चन्द्रालोक · अध्याय 2
स्याच् चेतो विशता येन सक्षता रमणीयता
शब्दे ऽर्थे च कृतोन्मेषं दोषम् उद्घोषयन्ति तम् ॥
भवेच् छ्रुतिकटुर् वर्णः श्रवणोद्वेजने पटुः
संविद्रते व्याकरण विरुद्धं च्युतसंस्कृति ॥
अप्रयुक्तं दैवतादि शब्दे पुंल्लिङ्गतादिकम्
असमर्थं तु हन्त्यादेः प्रयोगो गमनादिषु ॥
स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः
निहतार्थं लोहितादौ शोणितादिप्रयोगतः ॥
व्यनक्त्य् अनुचितार्थं यत् पदम् आहुस् तदेव तत्
इयम् अद्भुतशाख्यग्र केलिकौतुकवानरी ॥
निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम्
अर्थे विदधदित्यादौ दधदाद्यम् अवाचकम् ॥
धत्ते नभस्तलं भास्वान् अरुणं तरुणैः करैः
एकाक्षरं विना भूभ्रू क्ष्मादिकं खतलादिवत् ॥
अश्लीलं त्रिविधं व्रीडा जुगुप्सामङ्गलात्मना
आह्लादसाधनं वायुः कान्तानाशे भवेत् कथम् ॥
स्याद् द्व्यर्थम् इह सन्दिग्धं नद्यां यान्ति पतत्रिणः
स्याद् अप्रतीतं शास्त्रैक गम्यं वीतानुमादिवत् ॥
शिथिलं शयने लिल्ये मच्चितं ते शशिश्रियि
मस्तपिष्टकटीलोष्ट गल्लादि ग्राम्यम् उच्यते ॥
नेयार्थं लक्षणात्यन्त प्रसराद् अमनोहरम्
हिमांशोर् हारधिक्कार जागरे यामिकाः कराः ॥
क्लिष्टम् अर्थो यदीयो ऽर्थ श्रेणिनिःश्रेणिम् ऋच्छति
हरिप्रियापितृवधू प्रवाहप्रतिमं वचः ॥
अविमृष्टविधेयांशः समासपिहिते विधौ
विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥
अपराधीन इत्यादि विरुद्धमतिकृन् मतम्
अन्यसङ्गतम् उत्तुङ्ग हारशोभिपयोधरौ ॥
रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः
न माम् अङ्गद जानासि रावणं रणदारुणम् ॥
यस्मिन्न् उपहतो लुप्तो विसर्ग इह तत् तथा
कुसन्धिः पटव् आगच्छ विसन्धिर् नृपती इमौ ॥
हतवृत्तम् अनुक्तो ऽपि छन्दोदोषश् चकास्ति चेत्
विशाललोचने! पश्या -म्बरं तारातरङ्गितम् ॥
न्यूनं त्वत्खड्गसंभूत यशःपुष्पं नभस्तटम्
अधिकं भवतः शत्रून् दशत्य् असिलताफणी ॥
कथितं पुनरुक्ता वाक् श्यामाब्जश्यामलोचना
विकृतं दूरविवृतैर् ऐयरुः कुञ्जराः पुरम् ॥
पतत्प्रकर्षं हीनानु प्रासादित्वे यथोत्तरम्
गम्भीरारम्भदम्भोलि पाणिर् एषः समागतः ॥
समाप्तपुनरात्तं स्याद् एष पीयूषभाजनम्
नेत्रानन्दी तुषारांशुर् उदेत्य् अम्बुधिबान्धवः ॥
अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम्
मोघारम्भं स्तुमः शम्भुम् अर्धरम्भोरुविग्रहम् ॥
अभवन्मतयोगः स्यान् न चेद् अभिमतो ऽन्वयः
येन बद्धो ऽम्बुधिर् यस्य रामस्यानुचरा वयम् ॥
द्विषां सम्पदम् आच्छिद्य यः शत्रून् समपूरयत्
अस्थानस्थसमासं न विद्वज्जनमनोरमम् ॥
मिथः पृथग्वाक्यपदैः संकीर्णं यत् तद् एव तत्
वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ॥
ब्रह्माण्डं त्वद्यशःपूर गर्भितं भूमिभूषण
आकर्णय पयःपूर्ण सुवर्णकलशायते ॥
भग्नप्रक्रमम् आरब्ध शब्दनिर्वाहहीनता
अक्रमः कृष्ण पूज्यन्ते त्वाम् अनभ्यर्च्य देवताः ॥
अमतार्थान्तरं मुख्ये ऽमुख्येनार्थे विरोधकृत्
त्यक्तहारम् उरःकृत्वा शोकेनालिङ्गिताङ्गना ॥
अपुष्टार्थो विशेष्ये चेन् न विशेषो विशेषणात्
विशन्ति हृदयं कान्ता कटाक्षाः खञ्जनत्विषः ॥
कष्टः स्पष्टावबोधार्थम् अक्षमो वाच्यसन्निभः
व्याहतश् चेद्विरोधः स्यान् मिथः पूर्वापरार्थयोः ॥
सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते
कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः ॥
दुष्क्रमग्राम्यसन्दिग्धास् त्रयो दोषाः क्रमाद् अमी
त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गम् एव वा ॥
एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम्
ब्रूत किं सेव्यतां चन्द्र मुखीचन्द्रकिरीटयोः ॥
अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा
प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् ॥
न्यस्तेयं पश्य कन्दर्प प्रतापधवलद्युतिः
केतकी शेखरे शम्भोर् धत्ते चन्द्रकलातुलाम् ॥
सामान्यपरिवृत्तिः स्यात् कुण्डलच्छविविग्रहा
विशेषपरिवृत्तिः स्याद् वनिता मम चेतसि ॥
तथा सहचराचारु विरुद्धान्योन्यसंगती
ध्वाङ्क्षाः सन्तश् च तनयं स्वं परं च न जानते ॥
सरोजनेत्र पुत्रस्य मुखेन्दुम् अवलोकय
पालयिष्यति ते गोत्रम् असौ नरपुरन्दरः ॥
पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके
यथानुसारम् अभ्यूहेद् दोषान् शब्दार्थसंभवान् ॥
दोषम् आपतितं स्वान्ते प्रसरन्तं विशृङ्खलम्
निवारयति यस् त्रेधा दोषाङ्कुशम् उशन्ति तम् ॥
दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति
भवन्तम् अथवा दोषं नयत्य् अत्याज्यतामसौ ॥
मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः
अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ॥
तव दुग्धाब्धिसंभूतेः कथं जाता कलाङ्किता
कवीनां समयाद् विद्या विरुद्धो ऽदोषतां गतः ॥
दधार गौरी हृदये देवं हिमकराङ्कितम्
अत्र श्लेषोदयान् नैव त्याज्यं हीति निरर्थकम् ॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
द्वितीयस् तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥
मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0