भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita · अध्याय 6

6.1

ततो (मुहूर्ताभ्युदिते च्मुहूर्ते ऽभ्युदिते जगच्चक्षुषि भास्करे
भार्गवस्याश्रमपदं स ददर्श नृणां वरः ॥

6.2

सुप्तविश्वस्तहरिणं स्वस्थस्थितविहंगमम्
विश्रान्त इव यद् (दृष्ट्वा च्दृष्टा [सिच्] कृतार्थ इव चाभवत् ॥

6.3

स विस्मयनिवृत्त्यर्थं तपःपूजार्थम् एव च
स्वां चानुवर्तितां रक्षण्न् अश्वपृष्ठाद् अवातरत् ॥

6.4

अवतीर्य च पस्पर्श निस्तीर्णम् इति वाजिनम्
छन्दकं चाब्रवीत् प्रीतः स्नापयन्न् इव चक्षुषा ॥

6.5

इमं तार्क्ष्योपमजवं तुरंगम् अनुगच्छता
दर्शिता सौम्य मद्भक्तिर् विक्रमश् चायम् आत्मनः ॥

6.6

सर्वथास्म्य् अन्यकार्यो ऽपि गृहीतो भवता हृदि
भर्तृस्नेहश् च यस्यायम् ईदृशः (शक्तिर् च्शक्त )एव च ॥

6.7

अस्निग्धो ऽपि समर्थो ऽस्ति निःसामर्थ्यो ऽपि भक्तिमान्
भक्तिमांस् चैव शक्तश् च दुर्लभस् त्वद्विधो भुवि ॥

6.8

तत् प्रीतो ऽस्मि तवानेन महाभागेन कर्मणा
(यस्य ते च्दृश्यते )मयि भावो ऽयं फलेभ्यो ऽपि पराङ्(मुखः च्मुखे ) ॥

6.9

को जनस्य फलस्थस्य न स्याद् अभिमुखो जनः
जनीभवति भूयिष्ठं स्वजनो ऽपि विपर्यये ॥

6.10

कुलार्थं धार्यते पुत्रः पोषार्थं सेव्यते पिता
(आशयाच् छ्लिष्यति चाशयाश्लिष्यति )जगन् नास्ति निष्(कारणा स्वता च्कारणास्वता ) ॥

6.11

किम् उक्त्वा बहु संक्षेपात् कृतं मे सुमहत् प्रियम्
निवर्तस्वाश्वम् आदाय संप्राप्तो ऽस्मीप्सितं (पदम् च्वनम् ) ॥

6.12

इत्य् उक्त्वा स महाबाहुर् अनुशंसचिकीर्षया
भूषणान्य् अवमुच्यास्मै संतप्तमनसे ददौ ॥

6.13

(मुकुटाद् दीपच्मुकुटोद्दीप्त)कर्माणं मणिम् आदाय भास्वरम्
ब्रुवन् वाक्यम् इदं तस्थौ सादित्य इव मन्दरः ॥

6.14

अनेन मणिना छन्द प्रणम्य बहुशो नृपः
विज्ञाप्यो ऽमुक्तविश्रम्भं संतापविनिवृत्तये ॥

6.15

(जन्मच्जरा)मरणनाशार्थं प्रविष्टो ऽस्मि तपोवनम्
न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना ॥

6.16

तद् एवम् अभिनिष्क्रान्तं न मां शोचितुम् अर्हसि
भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति ॥

6.17

ध्रुवो यस्माच् च विश्लेषस् तस्मान् मोक्षाय मे मतिः
विप्रयोगः कथं न स्याद् भूयो ऽपि स्व(जनाद् इति च्जनादिभिः ) ॥

6.18

शोकत्यागाय निष्क्रान्तं न मां शोचितुम् अर्हसि
शोकहेतुषु कामेषु सक्ताः शोच्यास् तु रागिणः ॥

6.19

अयं च किल पूर्वेषाम् अस्माकं निश्चयः स्थिरः
इति (दायाद्यच्दायाद)भूतेन न शोच्यो ऽस्मि पथा व्रजन् ॥

6.20

भवन्ति ह्य् अर्थदायादाः पुरुषस्य विपर्यये
पृथिव्यां धर्मदायादाः दुर्लभास् तु न सन्ति वा ॥

6.21

यद् अपि स्याद् असमये यातो वनम् असाव् इति
अकालो नास्ति धर्मस्य जीविते चञ्चले सति ॥

6.22

तस्माद् अद्यैव मे श्रेयश् चेतव्यम् इति निश्चयः
जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते ॥

6.23

एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः
प्रयतेथास् तथा चैव यथा मां न स्मरेद् अपि ॥

6.24

अपि नैर्गुण्यम् अस्माकं वाच्यं नरपतौ त्वया
नैर्गुण्यात् त्यज्यते स्नेहः स्नेहत्यागान् न शोच्यते ॥

6.25

इति वाक्यम् इदं श्रुत्वा छन्दः संतापविक्लवः
(बाष्पच्वाष्प)ग्रथितया वाचा प्रत्युवाच कृताञ्जलिः ॥

6.26

अनेन तव भावेन बान्धवायासदायिना
भर्तः सीदति मे चेतो नदीपङ्कए इव द्विपः ॥

6.27

कस्य नोत्पादयेद् (बाष्पं च्वाष्पं निश्चयस् ते ऽयम् ईदृशः
अयोमये ऽपि हृदये किं पुनः स्नेहविक्लवे ॥

6.28

विमानशयनार्हं हि सौकुमार्यम् इदं क्व च
खरदर्भाङ्कुरवती तपोवनमही क्व च ॥

6.29

श्रुत्वा तु व्यवसायं ते यद् अश्वो ऽयं (मयाहृतः च्मया हृतः )
बलात्कारेण तन् नाथ दैवेनैवास्मि कारितः ॥

6.30

कथं ह्य् आत्मवशो जानन् व्यवसायम् इमं तव
उपानयेयं तुरगं शोकं कपिल(वास्तुनः च्वस्तुनः ) ॥

6.31

तन् नार्हसि महाबाहो विहातुं पुत्रलालसम्
स्निग्धं वृद्धं च राजानं सद्धर्मम् इव नास्तिकः ॥

6.32

संवर्धनपरिश्रान्तां द्वितीयां तां च मातरम्
(देवीं च्देव )नार्हसि विस्मर्तुं कृतघ्न इव सत्क्रियाम् ॥

6.33

बालपुत्रां गुणवतीं कुलश्लाघ्यां पतिव्रताम्
देवीम् अर्हसि न त्यक्तुं (क्लीबः च्क्लीवः )प्राप्ताम् इव श्रियम् ॥

6.34

पुत्रं याशोधरं श्लाघ्यं यशोधर्मभृतां (वरम् च्वरः )
बालम् अर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः ॥

6.35

अथ बन्धुं च राज्यं च त्यक्तुम् एव कृता मतिः
मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर् मम ॥

6.36

नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा
त्वाम् अरण्ये परित्यज्य सु(मन्त्र च्मित्र )इव राघवम् ॥

6.37

किं हि वक्ष्यति (मां राजा च्राजा मां त्वदृते नगरं गतम्
वक्ष्याम्य् उचितदर्शित्वात् किं तवान्तःपुराणि वा ॥

6.38

यद् अप्य् आत्थापि नैर्गुण्यं वाच्यं नरपताव् इति
किं तद् वक्ष्याम्य् अभूतं ते निर्दोषस्य मुनेर् इव ॥

6.39

हृदयेन सलज्जेन जिह्वया सज्जमानया
अहं यद्यपि वा ब्रूयां कस् तच् छ्रद्धातुम् अर्हति ॥

6.40

यो हि चन्द्रमसस् (तैक्ष्ण्यं च्तैक्ष्ण्य [सिच्] कथयेच् छ्रद्दधीत वा
स दोषांस् तव दोषज्ञ कथयेच् छ्रद्दधीत वा ॥

6.41

सानुक्रोशस्य सततं नित्यं करुणवेदिनः
स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे ॥

6.42

इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितम्
स्वस्थः परमया धृत्या जगाद वदतां वरः ॥

6.43

मद्वियोगं प्रति च्छन्द संतापस् त्यज्यताम् अयम्
नानाभावो हि नियतं पृथग्जातिषु देहिषु ॥

6.44

स्वजनं यद्यपि स्नेहान् न (त्यजेयम् अहं स्वयम् च्त्यजेयं मुमुक्षया )
मृत्युर् अन्योअन्यम् अवशान् अस्मान् संत्याजयिष्यति ॥

6.45

महत्या तृष्णया दुःखैर् गर्भेणास्मि यया धृतः
तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम ॥

6.46

वासवृक्षे समागम्य विगच्छन्ति यथाण्डजाः
नियतं विप्रयोगान्तस् तथा भूतसमागमः ॥

6.47

समेत्य च यथा भूयो व्यपयान्ति (बलाहकाः च्वलाहकाः )
संयोगो विप्रयोगश् च तथा मे प्राणिनां मतः ॥

6.48

यस्माद् याति च लोको ऽयं विप्रलभ्य परंपरम्
ममत्वं न क्षमं तस्मात् स्वप्नभूते समागमे ॥

