Buddhacarita · अध्याय 7
ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः
सर्वार्थसिद्धो वपुषाभिभूय तम् आश्रमं (सिद्ध च्सिद्धम् )इव प्रपेदे ॥
स राजसूनुर् मृगराजगामी मृगाजिरं तन् मृगवत् प्रविष्टः
लक्ष्मीवियुक्तो ऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार ॥
स्थिता हि हस्तस्थयुगास् तथैव कौतूहलाच् चक्रधराः सदाराः
तम् इन्द्रकल्पं ददृशुर् न जग्मुर् धुर्या इवार्धावनतैः शिरोभिः ॥
विप्राश् च गत्वा बहिर् इध्महेतोः प्राप्ताः समित्पुष्पपवित्रहस्ताः
तपःप्रधानाः कृतबुद्धयो ऽपि तं द्रष्टुम् ईयुर् न मठान् अभीयुः ॥
हृष्टाश् च केका मुमुचुर् मयूरा दृष्ट्वाम्बुदं नीलम् (इवोन्नमन्तः चिवोन्नमन्तं )
शष्पाणि हित्वाभिमुखाश् च तस्थुर् मृगाश् चलाक्षा मृगचारिणश् च ॥
दृष्ट्वा तम् इक्ष्वाकुकुलप्रदीपं ज्वलन्तम् उद्यन्तम् इवांशुमन्तम्
कृते ऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर् होमदुहश् च गावः ॥
कश्चिद् वसूनाम् अयम् अष्टमः स्यात् स्याद् अश्विनोर् अन्यतरश् च्युतो (वा चत्र )
उच्चेरुर् उच्चैर् इति तत्र वाचस् तद्दर्शनाद् विस्मयजा मुनीनाम् ॥
लेखर्1षभस्येव वपुर् द्वितीयं धामेव लोकस्य चराचरस्य
स द्योतयाम् आस वनं हि कृत्स्नं यदृच्छया सूर्य इवावतीर्णः ॥
ततः स तैर् आश्रमिभिर् यथावद् अभ्यर्चितश् चोपनिमन्त्रितश् च
प्रत्यर्चयां धर्मभृतो बभूव स्वरेण (साम्भोअम्बुच्भाद्राम्बु)धरोपमेन ॥
कीर्णं (तथा च्ततः )पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः
तम् आश्रमं सो ऽनुचचार धीरस् तपांसि चित्राणि निरीक्षमाणः ॥
तपोविकारांश् च निरीक्ष्य सौम्यस् तपोवने तत्र तपोधनानाम्
तपस्विनं कंचिद् अनुव्रजन्तं तत्त्वं विजिज्ञासुर् इदं बभाषे ॥
तत्पूर्वम् अद्याश्रमदर्शनं मे यस्माद् इमं धर्मविधिं न जाने
तस्माद् भवान् अर्हति भाषितुं मे यो निश्चयो (यत् च्यं )प्रति वः प्रवृत्तः ॥
ततो द्विजातिः स तपोविहारः शाक्यर्1षभायर्7षभविक्रमाय
क्रम्.एन तस्मै कथयां चकार तपो(विशेषांस् च्विशेषं )तपसः फलं च ॥
अग्राम्यम् अन्नं सलिले प्ररूढं पर्णानि तोयं फलमूलम् एव
यथागमं वृत्तिर् इयं मुनीनां भिन्नास् तु ते ते तपसां विकल्पाः ॥
उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन् मृगवच् चरन्ति
केचिद् भुजंगैः सह वर्तयन्ति वल्मीकभूता (वनमारुतेन चिव मारुतेन ) ॥
अश्मप्रयत्नार्जितवृत्तयो ऽन्ये केचित् स्वदन्तापहतान्नभक्षाः
कृत्वा परार्थं श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषम् अस्ति ॥
केचिज् जलक्लिन्नजटाकलापा द्विः पावकं जुह्वति मन्त्रपूर्वम्
मीनैः समं केचिद् अपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः ॥
एवंविधैः कालचितैस् तपोभिः परैर् दिवं यान्त्य् अपरैर् नृलोकम्
दुःखेन मार्गेण सुखं (ह्य् उपैति च्क्षियन्ति (सुखं च्दुःखं )हि धर्मस्य वदन्ति मूलम् ॥
इत्य् एवमादि द्विपेन्द्रवत्सः श्रुत्वा वचस् तस्य तपोधनस्य
अदृष्टतत्त्वो ऽपि न संतुतोष शनैर् इदं चात्मगतं (बभाषे च्जगाद ) ॥
दुःखात्मकं नैकविधं तपश् च स्वर्गप्रधानं तपसः फलं च
