भाषा

ENहिગુ
ग्रंथ पाठ

चन्द्रालोक · अध्याय 10

10.1

धर्मं कंचित् पुरस्कृत्य प्रायः शब्दः प्रवर्तते
ययार्थं स्पष्टम् आचष्टे शब्दस् ताम् अभिधां विदुः ॥

10.2

जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया
निर्देशेन तथा प्राहुः षड्विधाम् अभिधां बुधाः ॥

10.3

गौर् नीलः पाचको दण्डी डित्थः कंस इति क्रमात्
कं संहिनस्ति कंसारिर् नरं च कं समाश्रितम् ॥

10.4

न योगादेर् आयतनं न सङ्केतनिकेतनम्
वृत्त्या निर्देशशब्दो ऽयं मुख्यया स्वाभिधेयया ॥

10.5

पीयूषवर्षप्रभवं चन्द्रालोकमनोहरम्
सुधानिधानम् आसाद्य श्रयध्वं विबुधा मुदम् ॥

10.6

जयन्ति याज्ञिकश्रीमन् महादेवाङ्गजन्मनः
सूक्तिपीयूषवर्षस्य जयदेवकवेर् गिरः ॥

10.7

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
मयूखस् तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसंख्यः सुखयतु ॥

मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc