चन्द्रालोक · अध्याय 5
शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा
हारादिवद् अलङ्कारः सन्निवेशो मनोहरः ॥
स्वरव्यञ्जनसंदोह व्यूहामन्दोहदोहदा
गौर् जगज्जाग्रदुत्सेका छेकानुप्रासभासुरा ॥
आवृत्तवर्णसम्पूर्णं वृत्त्यनुप्रासवद् वचः
अमन्दानन्दसन्दोह स्वच्छन्दास्पदमन्दिरम् ॥
लाटानुप्रासभूर् भिन्ना -भिप्राया पुनरुक्तता
यत्र स्यान् न पुनः शत्रोर् गर्जितं तज् जितं जितम् ॥
श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर् यदि ध्रुवा
तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥
उपमेयोपमानादाव् अर्थानुप्रास इष्यते
चन्दनं खलु गोविन्द चरणद्वन्द्ववन्दनम् ॥
पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम्
अंशुकान्तं शशी कुर्वन्न् अम्बरान्तम् उपैत्य् असौ ॥
आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः
यमकं प्रथमा धुर्य माधुर्यवचसो विदुः ॥
काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते
तेष्व् आद्यम् उच्यते श्लोक द्वयीसज्जनरञ्जिका ॥
कामिनीव भवेत् खड्ग लेखा चारुकरालिका
काश्मीरसेका रक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ॥
उपमा यत्र सादृश्य लक्ष्मीर् उल्लसति द्वयोः
हृदये खेलतोर् उच्चैस् तन्वङ्गीस्तनयोरिव ॥
उपमानोपमेयत्वे यत्रैकस्यैव जागृतः
इन्दुर् इन्दुरिवेत्यादौ भवेद् एवम् अनन्वयः ॥
पर्यायेण द्वयोस् तच् चेद् उपमेयोपमा मता
धर्मो ऽर्थ इव पूर्णश्रीर् अर्थो धर्म इव त्वयि ॥
विख्यातस्योपमानस्य यत्र स्याद् उपमेयता
इन्दुर् मुखम् इवेत्यादौ स्यात् प्रतीपोपमा तदा ॥
उपमाने तु लीलादि पदाढ्ये ललितोपमा
त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥
अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा
श्रितो ऽस्मि चरणौ विष्णोर् भृङ्गस् तामरसं यथा ॥
स्यात् संपूर्णोपमा यत्र द्वयोर् अपि विधेयता
पद्मानीव विनिद्राणि नेत्राण्य् आसन्न् अहर्मुखे ॥
यत्रोपमानचित्रेण सर्वथाप्य् उपरज्यते
उपमेयमयी भित्तिस् तत्र रूपकम् इष्यते ॥
समानधर्मयुक्साध्या रोपात् सोपाधिरूपकम्
उत्सिक्तक्षितिभृल्लक्ष्य पक्षच्छेदपुरन्दरः ॥
पृथक्कथितसादृश्यं दृश्यं सादृश्यरूपकम्
उल्लसत्पञ्चशाखस् ते राजते भुजभूरुहः ॥
स्याद् अङ्गयष्टिरित्येवं विधम् आभासरूपकम्
अङ्गयष्टिधनुर्वल्लीत्य् आदि रूपितरूपकम् ॥
परिणामो ऽनयोर् यस्मिन्न् अभेदः पर्यवस्यति
कान्तेन पृष्टा रहसि मौनम् एवोत्तरं ददौ ॥
बहुभिर्बहुधोल्लेखाद् एकस्योल्लेखिता मता
स्त्रीभिः कामः प्रियैश् चन्द्रः कालः शत्रुभिर् ऐक्षि सः ॥
अतथ्यम् आरोपयितुं तथ्यापास्तिर् अपह्नुतिः
नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥
पर्यस्तापह्नुतिर् यत्र धर्ममात्रं निषिध्यते
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥
भ्रान्तापह्नुतिर् अन्यस्य शङ्कया तथ्यनिर्णये
तापं तनोति सोत्कम्पं ज्वरः किं न सखि स्मरः ॥
छेकापह्नुतिर् अन्यस्य शङ्कया तथ्यनिह्नवे
प्रजल्पन् मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥
कैतवापह्नुतिर् व्यक्ते व्याजाद्यैर् निह्नवे पदैः
निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥
उत्प्रेक्षोन्नीयते यत्र हेत्वादिर् निह्नुतिं विना
त्वन्मुखश्रीकृते नूनं पद्मैर् वैरायते शशी ॥
इवादिकपदाभावे गूढोत्प्रेक्षां प्रचक्षते
यत्कीर्तिर् विभ्रमश्रान्ता विवेश स्वर्गनिम्नगाम् ॥
स्यात् स्मृतिभ्रान्तिसंदेहैस् तद् एवालंकृतित्रयम्
पङ्कजं पश्यतस् तस्या मुखं मे गाहते मनः ॥
अयं प्रमत्तमधुपस् त्वन्मुखं वेद पङ्कजम्
पङ्कजं वा सुधांशुर् वेत्य् अस्माकं तु न निर्णयः ॥
मीलितं बहुसादृश्याद् भेदवच् चेन् न लक्ष्यते
रसो नालक्षि लाक्षायाश् चरणे सहजारुणे ॥
सामान्यं यदि सादृश्याद् भेद एव न लक्ष्यते
पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥
हेतोः कुतो ऽपि वैशिष्ट्यात् स्फूर्तिर् उन्मीलितं मतम्
लक्षितान्य् उदिते चन्द्रे पद्मानि च मुखानि च ॥
अनुमानं च कार्यादेः कारणाद्यवधारणम्
अस्ति किञ्चिद् यदनया मां विलोक्य स्मितं मनाक् ॥
अर्थापत्तिः स्वयं सिध्येत् पदार्थान्तरवर्णनम्
स जितस् त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥
स्यात् काव्यलिङ्गं वागर्थो नूतनार्थसमर्थकः
जितो ऽसि मन्द कन्दर्प मच्चित्ते ऽस्ति त्रिलोचनः ॥
अलङ्कारः परिकरः साभिप्राये विशेषणे
सुधांशुकलितोत्तंसस् तापं हरतु वः शिवः ॥
साभिप्राये विशेष्ये तु भवेत् परिकराङ्कुरः
चतुर्णां पुरुषार्थानां दाता देवश् चतुर्भुजः ॥
अक्रमातिशयोक्तिश् चेद् युगपत् कार्यकारणे
आलिङ्गन्ति समं देव ज्यां शराश् च पराश् च ते ॥
अत्यन्तातिशयोक्तिस् तत् पौर्वापर्यव्यतिक्रमे
अग्रे मानो गतः पश्चाद् अनुनीता प्रियेण सा ॥
चपलातिशयोक्तिस् तु कार्ये हेतुप्रसक्तिजे
यामीति प्रियपृष्टाया वलयो ऽभवद् ऊर्मिका ॥
सम्बन्धातिशयोक्तिः स्यात् तदभावे ऽपि तद्वचः
पश्य सौधाग्रसंसक्तं विभाति विधुमण्डलम् ॥
भेदकातिशयोक्तिश् चेद् एकस्यैवान्यतोच्यते
अहो अन्यैव लावण्य लीला बालाकुचस्थले ॥
रूपकातिशयोक्तिश् चेद् रूप्यं रूपकमध्यगम्
पश्य नीलोत्पलद्वन्द्वान् निःसरन्ति शिताः शराः ॥
प्रौढोक्तिस् तदशक्तस्य तच्छक्तत्वावकल्पनम्
कलिन्दजातीररुहाः श्यामलाः सरलद्रुमाः ॥
सम्भावनं यदीत्थं स्याद् इत्य् ऊहोन्यप्रसिद्धये
सिक्तं स्फटिककुम्भान्तः स्थितिश्वेतीकृतैर् जलैः
मौक्तिकं चेल् लतां सूते तत्पुष्पैस् ते समं यशः ॥
वाञ्छिताद् अधिकप्राप्तिर् अयत्नेन प्रहर्षणम्
दीपम् उद्द्योतयेद् यावत् तावद् अभ्युदितो रविः ॥
इष्यमाणविरुद्धार्थ सम्प्राप्तिस् तु विषादनम्
दीपम् उद्द्योतयेद् यावत् तावन् निर्वाण एव सः ॥
क्रियादिभिर् अनेकस्य तुल्यता तुल्ययोगिता
सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च
प्राचीनाचलचूडाग्र चुम्बिबिम्बे सुधाकरे ॥
प्रस्तुताप्रस्तुतानां च तुल्यत्वे दीपकं मतम्
मेधां बुधः सुधाम् इन्दुर् बिभर्ति वसुधां भवान् ॥
आवृत्ते दीपकपदे भवेद् आवृत्तिदीपकम्
दीप्त्याग्निर् भाति भातीन्दुः कान्त्या भाति रविस् त्विषा ॥
वाक्ययोर् अर्थसामान्ये प्रतिवस्तूपमा मता
तापेन भ्राजते सूरः शूरश् चापेन राजते ॥
चेद् बिम्बप्रतिबिम्बत्वं दृष्टान्तस् तदलंकृतिः
स्यान् मल्लप्रतिमल्लत्वे सङ्ग्रामोद्धामहुंकृतिः ॥
दृष्टान्तश् चेद् भवन्मूर्तिस् तन् मृष्टा दैवदुर्लिपिः
जाता चेत् प्राक् प्रभा भानोस् तर्हि याता विभावरी ॥
वाक्यार्थयोः सदृशयोर् ऐक्यारोपो निदर्शना
या दातुः सौम्यता सेयं सुधांशोर् अकलङ्कता ॥
व्यतिरेको विशेषश् चेद् उपमानोपमेययोः
शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः ॥
सहोक्तिः सहभावश् चेद् भासते जनरञ्जनः
दिगन्तम् अगमद् यस्य कीर्तिः प्रत्यर्थिभिः सह ॥
विनोक्तिश् चेद् विना किंचित् प्रस्तुतं हीनम् उच्यते
विद्या हृद्यापि सावद्या बिना विनयसम्पदम् ॥
समासोक्तिः परिस्फूर्तिः प्रस्तुते ऽप्रस्तुतस्य चेत्
अयम् ऐन्द्रीमुखं पश्य रक्तश् चुम्बति चन्द्रमाः ॥
खण्डश्लेषः पदानां चेद् एकैकं पृथगर्थता
उच्छलद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥
भङ्गश्लेषः पदस्तोमस्य् -ऐव चेत् पृथगर्थता
अजरामरता कस्य नायोध्येव पुरी प्रिया ॥
अर्थश्लेषो ऽर्थमात्रस्य यद्य् अनेकार्थसंश्रयः
कुटिलाः श्यामला दीर्घा कटाक्षाः कुन्तलाश् च ते ॥
अप्रस्तुतप्रशंसा स्यात् सा यत्र प्रस्तुतानुगा
कार्यकारणसामान्य विशेषादेर् असौ मता ॥
कमलैः कमलावासैः किं किं नासादि सुन्दरम्
अप्य् अम्बुधेः परं पारं प्रयान्ति व्यवसायिनः ॥
भवेद् अर्थान्तरन्यसो ऽनुषक्तार्थान्तराभिधा
हनूमान् अब्धिम् अतरद् दुष्करं किं महात्मनाम् ॥
यस्मिन् विशेषसामान्य विशेषाः स विकस्वरः
स न जिग्ये महान्तो हि दुर्धर्षाः क्ष्माधरा इव ॥
कार्याद्यैः प्रस्तुतैर् उक्तैः पर्यायोक्तिं प्रचक्षते
तृणान्य् अङ्कुरयामास विपक्षनृपसद्मसु ॥
उक्तिर् व्याजस्तुतिर् निन्दा स्तुतिभ्यां स्तुतिनिन्दयोः
कस्ते विवेको नयसि स्वर्गं पातकिनो ऽपि यत् ॥
आक्षेपस् तु प्रयुक्तस्य प्रतिषेधो विचारणात्
चन्द्र संदर्शयात्मानम् अथवास्ति प्रियामुखम् ॥
गूढाक्षेपो विधौ व्यक्ते निषेधे चास्फुटे सति
हर सीतां सुखं, किं तु चिन्तयान्तकढौकनम् ॥
विरोधो ऽनुपपत्तिश् चेद् गुणद्रव्यक्रियादिषु
अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् ॥
श्लेषादिभूर् विरोधश् चेद् विरोधाभासता मता
अप्य् अन्धकारिणानेन जगद् एतत् प्रकाशते ॥
असंभवो ऽर्थनिष्पत्ताव् असंभाव्यत्ववर्णनम्
को वेद गोपशिशुकः शैलम् उत्पाटयिष्यति ॥
विभावना विनापि स्यात् कारणं कार्यजन्म चेत्