लोकाश् च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्व् अयम् आश्रमाणाम् ॥
(प्रियांश् च्श्रियं )च बन्धून् विषयांश् च हित्वा ये स्वर्ग(हेतोर् छेतौ )नियमं चरन्ति
ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं (बन्धनम् च्स्वं वनम् )एव भूयः ॥
कायक्लमैर् यश् च तपोअभिधानैः प्रवृत्तिम् आकाङ्क्षति कामहेतोः
संसारदोषान् अपरीक्षमाणो दुःखेन सो ऽन्विच्छति दुःखम् एव ॥
त्रासश् च नित्यं मरणात् प्रजानां यत्नेन चेच्छन्ति (पुनःप्रसूतिम् च्पुनः प्रसूतिम् )
सत्यां प्रवृत्तौ नियतश् च मृत्युस् तत्रैव (मग्ना च्मग्नो )यत एव (भीताः च्भीतः ) ॥
इहार्थम् एके प्रविशन्ति खेदं स्वर्गार्थम् अन्ये श्रमम् आप्नुवन्ति
सुखार्थम् आशाकृपणो ऽकृतार्थः पतत्य् अनर्थे खलु जीवलोकः ॥
न खल्व् अयं गर्हित एव यत्नो यो हीनम् उत्सृज्य विशेषगामी
प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद् यत्र पुनर् न कार्यम् ॥
शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्य् अधर्मः
धर्मेण चाप्नोति सुखं परत्र तस्माद् अधर्मं फलतीह धर्मः ॥
यतः शरीरं मनसो वशेन प्रवर्तते (चापि च्वापि )निवर्तते (च च्वा )
युक्तो दमश् चेतस एव तस्माच् चित्ताद् ऋते काष्ठसमं शरीरम् ॥
आहारशुद्ध्या यदि पुण्यम् इष्टं तस्मान् मृगाणाम् अपि पुण्यम् अस्ति
ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्(मुखार्थाः च्मुखत्वात् ) ॥
दुःखे ऽभिसंधिस् त्व् अथ पुण्यहेतुः सुखे ऽपि कार्यो ननु सो ऽभिसंधिः
अथ प्रमाणं न सुखे ऽभिसंधिर् दुःखे प्रमाणं ननु नाभिसंधिः ॥
तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्य् अपस् तीर्थम् इति प्रवृत्ताः
तत्रापि तोषो हृदि केवलो ऽयं न पावयिस्.यन्ति हि पापम् आपः ॥
स्पृष्टं हि यद् यद् गुणवद्भिर् अम्भस् तत् तत् पृथिव्यां यदि तीर्थम् इष्टम्
तस्माद् गुणान् एव परैमि तीर्थम् आपस् तु निःसंशयम् आप एव ॥
इति स्म तत् तद् बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान्
ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश ॥
अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्1षिजनावकीर्णम्
जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तम् इव प्रवृत्तम् ॥
काश्चिन् निशास् तत्र निशाकराभः परीक्षमाणश् च तपांस्य् उवास
सर्वं परिक्षेप्य तपश् च मत्वा तस्मात् तपःक्षेत्रतलाज् जगाम ॥
अन्वव्रजन्न् आश्रमिणस् ततस् तं तद्रूपमाहात्म्यगतैर् मनोभिः
देशाद् अनार्यैर् अभिभूयमानान् महर्2षयो धर्मम् इवापयान्तम् ॥
ततो जटावल्कलचीरखेलांस् तपोधनांश् चैव स तान् ददर्श
तपांसि चैषाम् (अनुरुध्यमानस् चनुबुध्यमानस् तस्थौ शिवे श्रीमति (वृक्षमूले च्मार्गवृक्षे ) ॥
अथोपसृत्याश्रमवासिनस् तं मनुष्यवर्यं परिवार्य तस्थुः
वृद्धश् च तेषां बहुमानपूर्वं कलेन साम्ना गिरम् इत्य् उवाच ॥
त्वय्य् आगते पूर्ण इवाश्रमो ऽभूत् संपद्यते शून्य इव प्रयाते
तस्माद् इमं नार्हसि तात हातुं जिजीविषोर् देहम् इवेष्टम् आयुः ॥
ब्रह्मर्1षिराजर्1षिसुरर्1षिजुष्टः पुण्यः समीपे हिमवान् हि शैलः
