चन्द्रालोक · अध्याय 8
यद् व्यज्यमानं मनसः स्तैमित्याय स नो ध्वनिः
अन्यथा तु गुणीभूत व्यङ्ग्यम् आपतितं त्रिधा ॥
व्यक्तिर् एव क्वचिद् व्यङ्ग्यः क्वचिद् अर्थस्वभावतः
क्वचिच् चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥
अगूढं कलयेद् अर्था -न्तरसंक्रमितादिकम्
विस्मृतः किम् अपांनाथ स त्वया कुम्भसंभवः ॥
अपरस्य रसादेश् चेद् अङ्गमन्यद् रसादिकम्
हा हा! मत्कुचकाश्मीर लिप्तं भिन्नम् उरः शरैः ॥
तथा वाच्यस्य सिद्ध्यङ्गं नौर् अर्थो वारिधेर् यथा
संश्रित्य तरणिं धीरास् तरन्ति व्याधिवारिधीन् ॥
अस्फुटं स्तनयोर् अत्र कोकसादृश्यवन् मतम्
कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥
संदिग्धं यदि संदेहो दैर्घ्याद्युत्पलयोरिव
संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् ॥
तुल्यप्राधान्यम् इन्दुत्वम् इव वाच्येन साम्यभृत्
कान्ते त्वदाननरुचा ग्लानिम् एति सरोरुहम् ॥
असुन्दरं यदि व्यङ्ग्यं स्याद् वाच्याद् अमनोहरम्
सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते ॥
काकुस्थं प्रणतो ऽम्भोधिर् अद्य माद्यतु रावणः
इत्य् अष्टधा गुणीभूत व्यङ्ग्यम् अङ्गीकृतं बुधैः ॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ॥
मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0