भाषा

ENहिગુ
ग्रंथ पाठ

चन्द्रालोक · अध्याय 7

7.1

वृत्तिभेदैस् त्रिभिर् युक्ता स्रोतोभिरिव जाह्नवी
भारती भाति गम्भीरा कुटिला सरला क्वचित् ॥

7.2

सांमुख्यं विदधानायाः स्फुटम् अर्थान्तरे गिरः
कटाक्ष इव लोलाक्ष्या व्यापारो व्यञ्जनात्मकः ॥

7.3

अविवक्षितवाच्यस्य द्वौ भेदौ वाच्यम् एव चेत्
अर्थान्तिरे संक्रमितम् अत्यन्तं वा तिरस्कृतम् ॥

7.4

द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ
चत्वारिंशद्युतैकेन भेदाः षट् चानयोः क्रमात् ॥

7.5

त्रिधा शब्दार्थतद्युग्म शक्तिजन्मा स्फुटक्रमात्
रसभावतदाभास प्रमुखस् त्व् अस्फुटक्रमात् ॥

7.6

वस्त्वलङ्कारयोर् व्यक्तेर् भेदौ द्वौ शब्दशक्तिजौ
अर्थशक्तिसमुत्थस्य भेदा द्वादश तद् यथा ॥

7.7

चत्वारो वस्त्व् अलंकारम् अलंकारस् तु वस्तु यत्
अलंकारम् अलंकारो वस्तु वस्तु व्यनक्ति तत् ॥

7.8

वक्तुः कविनिबद्धस्य कवेर् वा प्रौढिनिर्मितः
स्वसिद्धो वा व्यञ्जको ऽर्थश् चत्वारस् त्रिगुणास् ततः ॥

7.9

शब्दार्थोभयभूर् एकः स च वाक्यैकसंश्रयः
पदैकदेशे रचना वर्णवाक्यपदेष्व् अपि ॥

7.10

प्रबन्धे चेति षोढासौ रसाद्याख्यो ऽस्फुटक्रमः
एषु सप्तदशस्व् एकं परित्यज्यास्फुटक्रमम् ॥

7.11

ये षोडशाद्या द्विगुणास् ते स्युर् वाक्यपदाश्रयात्
प्रबन्धे ऽपि द्वादश स्युर् अर्थशक्तिभुवो भिदः ॥

7.12

द्वात्रिंशद् द्वादशैकः षट् सर्वसंकलितध्वनेः
भेदाः स्युर् एकपञ्चाशत् संभिन्नास् तु सहस्रशः ॥

7.13

वक्तृस्यूतं बोधयितुं व्यङ्ग्यं वक्तुर् अभीप्सितम्
स्वाङ्कुरितम् अतद्रूपं स्वयम् उल्लसितं गिरः ॥

7.14

कश्चित् साधारणः कश्चिद् आमन्त्र्य प्रतिबोधितः
कश्चित् तटस्थः कश्चिच् च बोधितप्रतिबोधितः ॥

7.15

इत्येवं बोद्धृवैचित्र्याद् वक्तृस्यूतं चतुर्विधम्
उपेक्षानिह्नवाभ्यां च द्विधा स्वाङ्कुरितं मतम् ॥

7.16

भूतादिकालभेदेन निह्नवः स्याद् अनेकधा
अनेनापि प्रभेदेन व्यक्तिवल्ली विजृम्भते ॥

7.17

नानाप्रभेदा नियता क्वचित् प्रकरणादिना
अर्थे ऽर्थम् अन्यं यं वक्ति तद् वाच्यव्यङ्ग्यम् इष्यते ॥

7.18

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति मुनिसंख्यः ॥

मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc