चन्द्रालोक · अध्याय 9
मुख्यार्थस्याविवक्षायां पूर्वार्वाची च रूढितः
प्रयोजनाच् च संबद्धं वदन्ती लक्षणा मता ॥
लक्षणीयस्वशब्दस्य मीलनामीलनाद् द्विधा
लक्षणा सा त्रिधा सिद्ध साध्यसाध्याङ्गभेदतः ॥
स्फुटास्फुटप्रभेदेन प्रयोजनम् अपि द्विधा
विदुः स्फुटं तटस्थत्वाद् अर्थगत्वाद् द्विधा बुधाः ॥
अस्फुटं चार्थनिष्ठत्वात् तटस्थत्वाद् अपि द्विधा
लक्ष्यलक्षकनिष्ठत्वाद् अर्थसंस्थम् अपि द्विधा ॥
लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा
अस्फुटत्वं तटस्थत्वं लक्ष्यस्थत्वम् अमुष्य च ॥
अन्यास् तिस्र इति व्यक्ता शक्तितः सा चतुर्विधा
इन्दुर् एवैष तद्वक्त्रम् उत्कर्षो लक्ष्यते मुखे ॥
प्रदीपं वर्धयेत्यत्र तटस्थं मङ्गलोदयः
पटो ऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् ॥
अमृतं सूक्तम् इत्यादौ लक्ष्यस्थम् अतिहृद्यता
आभिमुख्यात् संनिधानात् तथाकारप्रतीतितः ॥
कार्यकारणभावात् सा वाच्यवाचकभावतः
इत्येवमादेः संबन्धात् किंचान्यस्माच् चतुष्टयात् ॥
सादृश्यात् समवायात् सा वैपरीत्यात् क्रियान्वयात्
सारोपाध्यवसानाख्ये गौणशुद्धे पृथक् पृथक् ॥
गौणं सारोपम् उद्दिष्टम् इन्दुर् मुखम् इतीदृशम्
गौणं साध्यवसानं स्याद् इन्दुर् एवेदम् ईदृशम् ॥
शुद्धं सारोपम् उद्दिष्टम् आयुर् घृतम् इतीदृशम्
शुद्धं साध्यवसानं स्याद् आयुर् एवेदम् ईदृशम् ॥
उपादानार्पणद्वारे द्वे चान्ये इति षड्विधा
कुन्ता विशन्ति गङ्गायां घोषो निवसतीति च ॥
लक्ष्यलक्षकवैशिष्ट्य वैशिष्ट्याद् द्विविधा पुनः
सरसं काव्यम् अमृतं विद्या स्थिरतरं धनम् ॥
तथा सहेतुर् अतथा -भेदभिन्ना च कुत्रचित्
सौन्दर्येणैष कन्दर्पः सा च मूर्तिमती रतिः ॥
शब्दे पदार्थे वाक्यार्थे संख्यायां कारके तथा
लिङ्गे चेयम् अलङ्कारा -ङ्कुरबीजतया स्थिता ॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति नवसंख्यः सुखयतु ॥
मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0