Buddhacarita · अध्याय 5
स तथा विषयैर् विलोभ्यमानः (परमार्हैर् च्परमोहैर् )अपि शाक्यराजसूनुः
न जगाम (धृतिं च्रतिं )न शर्म लेभे हृदये सिंह इवातिदिग्धविद्धः ॥
अथ मन्त्रिसुतैः क्षमैः कदाचित् सखिभिश् चित्रकथैः कृतानुयात्रः
वनभूमिदिदृक्षया शमेप्सुर् नरदेवानुमतो (बहिः च्वहिः )प्रतस्थे ॥
नवरुक्मखलीनकिङ्किणीकं प्रचलच्चामरचारुहेमभाण्डम्
अभिरुह्य स (कन्थकं च्कण्ठकं )सदश्वं प्रययौ केतुम् इव द्रुमाब्जकेतुः ॥
स (विकृष्टतरां च्निकृष्टतरां )वनान्तभूमिं वनलोभाच् च ययौ मही(गुणाच् च च्गुणेच्छुः )
सलिलोउर्मिविकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणाम् ॥
हलभिन्नविकीर्णशष्पदर्भां हतसूक्ष्मक्रिमि(कीटच्काण्ड)जन्तुकीर्णाम्
समवेक्ष्य रसां तथाविधां तां स्वजनस्येव (वधे च्बधे )भृशं शुशोच ॥
कृषतः पुरुषांश् च वीक्षमाणः पवनार्कांशुरजोविभिन्नवर्णान्
वहनक्लमविक्लवांश् च धुर्यान् परमार्यः परमां कृपां चकार ॥
अवतीर्य ततस् तुरंगपृष्ठाच् छनकैर् गां (व्यचरच् छुचा च्व्यचरत् शुचा )परीतः
जगतो जननव्ययं विचिन्वन् कृपणं खल्व् इदम् इत्य् उवाच (चार्तः च्चार्त्तः ) ॥
मनसा च विविक्तताम् अभीप्सुः सुहृदस् तान् अनुयायिनो निवार्य
(अभितश् चलचभितारल)चारुपर्णवत्या विजने मूलम् उपेयिवान् स जम्ब्वाः ॥
निषसाद (स यत्र शौचवत्यां च्च पत्रखोरवत्यां भुवि (वैडूर्यच्वैदूर्य)निकाशशाद्वलायाम्
जगतः प्रभवव्ययौ (विचिन्वन् च्विचिन्त्य मनसश् च स्थितिमार्गम् आललम्बे ॥
समवाप्तमनःस्थितिश् च सद्यो विषयेच्छादिभिर् आधिभिश् च मुक्तः
सवितर्कविचारम् आप शान्तं प्रथमं ध्यानम् अन्(आस्रवचाश्रव)प्रकारम् ॥
अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं ((च्मनःच्))समाधिम्
इदम् एव ततः परं प्रदध्यौ मनसा लोकगतिं (निशाम्य च्निशम्य )सम्यक् ॥
कृपणं (बत च्वत )यज् जनः स्वयं सन्न् अ(वशो च्रसो )व्याधिजराविनाश(धर्मा च्धर्मः )
जरयार्दितम् आतुरं मृतं वा परम् अज्ञो विजुगुप्सते मदान्धः ॥
इह चेद् अहम् ईदृशः स्वयं सन् विजुगुप्सेय परं तथास्वभावम्
न भवेत् सदृशं हि तत् क्षमं वा परमं धर्मम् इमं विजानतो मे ॥
इति तस्य विपश्यतो यथावज् जगतो व्याधिजराविपत्तिदोषान्
बलयौवनजीवित(प्रवृत्तो च्प्रवृत्तौ विजगामात्मगतो मदः क्षणेन ॥
न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे
न च कामगुणेषु संररञ्जे न (विदिद्वेष च्च दिद्वेष )परं न चावमेने ॥
इति बुद्धिर् इयं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा
पुरुषैर् अपरैर् अदृश्यमानः पुरुषश् चोपससर्प भिक्षु(वेषः च्वेशः ) ॥
नरदेवसुतस् तम् अभ्यपृच्छद् वद को ऽसीति शशंस सो ऽथ तस्मै
(नरपुंच्स च पुं)गव जन्ममृत्युभीतः श्रमणः प्रव्रजितो ऽस्मि मोक्षहेतोः ॥
जगति क्षयधर्मके मुमुक्षुर् मृगये ऽहं शिवम् अक्षयं पदं तत्
स्व(जने ऽन्यजने च तुल्यच्जनो ऽन्यजनैर् अतुल्य)बुद्धिर् विषयेभ्यो विनि.व्र्त्तरागदोषः ॥
निवसन् क्वचिद् एव वृक्षमूले विजने वायतने गिरौ वने वा
विचराम्य् अपरिग्रहो निराशः परमार्थाय यथोपपन्न(भैक्षः च्भिक्षुः ) ॥
इति पश्यत एव राजसूनोर् इदम् उक्त्वा स नभः समुत्पपात
स हि तद्वपुर् अन्य(बुद्धच्बुद्धि)दर्शी स्मृतये तस्य समेयिवान् दिवौकाः ॥
गगनं खगवद् गते च तस्मिन् नृवरः संजहृषे विसिस्मिये च
उपलभ्य ततश् च धर्मसंज्ञाम् अभिनिर्याणविधौ मतिं चकार ॥
तत इन्द्रसमो (जितेन्द्रियाश्वः च्जितेन्द्रियश् च प्रविविक्षुः (पुरम् अश्वम् च्परमाश्वम् )आरुरोह
(परिवारजनं च्परिवर्त्य जनं )त्व् अवेक्षमाणस् तत एवाभिमतं वनं न भेजे ॥
स जरामरणक्षयं चिकीर्षुर् वनवासाय मतिं स्मृतौ निधाय
प्रविवेश पुनः पुरं न कामाद् वनभूमेर् इव मण्डलं द्विपेन्द्रः ॥
सुखिता (बत च्वत )निर्वृता च सा स्त्री पतिर् ई(दृक्ष इहायताक्ष च्दृक् त्वम् इवायताक्ष )यस्याः
इति तं समुदीक्ष्य राजकन्या प्रविशन्तं पथि साञ्जलिर् जगाद ॥
अथ घोषम् इमं महाभ्रघोषः परिशुश्राव शमं परं च लेभे
(श्रुतवान् स च्श्रुतवांश् च )हि निर्वृतेति शब्दं परिनिर्वाणविधौ मतिं चकार ॥
अथ काञ्चनशैलशृङ्गवर्ष्मा गजमेघर्1षभबाहुनिस्वनाक्षः
क्षयम् अक्षयधर्मजातरागः शशिसिंहाननविक्रमः प्रपेदे ॥
मृगराजगतिस् ततो ऽभ्यगच्छन् नृपतिं मन्त्रिगणैर् उपास्यमानम्
समितौ मरुताम् इव ज्वलन्तं मघवन्तं त्रिदिवे सनत्कुमारः ॥
प्रणिपत्य च साञ्जलिर् बभाषे दिश मह्यं नरदेव साध्व् अनुज्ञाम्
परिविव्रजिषामि मोक्षहेतोर् नियतो ह्य् अस्य जनस्य विप्रयोगः ॥
इति तस्य वचो निशम्य राजा करिणेवाभिहतो द्रुमश् चचाल
कमलप्रतिमे ऽञ्जलौ गृहीत्वा वचनं चेदम् उवाच (बाष्पच्वाष्प)कण्ठः ॥
प्रतिसंहर तात बुद्धिम् एतां न हि कालस् तव धर्मसंश्रयस्य
वयसि प्रथमे मतौ चलायां बहुदोषां हि वदन्ति धर्मचर्याम् ॥
विषयेषु कुतूहलेन्द्रियस्य व्रतखेदेष्व् असमर्थनिश्चयस्य
तरुणस्य मनश् चलत्य् अरण्याद् अनभिज्ञस्य विशेषतो (विवेके चविवेकम् ) ॥
मम तु प्रियधर्म धर्मकालस् त्वयि लक्ष्मीम् अवसृज्य (लक्ष्मच्लक्ष्य)भूते