6.49

सहजेन वियुज्यन्ते पर्णरागेण पादपाः
अन्येनान्यस्य विश्लेषः किं पुनर् न भविष्यति ॥

6.50

तद् एवं सति संतापं मा कार्षीः सौम्य गम्यताम्
लम्बते यदि तु स्नेहो गत्वापि पुनर् आव्रज ॥

6.51

ब्रूयाश् (चास्मत्कृतापेक्षं च्चास्मास्व् अनाक्षेपं जनं कपिल(वास्तुनि च्वस्तुनि )
त्यज्यतां तद्गतः स्नेहः श्रूयतां चास्य निश्चयः ॥

6.52

क्षिप्रम् एष्यति वा कृत्वा जन्ममृत्युक्षयं किल
अकृतार्थो निर्(आरम्भो चालम्बो निधनं यास्यतीति वा ॥

6.53

इति तस्य वचः श्रुत्वा कन्थकस् तुरगोत्तमः
जिह्वया लिलिहे पादौ (बाष्पम् च्वाष्पम् )उष्णं मुमोच च ॥

6.54

जालिना स्वस्तिकाङ्केन (चक्रच्वक्र)मध्येन पाणिना
आममर्श कुमारस् तं बभाषे च वयस्यवत् ॥

6.55

मुञ्च कन्थक मा (बाष्पं च्वाष्पं दर्शितेयं सदश्वता
मृष्यतां सफलः शीघ्रं श्रमस् ते ऽयं भविष्यति ॥

6.56

मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा
कोशाद् असिं काञ्चनभक्तिचित्रं (बिलाद् च्विलाद् )इवाशीविषम् उद्बबर्ह ॥

6.57

निष्कास्य तं चदुत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशम्
विकीर्यमाणांशुकम् अन्तरीक्षे चिक्षेप चैनं सरसीव हंसम् ॥

6.58

पूजाभिलाषेण च बाहुमान्याद् दिवौकसस् तं जगृहुः प्रविद्धम्
यथावद् एनं दिवि देवसङ्घा दिव्यैर् विशेषैर् महयां च चक्रुः ॥

6.59

मुक्त्वा त्व् अलंकारकलत्रवत्तां श्रीविप्रवासं शिरसश् च कृत्वा
दृष्ट्वांशुकं काञ्चनहंस(चिह्नं च्चित्रम् वन्यं स धीरो ऽभिचकाङ्क्ष वासः ॥

6.60

ततो मृगव्याधवपुर् दिवौका भावं विदित्वास्य विशुद्धभावः
काषायवस्त्रो ऽभिययौ समीपं तं शाक्यराजप्रभवो ऽभ्युवाच ॥

6.61

शिवं च काषायम् ऋषिध्वजस् ते न युज्यते हिंस्रम् इदं धनुश् च
तत् सौम्य यद्य् अस्ति न सक्तिर् अत्र मह्यं प्रयच्छेदम् इदं गृहाण ॥

6.62

व्याधो ऽब्रवीत् कामद कामम् आराद् अनेन विश्वास्य मृगान् (निहन्मि च्निहत्य )
अर्थस् तु शक्रोपम यद्य् अनेन हन्त प्रतीच्छानय शुक्लम् एतत् ॥

6.63

परेण हर्षेण ततः स वन्यं जग्राह वासो ऽंशुकम् उत्ससर्ज
व्याधस् तु दिव्यं वपुर् एव बिभ्रत् तच् छुक्लम् आदाय दिवं जगाम ॥

6.64

ततः कुमारश् च स चाश्वगोपस् तस्मिंस् तथा याति विसिस्मियाते
आरण्यके वाससि चैव भूयस् तस्मिन्न् अकार्ष्टां बहुमानम् आशु ॥

6.65

छन्दं ततः साश्रुमुखं विसृज्य काषाय(संभृद् धृतिच्संविद् वृत)कीर्तिभृत् सः
येनाश्रमस् तेन ययौ महात्मा संध्याभ्रसंवीत (इवोडुचिवाद्रि)राजः ॥

6.66

ततस् तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि
भुजौ समुत्क्षिप्य ततः स वाजिभृद् भृशं विचुक्रोश पपात च क्षितौ ॥

6.67

विलोक्य भूयश् च रुरोद सस्वरं हयं भुजाभ्याम् उपगुह्य कन्थकम्
ततो निराशो विलपन् मुहुर् मुहुर् ययौ शरीरेण पुरं न चेतसा ॥

6.68

क्वचित् प्रदध्यौ विललाप च क्वचित् क्वचित् प्रचस्खाल पपात च क्वचित्
अतो व्रजन् भक्तिवशेन दुःखितश् चचार बह्वीर् (अवसः चवशः )पथि क्रियाः ॥

मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc