चन्द्रालोक · अध्याय 6
आलम्बनोद्दीपनात्मा विभावः कारणं द्विधा
कार्यो ऽनुभावो भावश् च सहायो व्यभिचार्य् अपि ॥
गलद्वेद्यान्तरोद्भेदो हृदयेष्व् अजडात्मनाम्
मिलन् मलयजालेप इवाह्लादं विकासयन् ॥
काव्ये नाट्ये च कार्ये च विभावाद्यैर् विभावितः
आस्वाद्यमानैकतनुः स्थायी भावो रसः स्मृतः ॥
रत्याख्यस्थायिभावात्मा वल्लभादिविभावितः
आलस्येर्ष्याजुगुप्साभ्यो विना संचारिभिर् युतः ॥
अनुभावैः कटाक्षाद्यैर् उन्मादाद्यैर् यथाक्रमम्
सम्भोगो विप्रलम्भश् च शृङ्गारो द्विविधो मतः ॥
हासस्थायी रसो हास्यो विभावद्यैर् यथाक्रमम्
वैरूप्यफुल्लगण्डत्वा -वहित्थाद्यैः समन्वितः ॥
अभीष्टविप्रयोगाश्रु पातग्लान्यादिभिः क्रमात्
विभावाद्यैर् युतः शोक स्थायी स्यात् करुणो रसः ॥
क्रोधस्थायी रसो रौद्रो विभावाद्यैः समन्वितः
मात्सर्यहस्तनिष्पेष संमोहाद्यैर् यथाक्रमम् ॥
उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः
वीरो ऽनुभावैः स्थैर्याद्यैर् भावैर् गर्वादिभिर्युतः ॥
व्याघ्रादिभिर् विभावैस् तु वेपिताद्यनुभावभृत्
भावैर् मोहादिभिर् युक्तो भयस्थायी भयानकः ॥
स्थायी जुगुप्सा बीभत्सो विभावाद्या यथाक्रमम्
अनिष्टेक्षणनिष्ठीव मोहाद्या यत्र संमताः ॥
अद्भुतो विस्मयस्थायी मायादिकविभावभूः
रोमाञ्चाद्यनुभावो ऽयं स्तम्भादिव्यभिचारिकः ॥
निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः
क्षमादिकानुभावो ऽयं स्तम्भादिव्यभिचारिकः ॥
रतिर् देवादिविषया सन्ति च व्यभिचारिणः
वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः ॥
निर्वेदग्लानिशङ्काख्यास् तथासूयामदश्रमाः
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर् धृतिः ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
सुप्तं प्रबोधो ऽमर्षश् चाप्य् अवहित्थम् अथोग्रता
मतिर् व्याधिस् तथोन्मादस् तथा मरणम् एव च ॥
त्रासश् चैव वितर्कश् च विज्ञेया व्यभिचारिणः
त्रयस्त्रिंशद् इमे भावाः समाख्यातास् तु नामतः ॥
सर्वसाधारणप्रेम प्रश्रयादिस्वरूपया
अनौचित्या रसाभासा भावाभासाश् च कीर्तिताः ॥
भावस्य शान्तिर् उदयः सन्धिः शबलता तथा
काव्यस्य काञ्चनस्येव कुङ्कुमं कान्तिसंपदे ॥
आतुर्यम् आसप्तमं च यथेष्टैर् अष्टमादिभिः
समासः स्यात् पदैर् न स्यात् समासः सर्वथापि च ॥
पाञ्चालिकी च लाटीया गौडीया च यथारसम्
वैदर्भी च यथासंख्यं चतस्रो रीतयः स्मृताः ॥
मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर् निजैः
लकारश् च लसंयुक्तो ह्रस्वव्यवहितौ रणौ ॥
रेफाक्रान्ता वर्ग्ययणाष् टवर्गात् पञ्चमाद् ऋते
कपाक्रान्तस् तवर्गः स्यात् प्रौढायां च कमूर्धता ॥
सर्वैर् ऊर्ध्वैः सकारस्य सर्वै रेफस्य सर्वथा
रहोर् द्वेधा तु संयोगः परुषायां शषौ स्वतः ॥
लकारो ऽन्यैर् असंयुक्तो लघवो घभधा रसौ
ललितायां तथा शेषा भद्रायाम् इति वृत्तयः ॥
अङ्गभङ्गोल्लसल्लीला तरुणी स्मरतोरणम्
तर्ककर्कशपूर्णोक्ति प्राप्तोत्कटधियां वृथा ॥
वीप्सोत्सर्पन्मुखाग्रार्द्रं बर्ही जह्रे कृशस् तृषम्
ललना रभसं धत्ते घनाटोपे महीयसि ॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति ऋतुसंख्यः ॥
मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0