चतुर्वर्गसंग्रह · अध्याय 1
सत्यस्कन्धस् तरुणकरुणापूतपीयूषसिक्तः क्षान्तिच्छायः शुभमतिलतालंकृतः शीलमूलः ।
भूयात् सत्त्वप्रसवविलसत्पल्लवः पुण्यभाजां धर्मः प्रोद्यत्कुशलकुसुमः श्रीफलो मङ्गलाय ॥
उपदेशाय शिष्याणां संतोषाय मनीषिणाम् ।
क्षेमेन्द्रेण निजश्लोकैः क्रियते वर्गसंग्रहः ॥
धर्मः शर्म परत्र चेह च नृणां धर्मो ऽन्धकारे रविः सर्वापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः ।
धर्मो बन्धुर् अबान्धवे पृथुपथे धर्मः सुहृन् निश्चलः संसारोरुमरुस्थले सुरतरुर् नास्त्य् एव धर्मात् परः ॥
कर्णे धर्मकथा मुखे परिचितं धर्माभिरामं वचश् चित्ते धर्ममनोरथः प्रणयिनी सर्वत्र धर्मस्थितिः ।
काये धर्ममयी क्रिया परिकरः सो ऽयं शुभप्राप्तये कल्पापायपदे ऽप्य् उपप्लवलवैर् अस्पृष्टवेलाफलः ॥
निन्द्यं जन्म प्रमोहस्थिरतरतमसां यन् मनुष्यत्वहीनं बुद्ध्या हीनो मनुष्यः शुभफलविकलस् तुल्यचेष्टः पशूनाम् ।
बुद्धिः पाण्डित्यहीना भ्रमति सदसतोस् तत्त्वचर्चाविचारे पाण्डित्यं धर्महीनं शुकसदृशगिरां निष्फलक्लेशम् एव ॥
पाण्डित्यं यन् मदान्धानां परोत्कर्षविनाशनम् ।
मात्सर्यपांसुपूरेण मातङ्गस्नानम् एव तत् ॥
तत्प्राज्ञत्वं हरति विमलं येन शीलं न कामस् तद्धीरत्वं प्रशमवशतां यान्ति येनेन्द्रियाणि ।
तद्वैदग्ध्यं भुवनजयिनी वञ्च्यते येन माया तत्पाण्डित्यं भवपरिभवः शान्तिम् आयाति येन ॥
अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः ।
मृतः स एवास्ति यशो न यस्य धर्मे न धीर् यस्य स एव शोच्यः ॥
हितं न किंचिद् विहितं परस्य दत्तं न वित्तं न च सत्यम् उक्तम् ।
यस्मिन् दिने निष्फलतां प्रयातम् आयुः स कालः परिदेवनस्य ॥
न दानतुल्यं धनम् अन्यद् अस्ति न सत्यतुल्यं व्रतम् अन्यद् अस्ति ।
न शीततुल्यं शुभम् अन्यद् अस्ति न क्षान्तितुल्यं हितम् अन्यद् अस्ति ॥
सत्यं वाचि दृशि प्रसादमयता सर्वाशयाश्वासिनी पाणौ दानविमुक्तिर् आत्मजननक्लेशान्तचिन्ता मतौ ।
संसक्ता हृदये दयैव दयिता काये परार्थोद्यमो यस्यैकः पुरुषः स जीवति भवे भ्राम्यन्त्य् अजीवाः परे ॥
परप्राणत्राणप्रणिहितधियां धर्मजननी दयैवैका लोके सकलजनताजीवितसुधा ।
असामान्यं पुण्यं मुनिभिर् उदितं ज्ञाननयनैर् अहिंसा संसारे स्वपुरकुशलश्लाघ्यसरणिः ॥
प्राणाणां परिरक्षणाय सततं सर्वाः क्रियाः प्राणिणां प्राणेभ्यो ऽप्य् अधिकं समस्तजगतां नस्त्य् एव किंचित् प्रियम् ।
पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवान् प्राणानाम् अभयं ददाति सुकृती तेषाम् अहिंसाव्रतः ॥
स एव सत्त्वाभरणप्रभावभूर्भुवः प्रकामाभरणं नरोत्तमः ।
मुखाम्बुजे यस्य वसत्य् अनत्यया सदैव सत्याभरणा सरस्वती ॥
