भाषा

ENहिગુ
ग्रंथ पाठ

चन्द्रालोक · अध्याय 1

1.1

उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्कैरव ध्वंसं हस्तयते च या सुमनसाम् उल्लासिनी मानसे
धृष्टोद्यन्मदनाशनार्चिर् अमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर् वाग्देवता दीव्यतु ॥

1.2

हं हो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान् रे रे स्वैरिणि निर्विचारकविते मास्मत् प्रकाशीभव
उल्लासाय विचारवीचिनिचयालङ्कारवाराम् निधेश् चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ॥

1.3

युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत क्षीराम्भोधिर् अगाधताम् उपदधत् सेव्यः समाश्रीयताम्
श्रीर् अस्माद् उपदेशकौशलमयं पीयूषम् अस्माज्जगज् जाग्रद्भासुरपद्मकेशरयशःशीतांशुर् अस्माद् बुधाः ॥

1.4

तं पूर्वाचार्यसूर्योक्ति ज्योतिः स्तोमोद्गमं स्तुमः
यं प्रस्तूय प्रकाशन्ते मद्गुणास् त्रसरेणवः ॥

1.5

नाशङ्कनीयम् एतेषां मतम् एतेन दूष्यते
किं तु चक्षुर् मृगाक्षीणां कज्जलेनेव भूष्यते ॥

1.6

प्रतिभैव श्रुताभ्यास सहिता कवितां प्रति
हेतुर् मृदम्बुसम्बद्धा बीजमाला लतामिव ॥

1.7

निर्दोषा लक्षणवती सरीतिर् गुणभूषणा
सालंकाररसानेक वृत्तिर् वाक् काव्यनामभाक् ॥

1.8

अङ्गीकरोति यः काव्यं शब्दार्थाव् अनलंकृती
असौ न मन्यते कस्माद् अनुष्णम् अनलं कृती ॥

1.9

विभक्त्युत्पत्तये योग्यः शास्त्रीयः शब्द इष्यते
रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस् त्रिधा ॥

1.10

अव्यक्तयोगनिर्योग योगाभासैस् त्रिधादिमः
ते च वृक्षादिभूवादि मण्डपाद्या यथाक्रमम् ॥

1.11

शुद्धतन्मूलसंभिन्न प्रभेदैर् यौगिकस् त्रिधा
ते च भ्रान्तिस्फुरत्कान्ति कौन्तेयादिस्वरूपिणः ॥

1.12

तन्मिश्रो ऽन्योन्यसामान्य विशेषपरिवर्तनात्
नीरधिः पङ्कजं सौधः सागरो भूरुहः शशी ॥

1.13

क्षीरनीरधिर् आकाश पङ्कजं तेन सिद्धयति
विभक्त्यन्तं पदं वाक्यं तद्व्यूहो ऽर्थसमाप्तितः ॥

1.14

युक्तार्थतां तां च विना खण्डवाक्यं स इष्यते
वाक्यं च खण्डवाक्यं च पदम् एकम् अपि क्वचित् ॥

1.15

धूमवत्त्वाद् इति यथा देवेत्य् आमन्त्रणं यथा
वाक्यान्य् एकार्थविश्रान्तान्य् आहुर् वाक्यकदम्बकम् ॥

1.16

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर् यस्य पितरौ
अनेनासाव् आद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥

मूल पाठ: Candrāloka · Edition: the thesis by Réginald Beyaert (forthcoming) · Data entry Réginald Beyaert · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc