चन्द्रालोक · अध्याय 3
अल्पाक्षरा विचित्रार्थ ख्यातिर् अक्षरसंहतिः
उषाकान्तेनानुगतः शूरः शौरिर् अयं पुनः ॥
शोभा ख्यातापि यद्दोषो गुणकीर्त्या निषिध्यते
मुधा निन्दन्ति संसारं कंसारिर् यत्र पूज्यते ॥
अभिमानो विचारश् चेद् ऊहितार्थनिषेधकृत्
इन्दुर् यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥
हेतुस् त्यक्त्वा बहून् पक्षान् युक्त्यैकस्यावधारणम्
नेन्दुर् नार्को ऽयम् और्वाग्निः सागराद् उत्थितो दहन् ॥
प्रतिषेधः प्रसिद्धानां कारणानाम् अनादरः
न युद्धेन भ्रुवोः स्पन्दे -नैव वीरा निपातिताः ॥
निरुक्तं स्यान् निर्वचनं नाम्नः सत्यं तथानृतम्
ईदृशैश् चरितै राजन् सत्यं दोषाकरो भवान् ॥
स्यान् मिथ्याध्यवसायश् चेद् असती साध्यसाधने
चन्द्रांशुसूत्रग्रथितां नभःपुष्पस्रजं वह ॥
सिद्धिः ख्यातेषु चेन् नाम कीर्त्यते तुल्यतोक्तये
युवाम् एवेह विख्यातौ त्वं बलैर् जलधिर् जलैः ॥
युक्तिर् विशेषसिद्धिश् चेद् विचित्रार्थान्तरान्वयात्
नवस् त्वं नीरदः को ऽपि स्वर्णैर् वर्षसि यन् मुहुः ॥
कार्यं फलोपलम्भश् चेद् व्यापाराद् वस्तुतो ऽथ वा
असाव् उदेति शीतांशुर् मानच्छेदाय सुभ्रुवाम् ॥
इत्यादि लक्षणं भूरि काव्यस्याहुर् महर्षयः
स्वर्णभ्राजिष्णुभालत्व प्रभृतीव महीभुजः ॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
तृतीयस् तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥
मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0