Buddhacarita · अध्याय 8
ततस् तुरंगावचरः स दुर्मनास् तथा वनं भर्तरि निर्ममे गते
चकार यत्नं पथि शोक(निग्रहे च्विग्रहे तथापि चैवाश्रु न तस्य (चिक्षिये च्चिक्षिपे ) ॥
यम् एकरात्रेण तु भर्तुर् आज्ञया जगाम मार्गं सह तेन वाजिना
इयाय भर्तुर् विरहं विचिन्तयंस् तम् एव पन्थानम् अहोभिर् अष्टभिः ॥
हयश् च (सौजा विचचार च्सौजस्वि चचार )कन्थकस् तताम भावेन बभूव निर्मदः
अलंकृतश् चापि तथैव भूषणैर् अभूद् गतश्रीर् इव तेन वर्जितः ॥
निवृत्य चैवाभिमुखस् तपोवनं भृशं जिहेषे करुणं मुहुर् मुहुः
क्षुधान्वितो ऽप्य् अध्वनि शष्पम् अम्बु वा यथा पुरा नाभिननन्द नाददे ॥
ततो विहीनं कपिलाह्वयं पुरं महात्मना तेन जगद्धितात्मना
क्रमेण तौ शून्यम् इवोपजग्मतुर् दिवाकरेणेव विनाकृतं नभः ॥
सपुण्डरीकैर् अपि शोभितं जलैर् अलंकृतं पुष्पधरैर् नगैर् अपि
तद् एव तस्योपवनं वनोपमं गतप्रहर्षैर् न रराज नागरैः ॥
ततो भ्रमद्भिर् दिशि दीनमानसैर् अनुज्ज्वलैर् (बाष्पच्वाष्प)हतेक्षणैर् नरैः
निवार्यमाणाव् इव ताव् उभौ पुरं (शनैर् अपस्नातम् च्शनै रजःस्नातम् )इवाभिजग्मतुः ॥
(निशाम्य च्निशम्य )च स्रस्तशरीरगामिनौ विनागतौ शाक्यकुलर्1षभेण तौ
मुमोच (बाष्पं च्वाष्पं )पथि नागरो जनः पुरा रथे दाशरथेर् इवागते ॥
अथ ब्रुवन्तः समुपेतमन्यवो जनाः पथि च्छन्दकम् आगताश्रवः
क्व राजपुत्रः (पुरच्कुल)राष्ट्र(नन्दनो च्वर्धनो ) हृतस् त्वयासाव् इति पृष्ठतो ऽन्वयुः ॥
ततः स तान् भक्तिमतो ऽब्रवीज् जनान् नरेन्द्रपुत्रं न परित्यजाम्य् अहम्
रुदन्न् अहं तेन तु निर्जने वने गृहस्थवेशश् च विसर्जिताव् इति ॥
इदं वचस् तस्य निशम्य ते जनाः सुदुष्करं खल्व् इति निश्चयं ययुः
पतद् (धि जह्रुः च्विजह्रुः )सलिलं न नेत्रजं मनो निनिन्दुश् च (फलोत्थम् च्फलार्थम् )आत्मनः ॥
अथोचुर् अद्यैव विशाम तद् वनं गतः स यत्र द्विपराजविक्रमः
जिजीविषा नास्ति हि तेन नो विना यथेन्द्रियाणां विगमे शरीरिणाम् ॥
इदं पुरं तेन विवर्जितं वनं वनं च तत् तेन समन्वितं पुरम्
न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् ॥
पुनः कुमारो विनिवृत्त इत्य् अथो गवाक्षमालाः प्रतिपेदिरे ऽङ्गनाः
विविक्तपृष्ठं च (निशाम्य च्निशम्य )वाजिनं पुनर् गवाक्षाणि पिधाय चुक्रुशुः ॥
प्रविष्टदीक्षस् तु सुतोपलब्धये व्रतेन शोकेन च खिन्नमानसः
जजाप देवायतने नराधिपश् चकार तास् ताश् च (यथाशयाः च्यथाश्रयाः )क्रियाः ॥
ततः स (बाष्पच्वाष्प)प्रतिपूर्णलोचनस् तुरंगम् आदाय तुरं(गमानुगः च्गमानसः )
विवेश शोकाभिहतो नृ(पक्षयं च्पालयं (युधापिनीते च्क्षयं विनीते )रिपुणेव भर्तरि ॥
विगाहमानश् च नरेन्द्रमन्दिरं विलोकयन्न् अश्रुवहेन चक्षुषा
स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्न् इव ॥
