्रौढापाङ्गपतङ्गपक्षगणिकानागेन्द्रजालोपमम् ॥
बाल्यं दुःसहमोहसंहतिहतं रागोल्बणं यौवनं वृद्धत्वं सकलोपभोगकलनावैकल्यशल्याकुलम् ।
वैराग्येण विना विनष्टविमलालोकं सशोकं सदा संसारे सरतां पुनः पुनर् अहो यातं वृथा जीवितम् ॥
दृष्टा बालकचेष्टा यौवनदर्पो ऽथ वृद्धवैराग्यम् ।
सापि गता सो ऽपि गतस् तद् अपि गतं स्वप्नमायेयम् ॥
पुनःपुनर्जन्मसहस्रहेतुर् मलीमसः स्नेहसमो ऽस्ति नान्यः ।
पुंसः प्रदीपस्य च यः करोति सेवोन्मुखत्वं गृहसंविभागे ॥
आक्रान्तं पिशुनैर् नरेन्द्रभवनं विद्यागृहं मत्सरैर् आयासैर् द्रविणं कुलं कुतनयैर् नानावितोगैः सुखम् ।
साधुत्वं खलवञ्चनापरिभवैश् चिन्तासहस्रैर् मनस् तन् नास्त्य् एव न यत् सरोषकलुषं निर्दोष एकः शमः ॥
भोगे रोगभयं सुखे क्षयभयं वित्ते ऽग्निभूभृद्भयं दास्ये स्वामिभयं गुने खलभयं वंशे कुयोषिद्भयम् ।
माने म्लानिभयं जये रिपुभयं काये कृतान्ताद् भयं सर्वं नाम भवे भवेद् भयम् अहो वैराग्यम् एवाभयम् ॥
कृतं शमजलेन यैर् विरततीव्रतृष्णं मनः परं भवपराभवोद्धरणधीरधुर्यैर् न ते ।
भजन्ति जननीजनप्रसृतदुग्धधाराघन स्तनप्रणयि तत् पुनर् दशनशून्यम् आस्यं नराः ॥
उत्सृज्य संतोषसुखामृतानि प्रीत्यै पराराधनसाधनानि ।
अहो नु मानानि धनानि पुंसां घनानि निद्रासुखसाधनानि ॥
विवेकस्वाधीने विजनगमने जन्मशमने विकारे संसारे व्यसनपरिहारे ऽपि सुकरे ।
पुरं लज्जा साधोः प्रसवसमये शोणितमये पुनः पाणिं मूर्ध्नि क्षिपति यदि धात्रीति पतितः ॥
आयासप्रसवे विचारविरसे लज्जाजुगुप्सास्पदे रागान्धा विरमन्ति नैव कुपदे स्त्रीभोगनाम्नि च्युताः ।
चित्तं नास्ति सचेत्साम् अपि निजाकर्षे विमर्षः क्षणं रत्यन्येषु परङ्मुखत्वम् अनिशं प्राप्नोति नायं जनः ॥
केशाकुले रक्तकषायपङ्ककपालभाजि प्रकटास्थिदन्ते ।
कायश्मशाने रमते ऽङ्गनानां कामाकुलः कामुककाकलोकः ॥
अहो तृष्णा वेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम् ।
विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी कटाक्षैः कूटाक्षैः कपटकुटिलैः कामकितवः ॥
बाल्यं कुलीरजननीजनकप्रमोहं तद्यौवनं कुलटभासुभगोपयोगम् ।
वृद्धत्वम् अप्य् उपचितं कुकलत्रपुत्रैः सत्यं न किंचिद् इदम् अत्र खचित्रमित्रम् ॥
न कस्य कुर्वन्ति शमोपदेशं स्वप्नोपमानि प्रियसंगतानि ।
जरानिपीतनि च यौवनानि कृतान्तदष्टानि च जीवितानि ॥
चिन्त्यन्ते यदि नाम रामनहुषश्वेतादिराजर्षयः किं तैर् याति विशालकालकलनामीलत्कथाकौतुकैः ।
गण्यन्तां स्वदृशैव भूरिविभवा दृष्टाश् च नष्टाश् च ये तस्मात् सर्वम् अनित्यताकवलितं ज्ञात्वा शमः स्मर्यताम् ॥
यदा लोला लक्ष्मीः क्षितिपतिरणारण्यहरिणी यदा स्वप्नोमेषा तनुघनतडिद्यौवनरुचिः ।
यदा कालः कामं जनजलजकिञ्जल्कमधुपस् तदा संसारे ऽस्मिन्न् अविबुधमनो नोपरमते ॥
संतोषाम्भः पिबति निभृतस्वच्छम् इच्छामयूरी भ्रान्त्वा चान्तःकरणहरिणो याति विश्रान्तिम् अन्तः ।
लीनश् चायं शमतरुजले शीतले तापतान्तिं मीलत्कामस् त्यजति नियतं मत्तचित्तद्विपेन्द्रः ॥
याते भोगे स्मरणपदवीं सक्तनानावियोगे शोकः स्तोकं स्पृशति न मनः सर्वथा निर्व्यथानाम् ।
काले काले किल कलयताम् अन्तवत्सर्वमन्तः प्रायः कायक्षयपरिचये निश्चये निर्भरं नः ॥
यातु व्यक्तिं कुसुमसमयः संचयः सौरभाणां खे खेलन्तो मलयनिलयाः संततं वान्तु वाताः ।
कामः कामं क्षपयतु धृतिं पक्ष्मलाक्षीकटाक्षैः शान्तिश् चित्ते स्थिरसुखसखी निर्विकारे ममास्तु ॥
जरानिगीर्णे सुभगाभिमाने म्लाने शनैर् भूतिलताप्रताने ।
धनावदाने शिथिलाभिमाने धृतिर् निधाने प्रशमाभिधाने ॥
रागेण सार्धं वयसि प्रयाते गतेषु भोगेषु सह स्पृहाभिः ।
देहे च मोहेन समं प्रलीने निरर्गलो ऽसाव् अपवर्गमार्गः ॥
चित्तं वातविकासिपांसुसचिवं रूपं दिनान्तातपं भोगं दुर्गतगेहबन्धचपलं पुष्पस्मितं यौवनम् ।
स्वप्नं बन्धुसमागमं तनुम् अपि प्रस्थानपुण्यप्रपां नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥
अभिन्नार्थानर्थः सुहृदरिपरिच्छेदरहितः समावज्ञामानः सदृशसुखदुःखव्यतिरेकः ।
न मौनी नामौनी वनजलसमानासनमना न दैन्यं नादैन्यं स्पृशति गुणनैर्गुण्यविरतः ॥
सा दूरे हरिचन्दनस्य न परं हारेण किं हारिता नो कान्ताकुचमण्डलस्य सुलभा चन्द्रे दरिद्रे कुतः ।
गीते संगतिर् एव नास्ति समता तस्यां न सिद्धामधोर् नैराश्ये सहसैव चेतसि कृते या प्रीतिर् उज्जृम्भते ॥
लब्धावधिः सत्यसुखामृतस्य नवप्रमोदाद्भुतपूर्णकामः ।
भारावताराद् इव निर्वृतो ऽहं त्यागेन सर्वाग्रहसंग्रहाणाम् ॥
धनार्जनविचिन्तनं हृदयरोपिताशावनं वृथा चरणशातनं खलकदर्यसंसेवनम् ।
सदा व्यसनशोचनं प्रियवियोगदीनाननं विहाय गृहमज्जनं व्रजति पुण्यवान् निर्जनम् ॥
नास्ति स्वस्तिकरः परः परिभवो धर्मात्मनां प्राणिनाम् आपत्तापशमक्षमं धनसमं नान्यत्क्रियाजीवितम् ।
संसारे परम् अस्ति नो ऽत्र सुखदं रम्यं न रामाननात् सर्वक्लेशविनाशनिर्व्र्तिरसः को नाम मोक्षात् परः ॥
चतुर्वर्गोपदेशेन क्षेमेन्द्रेण यद् अर्जितम् ।
पुण्यं तेनास्तु लोको ऽयं चतुर्वर्गस्य भाजनम् ॥
मूल पाठ: Caturvargasaṃgraha · Edition: Paṇḍit Durgāprasād Kāśīnāth Pāṇḍuraṅg Parab Kāvyāmālā Part 5 Bombay Nirnaya Sagar Press 85-101 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0