पश्य लाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ॥
विशेषोक्तिर् अनुत्पत्तिः कार्यस्य सति कारणे
नमन्तम् अपि धीमन्तं न लङ्घयति कश्चन ॥
आख्याते भिन्नदेशत्वे कार्यहेत्वोर् असंगतिः
त्वद्भक्तानां नमत्य् अङ्गं भङ्गम् एति भवक्लमः ॥
विषमं यद्य् अनौचित्याद् अनेकान्वयकल्पनम्
क्वातितीव्रविषाः सर्पाः क्वासौ चन्दनभूरुहः ॥
समम् औचित्यतो ऽनेक वस्तुसम्बन्धवर्णनम्
अनुरूपं कृतं सद्म हारेण कुचमण्डलम् ॥
विचित्रं चेत् प्रयत्नः स्याद् विपरीतफलप्रदः
नमन्ति सन्तस् त्रैलोक्याद् अपि लब्धुं समुन्नतिम् ॥
अधिकं बोध्यम् आधाराद् आधेयाधिकवर्णनम्
यया व्याप्तं जगत् तस्यां वाचि मान्ति न ते गुणाः ॥
अन्योन्यं नाम यत्र स्याद् उपकारः परस्परम्
त्रियामा शशिना भाति शशी भाति त्रियामया ॥
विशेषः ख्यातम् आधारं विनाप्य् आधेयवर्णनम्
गते ऽपि सूर्ये दीपस्थास् तमश् छिन्दन्ति तत्कराः ॥
स्याद् व्याघातो ऽन्यथाकारि वस्त्व् अन्यक्रियम् उच्यते
यैर् जगत् प्रीयते हन्ति तैर् एव कुसुमायुधः ॥
गुम्फः कारणमाला स्याद् यथाप्राक्प्रान्तकारणैः
नयेन श्रीः श्रिया त्यागस् त्यागेन विपुलं यशः ॥
गृहीतमुक्तरीत्यर्थ श्रेणिर् एकावली मता
नेत्रे कर्णान्तविश्रान्ते कर्णौ दोर्मूलदोलिनौ ॥
दीपकैकावलीयोगान् मालादीपकम् उच्यते
स्मरेण हृदये तस्यास् तेन त्वयि कृता स्थितिः ॥
सारो नाम पदोत्कर्षः सारताया यथोत्तरम्
सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः ॥
उदारसारश् चेद् भाति भिन्नो ऽभिन्नतया गुणः
मधुरं मधु पीयूषं तस्मात् तस्मात् कवेर् वचः ॥
यथासंख्यं द्विधार्थाश् चेत् क्रमादेकैकमन्विताः
शत्रुं मित्रं द्विषत्पक्षं जय रञ्जय भञ्जय ॥
पर्यायश् चेद् अनेकत्र स्याद् एकस्य समन्वयः
पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥
परिवृत्तिर् विनिमयो न्यूनाभ्यधिकयोर् मिथः
जग्राहैकं शरं मुक्त्वा कटाक्षान् शत्रुयोषिताम् ॥
परिसंख्या निषिध्यैकम् अन्यस्मिन् वस्तुयन्त्रणम्
स्नेहक्षयः प्रदीपेषु स्वान्तेषु न नतभ्रुवाम् ॥
विकल्पस् तुल्यबलयोर् विरोधश् चातुरीयुतः
कान्ताचित्ते ऽधरे वापि कुरु त्वं वीतरागताम् ॥
भूयसाम् एकसम्बन्ध भाजां गुम्फः समुच्चयः
नश्यन्ति पश्चात् पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥
समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः
उत्कण्ठितां च कलयन् जगामास्तं च भानुमान् ॥
प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः
जैत्रनेत्रानुगौ कर्णाव् उत्पलाभ्याम् अधःकृतौ ॥
प्रतीपम् उपमानस्य हीनत्वम् उपमेयतः
दृष्टं चेद् वदनं तस्याः किं पद्मेन किमिन्दुना ॥
उल्लासो ऽन्यमहिम्ना चेद् दोषो ह्य् अन्यत्र वर्ण्यते
तद् अभाग्यं धनस्यैव यन् नाश्रयति सज्जनम् ॥
तद्गुणः स्वगुणत्यागाद् अन्यतः स्वगुणोदयः