ततः खगाश् च क्षयमध्यगोचराः समीपबद्धास् तुरगाश् च सत्कृताः
हयस्य तस्य प्रतिसस्वनुः स्वनं नरेन्द्रसूनोर् उपयान(शङ्किनः च्शङ्किताः ) ॥
जनाश् च हर्षातिशयेन वञ्चिता जनाधिपान्तःपुरसंनिकर्षगाः
यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशतीति मेनिरे ॥
अतिप्रहर्षाद् अथ शोकमूर्छिताः कुमारसंदर्शनलोललोचनाः
गृहाद् विनिश्चक्रमुर् आशया स्त्रियः शरत्पयोदाद् इव विद्युतश् चलाः ॥
विलम्ब(केश्यो च्वेश्यो )मलिनांशुकाम्बरा निरञ्जनैर् (बाष्पच्वाष्प)हतेक्षणैर् मुखैः
(स्त्रियो न रेजुर् मृजया च्कृष्णा विवर्णाअञ्जनया )विनाकृता दिवीव तारा रजनीक्षयारुणाः ॥
अरक्तताम्रैश् चरणैर् अनूपुरैर् अकुण्डलैर् आर्जव(कन्धरैर् च्कर्णिकैर् )मुखैः
स्वभावपीनैर् जघनैर् अमेखलैर् अहारयोक्त्रैर् मुषितैर् इव स्तनैः ॥
(निरीक्ष्य ता बाष्पच्निरीक्षिता वाष्प)परीत(लोचना च्लोचनं निराश्रयं छन्दकम् अश्वम् एव च
(विषण्णच्विवर्ण)वक्त्रा रुरुदुर् वराङ्गना वनान्तरे गाव इवर्7षभोज्झिताः ॥
ततः स(बाष्पा च्वाष्पा )महिषी महीपतेः प्रनष्टवत्सा महिषीव वत्सला
प्रगृह्य बाहू निपपात गौतमी विलोलपर्णा कदलीव काञ्चनी ॥
हतत्विषो ऽन्या (शिथिलांसच्शिथिलात्म)बाहवः स्त्रियो विषादेन विचेतना इव
न चुक्रुशुर् नाश्रु जहुर् न शश्वसुर् न (चेलुर् आसुर् लिखिता च्चेतना उल्लिखिता )इव स्थिताः ॥
अधीरम् अन्याः पतिशोकमूर्छिता विलोचनप्रस्रवणैर् मुखैः स्त्रियः
सिषिञ्चिरे प्रोषितचन्दनान् स्तनान् धराधरः प्रस्रवणैर् इवोपलान् ॥
मुखैश् च तासां नयनाम्बु(ताडितै च्ताडितैः रराज तद् राजनिवेशनं तदा
नवाम्बुकाले ऽम्बुदवृष्टिताडितैः स्रवज्जलैस् तामरसैर् यथा सरः ॥
सुवृत्तपीनाङ्गुलिभिर् निरन्तरैर् अभूषणैर् गूढसिरैर् वराङ्गनाः
उरांसि जघ्नुः कमलोपमैः करैः स्वपल्लवैर् वातचला लता इव ॥
करप्रहारप्रचलैश् च ता (बभुस् च्बभुर् (तथापि च्यथापि )नार्यः सहितोन्नतैः स्तनैः
वनानिलाघूर्णितपद्मकम्पितै रथाङ्गनाम्नां मिथुनैर् इवापगाः ॥
यथा च वक्षांसि करैर् अपीडयंस् तथैव वक्षोभिर् अपीडयन् करान्
अकारयंस् तत्र परस्परं व्यथाः कराग्रवक्षांस्य् अबला दयालसाः ॥
ततस् तु रोषप्रविरक्तलोचना विषाद(संबन्धिच्संबन्ध)कषायगद्गदम्
उवाच (निश्वासच्निःश्वास)चलत्पयोधरा विगाढशोकाश्रुधरा यशोधरा ॥
निशि प्रसुप्ताम् अवशां विहाय मां गतः क्व स च्छन्दक मन्मनोरथः
उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः ॥
अनार्यम् अस्निद्घम् अमित्रकर्म मे नृशंस कृत्वा किम् इहाद्य रोदिषि
नियच्छ (बाष्पं च्वाष्पं )भव तुष्टमानसो न संवदत्य् अश्रु च तच् च कर्म ते ॥
प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथार्थकारिणा
गतो ऽर्यपुत्रो ह्य् अपुनर्निवृत्तये रमस्व दिष्ट्या सफलः श्रमस् तव ॥
