चन्द्रालोक · अध्याय 4
श्लेषो विघटमानार्थ घटमानत्ववर्णनम्
स तु शाब्दः सजातीयैः शब्दैर् बन्धः सुखावहः ॥
उल्लसत्तनुतां नीते ऽनन्ते पुलककण्टकैः
भीतया मानवत्यैव श्रियाश्लिष्टं हरिं स्तुमः ॥
यस्माद् अन्तःस्थितः सर्वः स्वयम् अर्थो ऽवभासते
सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥
समताल्पसमासत्वं वर्णाद्यैस् तुल्यताथ वा
श्यामला कोमला बाला रमणं शरणं गता ॥
समाधिर् अर्थमहिमा लसद्घनरसात्मना
स्याद् अन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥
माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम्
वयस्य पश्य पश्यास्याश् चञ्चलं लोचनाञ्चलम् ॥
ओजः स्यात् प्रौढिर् अर्थस्य संक्षेपो वातिभूयसः
रिपुं हत्वा यशः कृत्वा त्वदसिः कोशम् आविशत् ॥
सौकुमार्यम् अपारुष्यं पर्यायपरिवर्तनात्
स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ॥
उदारता तु वैदग्ध्यम् अग्राम्यत्वात् पृथङ्मता
मानं मुञ्च प्रिये किंचिल् लोचनान्तम् उदञ्चय ॥
शृङ्गारे च प्रसादे च कान्त्यर्थव्यक्तिसंग्रहः
अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥
तिलकाद्यम् इव स्त्रीणां विदग्धहृदयङ्गमम्
व्यतिरिक्तम् अलङ्कारं प्रकृतेर् भूषणं गिराम् ॥
विचित्रलक्षणो न्यासो निर्वाहः प्रौढिर् औचिती
शास्त्रान्तररहस्योक्तिः संग्रहो दिक् प्रदर्शिता ॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
चतुर्थस् तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥
मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0