पद्मरागारुणं नासा मौक्तिकं ते ऽधरश्रितम् ॥
पुनः स्वगुणसम्प्राप्तिर् विज्ञेया पूर्वरूपता
हरकण्ठांशुलिप्तो ऽपि शेषस् त्वद्यशसा सितः ॥
यद्वस्तुनो ऽन्यथा रूपं तथा स्यात् पूर्वरूपता
दीपे निर्वापिते ह्य् आसीत् काञ्चीरत्नैर् अहर्महः ॥
सङ्गतान्यगुणानङ्गी कारम् आहुर् अतद्गुणम्
विशन्न् अपि रवेर् मध्यं शीत एव सदा शशी ॥
प्राक्सिद्धस्वगुणोत्कर्षो ऽनुगुणः परसन्निधेः
कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् ॥
अवज्ञा वर्ण्यते वस्तु गुणदोषाक्षमं यदि
म्लायन्ति यदि पद्मानि का हानिर् अमृतद्युतेः ॥
प्रश्नोत्तरं क्रमेणोक्तौ स्यूतम् उत्तरम् उत्तरम्
यत्रासौ वेतसी पान्थ तत्रासौ सुतरा सरित् ॥
पिहितं परवृत्तान्त ज्ञातुर् अन्यस्य चेष्टितम्
प्रिये गृहागते प्रातः कान्ता तल्पम् अकल्पयत् ॥
व्याजोक्तिः शङ्कमानस्य छद्मना वस्तुगोपनम्
सखि पश्य गृहाराम परागैर् अस्मि धूसरा ॥
वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम्
मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके ॥
स्वाभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम्
कुरङ्गैर् उत्तरङ्गाक्षि स्तब्धकर्णैर् उदीक्ष्यते ॥
भाविकं भूतभाव्यर्थ साक्षाद् दर्शनवर्णनम्
अलं विलोकयाद्यापि युद्ध्यन्ते ऽत्र सुरासुराः ॥
देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छविः
त्वं वसन् हृदये तस्याः साक्षात् पञ्चेषुर् ईक्ष्यसे ॥
उदात्तम् ऋद्धेश् चरितं श्लाघ्यं चान्योपलक्षणम्
सानौ यस्याभवद् युद्धं तद् धूर्जटिकिरीटिनोः ॥
अत्युक्तिर् अद्भुतातथ्य शौर्यौदार्यादिवर्णनम्
त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥
रसभावतदाभास भावशान्तिनिबन्धनाः
रसवत्प्रेयऊर्जस्वि समाहितमयाभिधाः ॥
भावानामुदयः सन्धिः शबलत्वम् इति त्रयः
अलङ्कारान् इमान् सप्त केचिद् आहुर् मनीषिणः ॥
शुद्धिर् एकप्रधानत्वं तथा संसृष्टिसंकरौ
एतेषाम् एव विन्यासान् नालङ्कारान्तराण्य् अमी ॥
सर्वेषां च प्रतिद्वन्द्व प्रतिच्छन्दभिदाभृताम्
उपाधिः क्वचिद् उद्भिन्नः स्याद् अन्यत्रापि संभवात् ॥
माला परंपरा चैषां भूयसाम् अनुकूलके
मनुष्ये भवतः क्वापि ह्य् अलङ्काराङ्गतां गते ॥
शब्दे पदार्थे वाक्यार्थे वाक्यार्थस्तबके तथा
एते भवन्ति विन्यासाः स्वभावातिशयात्मकाः ॥
कस्याप्य् अतिशयस्योक्तेर् इत्य् अन्वर्थविचारणात्
प्रायेणामी ह्य् अलंकारा भिन्ना नातिशयोक्तितः ॥
अलंकारप्रधानेषु दधानेष्व् अपि साम्यताम्
वैलक्षण्यं प्रतिव्यक्ति प्रतिभाति मुखेष्विव ॥
अलंकारेषु तथ्येषु यद्य् अनास्था मनीषिणाम्
तद् अर्वाचीनभेदेषु नाम्नां नाम्नाय इष्यताम् ॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
चतुर्थः सैकोयम् सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥
मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0