वरं मनुष्यस्य विचक्षणो रिपुर् न मित्रम् अप्राज्ञम् अयोगपेशलम्
सुहृद्ब्रुवेण ह्य् अविपश्चिता त्वया कृतः कुलस्यास्य महान् उपप्लवः ॥
इमा हि शोच्या व्यवमुक्तभूषणाः प्रसक्त(बाष्पाविलच्वाष्पाविल)रक्तलोचनाः
स्थिते ऽपि पत्यौ हिमवन्महीसमे प्रनष्टशोभा विधवा इव स्त्रियः ॥
इमाश् च विक्षिप्तविटङ्कबाहवः प्रसक्तपारावतदीर्घनिस्वनाः
विनाकृतास् तेन (सहावरोधनैर् च्सहैव रोधनैर् भृशं रुदन्तीव विमानपङ्क्तयः ॥
अनर्थकामो ऽस्य जनस्य सर्वथा तुरंगमो ऽपि ध्रुवम् एष कन्थकः
जहार सर्वस्वम् इतस् तथा हि मे जने प्रसुप्ते निशि रत्नचौरवत् ॥
यदा समर्थः खलु सोढुम् आगतान् इषुप्रहारान् अपि किं पुनः कशाः
गतः कशापातभयात् कथं (न्व् च्त्व् )अयं श्रियं गृहीत्वा हृदयं च मे समम् ॥
अनार्यकर्मा भृशम् अद्य हेषते नरेन्द्रधिष्ण्यं प्रतिपूरयन्न् इव
यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस् तुरगाधमो ऽभवत् ॥
यदि ह्य् अहेषिष्यत (बोधयन् च्बोधयञ् )जनं खुरैः क्षितौ वाप्य् अकरिष्यत ध्वनिम्
हनुस्वनं वाजनिष्यद् उत्तमं न चाभविष्यन् मम दुःखम् ईदृशम् ॥
इतीह देव्याः परिदेविताश्रयं निशम्य (बाष्पच्वाष्प)ग्रथिताक्षरं वचः
अधोमुखः साश्रुकलः कृताञ्जलिः शनैर् इदं छन्दक उत्तरं जगौ ॥
विगर्हितुं नार्हसि देवि कन्थकं न चापि रोषं मयि कर्तुम् अर्हसि
अनागसौ स्वः समवेहि सर्वशो गतो नृदेवः स हि देवि देववत् ॥
अहं हि जानन्न् अपि राजशासनं बलात् कृतः कैर् अपि दैवतैर् इव
उपानयं तूर्णम् इमं तुरंगमं तथान्वगच्छं विगतश्रमो ऽध्वनि ॥
व्रजन्न् अयं वाजिवरो ऽपि नास्पृशन् महीं खुराग्रैर् विधृतैर् इवान्तरा
तथैव दैवाद् इव संयताननो हनुस्वनं नाकृत नाप्य् अहेषत ॥
(यतो बहिर् च्यदा वहिर् )गच्छति पार्थिवात्म(जे च्जस् तदाभवद् द्वारम् अपावृतं स्वयम्
तमश् च नैशं रविणेव पाटितं ततो ऽपि दैवो विधिर् एष गृह्यताम् ॥
(यद् अच्यदा)प्रमत्तो ऽपि नरेन्द्रशासनाद् गृहे पुरे चैव सहस्रशो जनः
तदा स नाबुध्यत निद्रया हृतस् ततो ऽपि दैवो विधिर् एष गृह्यताम् ॥
यतश् च वासो वनवाससंमतं (निसृष्टम् च्विसृष्टम् )अस्मै समये दिवौकसा
दिवि प्रविद्धं मुकुटं च तद् धृतं ततो ऽपि दैवो विधिर् एष गृह्यताम् ॥
तद् एवम् आवां नरदेवि दोषतो न तत् प्रयातं (प्रति गन्तुम् च्प्रतिगन्तुम् )अर्हसि
न कामकारो मम नास्य वाजिनः कृतानुयात्रः स हि दैवतैर् गतः ॥
इति प्रयाणं (बहुदेवम् च्बहुधैवम् )अद्भुतं निशम्य तास् तस्य महात्मनः स्त्रियः
प्रनष्टशोका इव विस्मयं ययुर् मनोज्वरं प्रव्रजनात् तु लेभिरे ॥
विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता
विहाय धैर्यं विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च ॥
महोर्मिमन्तो मृदवो ऽसिताः शुभाः पृथक्(पृथङ्च्पृथग्)मूलरुहाः समुद्गताः
(प्रवेरितास् च्प्रचेरितास् )ते भुवि तस्य मूर्धजा नरेन्द्रमौलीपरिवेष्टनक्षमाः ॥
प्रलम्बबाहुर् मृगराजविक्रमो महर्2षभाक्षः कनकोज्ज्वलद्युतिः
विशालवक्षा घनदुन्दुभिस्वनस् तथाविधो ऽप्य् आश्रमवासम् अर्हति ॥
अभागिनी नूनम् इयं वसुंधरा तम् आर्यकर्माणम् अनुत्तमं (पतिम् च्प्रति )
गतस् ततो ऽसौ गुणवान् हि तादृशो नृपः प्रजाभाग्यगुणैः प्रसूयते ॥
सुजातजालावतताङ्गुली मृदू निगूढगुल्फौ (बिसच्विष)पुष्पकोमलौ
वनान्तभूमिं कठिनां कथं नु तौ सचक्रमध्यौ चरणौ गमिष्यतः ॥
विमानपृष्ठे शयनासनोचितं महार्हवस्त्रागुरुचन्दनार्चितम्
कथं नु शीतोष्णजलागमेषु तच् छरीरम् ओजस्वि वने भविष्यति ॥
कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः
प्रदातुम् (एवाभ्युचितो चेवाभ्युदितो )न याचितुं कथं स भिक्षां परतश् चरिष्यति ॥
शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्यनिस्वनैः
कथं (बत च्वत )स्वप्स्यति सो ऽद्य मे व्रती पटैकदेशान्तरिते महीतले ॥
इमं (प्रलापं च्विलापं )करुणं निशम्य ता भुजैः परिष्वज्य परस्परं स्त्रियः
विलोचनेभ्यः सलिलानि तत्यजुर् मधूनि पुष्पेभ्य इवेरिता लताः ॥
ततो धरायाम् अपतद् यशोधरा विचक्रवाकेव रथाङ्गसाह्वया
शनैश् च तत् तद् विललाप विक्लवा मुहुर् मुहुर् गद्गदरुद्धया गिरा ॥
स माम् अनाथां सहधर्मचारिणीम् अपास्य धर्मं यदि कर्तुम् इच्छति
कुतो ऽस्य धर्मः सहधर्मचारिणीं विना तपो यः परिभोक्तुम् इच्छति ॥
शृणोति नूनं स न पूर्वपार्थिवान् महासुदर्शप्रभृतीन् पितामहान्
वनानि पत्नीसहितान् उपेयुषस् तथा (हि च्स )धर्मं मदृते चिकीर्षति ॥
मखेषु वा वेदविधानसत्कृतौ न दंपती पश्यति दीक्षिताव् उभौ
समं बुभुक्षू परतो ऽपि तत्फलं ततो ऽस्य जातो मयि धर्ममत्सरः ॥
ध्रुवं स जानन् मम धर्मवल्लभो मनः (प्रियेर्ष्याकलहं च्प्रिये ऽप्य् आकलहं )मुहुर् मिथः
सुखं विभीर् माम् अपहाय रोसणां महेन्द्रलोके ऽप्सरसो जिघृक्षति ॥
इयं तु चिन्ता मम कीदृशं नु ता वपुर्गुणं बिभ्रति तत्र योषितः
वने यदर्थं स तपांसि तप्यते श्रियं च हित्वा मम भक्तिम् एव च ॥
न खल्व् इयं स्वर्गसुखाय मे स्पृहा न तज् जनस्यात्मवतो ऽपि दुर्लभम्
स तु प्रियो माम् इह वा परत्र वा कथं न जह्याद् इति मे मनोरथः ॥
अभागिनी यद्य् अहम् आयतेक्षणं शुचिस्मितं भर्तुर् उदीक्षितुं मुखम्
न मन्दभाग्यो ऽर्हति राहुलो ऽप्य् अयं कदाचिद् अङ्के परिवर्तितुं पितुः ॥
अहो नृशंसं सुकुमारवर्चसः सुदारुणं तस्य मनस्विनो मनः
कलप्रलापं द्विषतो ऽपि हर्षणं शिशुं सुतं यस् त्यजतीदृशं (बत च्स्वतः ) ॥
ममापि कामं हृदयं सुदारुणं शिलामयं वाप्य् (अयसो ऽपि चयसापि )वा कृतम्
अनाथवच् छ्रीरहिते सुखोचिते वनं गते भर्तरि यन् न दीर्यते ॥
इतीह देवी पतिशोकमूर्छिता रुरोद दध्यौ विललाप चासकृत्
स्वभावधीरापि हि सा सती शुचा धृतिं न सस्मार चकार नो ह्रियम् ॥
ततस् तथा शोकविलापविक्लवां यशोधरां प्रेक्ष्य वसुंधरागताम्
महारविन्दैर् इव वृष्टिताडितैर् मुखैः स(बाष्पैर् च्वाष्पैर् )वनिता विचुक्रुशुः ॥
समाप्तजाप्यः कृतहोममङ्गलो नृपस् तु देवायतनाद् विनिर्ययौ
जनस्य तेनार्तरवेण चाहतश् चचाल वज्रध्वनिनेव वारणः ॥
निशाम्य च च्छन्दककन्थकाव् उभौ सुतस्य संश्रुत्य च निश्चयं स्थिरम्
पपात शोकाभिहतो महीपतिः शचीपतेर् वृत्त इवोत्सवे ध्वजः ॥
ततो मुहूर्तं सुतशोकमोहितो जनेन तुल्याभिजनेन धारितः
निरीक्ष्य दृष्ट्या जलपूर्णया हयं महीतलस्थो विललाप पार्थिवः ॥
बहूनि कृत्वा समरे प्रियाणि मे महत् त्वया कन्थक विप्रियं कृतम्
गुणप्रियो येन वने स मे प्रियः प्रियो ऽपि सन्न् अप्रियवत् (प्रवेरितः च्प्रचेरितः ) ॥
तद् अद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनर् एनम् आनय
ऋते हि तस्मान् मम नास्ति जीवितं विगाढरोगस्य सदौषधाद् इव ॥
सुवर्णनिष्ठीविनि मृत्युना हृते सुदुष्करं यन् न ममार (संजयः च्सृञ्जयः )
अहं पुनर् धर्मरतौ सुते गते (मुमुक्षुर् चमुमुक्षुर् )आत्मानम् अनात्मवान् इव ॥
विभोर् दशक्षत्रकृतः प्रजापतेः परापरज्ञस्य विवस्वदात्मनः
प्रियेण पुत्रेण सता विनाकृतं कथं न मुह्येद् धि मनो मनोर् अपि ॥
अजस्य राज्ञस् तनयाय धीमते नराधिपायेन्द्रसखाय मे स्पृहा
गते वनं यस् तनये दिवं गतो न मोघ(बाष्पः च्वाष्पः )कृपणं जिजीव ह ॥
प्रचक्ष्व मे भद्र तदाश्रमाजिरं हृतस् त्वया यत्र स मे जलाञ्जलिः
इमे परीप्सन्ति हि (तं च्ते )पिपासवो ममासवः प्रेतगतिं यियासवः ॥
इति तनयवियोगजात(दुःखः च्दुःखं क्षितिसदृशं सहजं विहाय धैर्यम्
दशरथ इव रामशोकवश्यो बहु विललाप नृपो विसंज्ञकल्पः ॥
श्रुतविनयगुणान्वितस् ततस् तं मतिसचिवः प्रवयाः पुरोहितश् च
(समधृतम् चवधृतम् )इदम् ऊचतुर् यथावन् न च परितप्तमुखौ न चाप्य् अशोकौ ॥
त्यज नरवर शोकम् एहि धैर्यं कुधृतिर् इवार्हसि धीर नाश्रु मोक्तुम्
स्रजम् इव मृदिताम् अपास्य लक्ष्मीं भुवि बहवो (छिच्) नृपा वनान्य् अतीयुः ॥
अपि च नियत एष तस्य भावः स्मर वचनं तद् ऋषेः पुरासितस्य
न हि स दिवि न चक्रवर्तिराज्ये क्षणम् अपि वासयितुं सुखेन शक्यः ॥
यदि तु नृवर कार्य एव यत्नस् त्वरितम् उदाहर यावद् अत्र यावः
बहुविधम् इह युद्धम् अस्तु तावत् तव तनयस्य विधेश् च तस्य तस्य ॥
नरपतिर् अथ तौ शशास तस्माद् द्रुतम् इत एव युवाम् अभिप्रयातम्
न हि मम हृदयं प्रयाति शान्तिं वनशकुनेर् इव पुत्रलालसस्य ॥
परमम् इति नरेन्द्रशासनात् तौ ययतुर् अमात्यपुरोहितौ वनं तत्
कृतम् इति सवधूजनः सदारो नृपतिर् अपि प्रचकार शेषकार्यम् ॥
मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0