तपांसि तान्य् एव तपोधनानां यत्संनिकर्षाद् बहुलीभवन्ति ॥
तीर्थानि पुण्यान्य् अभितस् तथैव सोपानभूतानि नभस्तलस्य
जुष्टानि धर्मात्मभिर् आत्मवद्भिर् देवर्1षिभिश् चैव महर्2षिभिश् च ॥
इतश् च भूयः क्षमम् उत्तरैव दिक् सेवितुं धर्मविशेषहेतोः
न (तु छि )क्षमं दक्षिणतो बुधेन पदं भवेद् एकम् अपि प्रयातुम् ॥
तपोवने ऽस्मिन्न् अथ निष्क्रियो वा संकीर्ण(धर्मापतितो च्धर्मा पतितो )अशुचिर् वा
दृष्टस् त्वया येन न ते विवत्सा तद् ब्रूहि यावद् रुचितो ऽस्तु वासः ॥
इमे हि वाञ्छन्ति तपःसहायं तपोनिधानप्रतिमं भवन्तम्
वासस् त्वया हीन्द्रसमेन सार्धं बृहस्पतेर् अभ्युदयावहः स्यात् ॥
इत्य् एवम् उक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः
भवप्रणाशाय कृतप्रतिज्ञः स्वं भावम् अन्तर्गतम् आचचक्षे ॥
ऋज्वात्मनां धर्मभृतां मुनीनाम् इष्टातिथित्वात् स्वजनोपमानाम्
एवंविधैर् मां प्रति भावजातैः प्रीतिः (परा मे च्परात्मा )जनितश् च (मानः च्मार्गः ) ॥
स्निग्धाभिर् आभिर् हृदयंगमाभिः समासतः स्नात इवास्मि वाग्भिः
रतिश् च मे धर्मनवग्रहस्य विस्पन्दिता संप्रति भूय एव ॥
एवं प्रवृत्तान् भवतः शरण्यान् अतीव संदर्शितपक्षपातान्
यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस् त्यजतस् तथैव ॥
स्वर्गाय युष्माकम् अयं तु धर्मो ममाभिलाषस् त्व् अपुनर्भवाय
अस्मिन् वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः ॥
तन् नारतिर् मे न परापचारो वनाद् इतो येन परिव्रजामि
धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महर्2षिकल्पाः ॥
ततो वचः सूनृतम् अर्थवच् च सुश्लक्ष्णम् ओजस्वि च गर्वितं च
श्रुत्वा कुमारस्य तपस्विनस् ते विशेषयुक्तं बहुमानम् ईयुः ॥
कश्चिद् द्विजस् तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः
आपिङ्गलाक्षस् तनुदीर्घघोणः (कुण्डैकच्कुण्डोद)हस्तो गिरम् इत्य् उवाच ॥
धीमन्न् उदारः खलु निश्चयस् ते यस् त्वं युवा जन्मनि दृष्टदोषः
स्वर्गापवर्गौ हि विचार्य सम्यग् यस्यापवर्गे मतिर् अस्ति सो ऽस्ति ॥
यज्ञैस् तपोभिर् नियमैश् च तैस् तैः स्वर्गं यियासन्ति हि रागवन्तः
रागेण सार्धं रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः ॥
तद्बुद्धिर् एषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्याकोष्ठम्
असौ मुनिस् तत्र वसत्य् अराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः ॥
तस्माद् भवाञ् छ्रोष्यति तत्त्वमार्गं सत्यां रुचौ संप्रतिपत्स्यते च
यथा तु पश्यामि मतिस् (तथैषा च्तवैषा तस्यापि यास्यत्य् अवधूय बुद्धिम् ॥
(स्पष्टोच्चच्पुष्टाश्व)घोणं विपुलायताक्षं ताम्राधरौष्ठं सिततीक्ष्णदंष्ट्रम्
इदं हि वक्त्रं तनुरक्तजिह्वं ज्ञेयार्णवं पास्यति कृत्स्नम् एव ॥
गम्भीरता या भवतस् त्व् अगाधा या दीप्तता यानि च लक्षणानि
आचार्यकं प्राप्स्यसि तत् प्र्ठिव्यां यन् नर्7षिभिः पूर्वयुगे ऽप्य् अवाप्तम् ॥
परमम् इति ततो नृपात्मजस् तम् ऋषिजनं प्रतिनन्द्य निर्ययौ
विधिवद् अनुविधाय ते ऽपि तं प्रविविशुर् आश्रमिणस् तपोवनम् ॥
मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0