क्लिन्नं कोषनिषण्णम् अर्थिविफलं शल्यायते यत्परं वित्तं क्लेशानिमित्तम् एव मलिनं यातु स्वयं तत्क्षयम् ।
यत्कारुण्यपरोपकारविकलं भूभारभूतं वपुः स्वार्थासक्तम् अनर्थसार्थसदनं मा मास्तु तत् कस्यचित् ॥
वन्द्यः स पुंसां त्रिदशाभिवन्द्यः कारुण्यपुण्योपचयक्रियाभिः ।
संसारसारत्वम् उपैति यस्य परोपकाराभरणं शरीरम् ॥
परद्रविणनिःस्पृहः परकलत्रनिष्कौतुकः परप्रणयवत्सलः परनिकारबद्धक्षमः ।
परस्तुतिविशारदः परगूनापवादोज्झितः परार्तिहरणोद्यतो भवति भूरिपुण्यैर् नरः ॥
पद्मानाम् इव सा सतां सगुणता या संश्रयार्हा श्रियः सा श्रीर् भद्रगजेन्द्रमूर्तिर् इव या दानेन विभ्राजते ।
तद् दानं नवचन्द्रवद् यद् अनिशं मानेन संपूर्यते मानो ऽसौ टृणवन् न यः परिचयम्लानः शनैः शुष्यति ॥
लक्ष्मीर् दानफला श्रुतं शमफलं पाणिः सुरार्चाफलश् चेष्टा धर्मफला परार्तिहरणक्रीडाफलं जीवितम् ।
वाणी सत्यफला जगत्सुखफलस्फीता प्रभावोन्नतिर् भव्यानां भवशान्तिचिन्तनफला भूत्यै भवत्य् एव धिः ॥
शीलं शिलयतां कुलं कलयतां सद्भावम् अभ्यस्यतां व्याजं वर्जयतां गुणं गणयतां धर्मे धियं बध्नताम् ।
क्षान्तिं चिन्तयतां तमः शमयतां तत्त्वश्रुतिं शृण्वतां संसारे न परोपकारसदृशं पश्यामि पुण्यं सताम् ॥
तीर्थानि दीर्घाध्वपरिश्रमाणि बहुव्ययानि क्रतुडम्बराणि ।
तपांसि मुक्त्वा तनुशोषणानि हिंसाविरामे रमतां मतिर् वः ॥
युज्वा विप्रः शुचिर् अनुचरः संयतात्मा तपस्वी मन्त्री विद्वान् अवनिवनिताभूषणं भूमिपालः ।
धर्मोद्याने सुकृतसलिलासारसंसिच्यमाने पूर्णः सो ऽयं कृतयुगतरोर् भाविनो बीजवापः ॥
दम्भेन शीलव्रतम् अस्पृहत्वं विरक्तता श्रोत्रियता मृदुत्वम् ।
एतानि मूलानि निगूढगूढकौटिल्यलीनानि कलिद्रुमस्य ॥
यावन्ति दानानि वदन्ति सन्तस् तपांसि तीर्थानि च यानि सन्ति ।
तत्पुण्यम् एकत्र विभाति सर्वं महार्हम् एकत्र च निःस्पृहत्वम् ॥
सताम् अदैन्यं वदनस्य शोभा निर्लोभतान्तर्वचसामयाच्ञा ।
कायस्य सत्सेव्यम् असेव्यकत्वं पाणेर् अनुत्तानतलत्वम् एव ॥
मान्यः कुलीनः कुलजात् कलावान् विद्वान् कलाज्ञाद् विदुषः सुशीलः ।
धनी सुशीलाद् धनिनो ऽपि दाता दातुर् जिता कीर्तिर् आयाचकेन ॥
तप्तैस् तीव्रव्रतैः किं विकसति करुणास्यन्दिनी यद्य् अहिंसा किं दूरैस् तीर्थसारैर् यदि शमविमलं मानसं सत्यपूतम् ।
यत्नाद् अन्योपकारे प्रसरति यदि धीर् दानपुण्यैः किम् अन्यैः किं मोक्षोपाययोगैर् यदि शुचिमनसाम् उच्यते भक्तिर् अस्ति ॥
मूल पाठ: Caturvargasaṃgraha · Edition: Paṇḍit Durgāprasād Kāśīnāth Pāṇḍuraṅg Parab Kāvyāmālā Part 5 Bombay Nirnaya Sagar Press 85-101 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0