स्थिरविक्रम विक्रमेण धर्मस् तव हित्वा तु गुरुं भवेद् अधर्मः ॥
तद् इमं व्यवसायम् उत्सृज त्वं भव तावन् निरतो गृहस्थधर्मे
पुरुषस्य वयःसुखानि भुक्त्वा रमणीयो हि तपोवनप्रवेशः ॥
इति वाक्यम् इदं निशम्य राज्ञः कलविङ्कस्वर उत्तरं बभाषे
यदि मे प्रतिभूश् चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये ॥
न भवेन् मरणाय जीवितं मे विहरेत् स्वास्थ्यम् इदम् च मे न रोगः
न च यौवनम् आक्षिपेज् जरा मे न च संपत्तिम् (इमां हरेद् चपाहरेद् )विपत्तिः ॥
इति दुर्लभम् अर्थम् ऊचिवांसं तनय्.अम् वाक्यम् उवाच शाक्यराजः
त्यज बुद्धिम् (इमाम् अतिचिमां गति)प्रवृत्ताम् अवहास्यो ऽतिमनो(रथो ऽच्रथ)क्रमश् च ॥
अथ मेरुगुरुर् गुरुं बभाषे यदि नास्ति क्रम एष (नास्मि च्नास्ति )वार्यः
शरणाज् ज्वलनेन दह्यमानान् न हि (निश्चिक्रमिषुः च्निश्चिक्रमिषुं )क्षमं ग्रहीतुम् ॥
जगतश् च (यदा च्यथा )ध्रुवो वियोगो (ननु च्न तु )धर्माय वरं (स्वयंवियोगः च्त्व् अयं वियोगः )
अवशं ननु विप्रयोजयेन् माम् अकृतस्वार्थम् अतृप्तम् एव मृत्युः ॥
इति भूमिपतिर् निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः
अभिधाय न यास्यतीति भूयो विदधे रक्षणम् उत्तमांश् च कामान् ॥
सचिवैस् तु निदर्शितो यथावद् बहुमानात् प्रणयाच् च शास्त्रपूर्वम्
गुरुणा च निवारितो ऽश्रुपातैः प्रविवेशावसथं ततः स शोचन् ॥
चलकुण्दलचुम्बिताननाभिर् घननिश्वासविकम्पितस्तनीभिः
वनिताभिर् अधीरलोचनाभिर् मृगशावाभिर् इवाभ्युदीक्ष्यमाणः ॥
स हि काञ्चनपर्वतावदातो हृदयोन्मादकरो वराङ्गनानाम्
श्रवनाङ्गविलोचनात्मभावान् वचनस्पर्शवपुर्गुणैर् जहार ॥
विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः
तिमिरं विजिघांसुर् आत्मभासा रविर् उद्यन्न् इव मेरुम् आरुरोह ॥
कनकोज्ज्वलदीप्तदीपवृक्षं वरकालागुरुधूपपूर्णगर्भम्
अधिरुह्य स वज्रभक्तिचित्रं प्रवरं काञ्चनम् आसनं सिषेवे ॥
तत उत्तमम् (उत्तमाङ्गनास् तं चुत्तमाश् च नार्यो निशि तूर्यैर् उपतस्थुर् इन्द्रकल्पम्
हिमवच्छिरसीव चन्द्रगौरे द्रविणेन्द्रात्मजम् अप्सरोगणौघाः ॥
परमैर् अपि दिव्यतूर्यकल्पैः स तु तैर् नैव रतिं ययौ न हर्षम्
परमार्थसुखाय तस्य साधोर् अभिनिश्चिक्रमिषा यतो न रेमे ॥
अथ तत्र सुरैस् तपोवरिष्ठैर् अकनिष्ठैर् व्यवसायम् अस्य बुद्ध्वा
युगपत् प्रमदाजनस्य निद्रा विहितासीद् विकृताश् च गात्रचेष्टाः ॥
अभवच् छयिता हि तत्र काचिद् विनिवेश्य प्रचले करे कपोलम्
दयिताम् अपि रुक्मपत्त्रचित्रां कुपितेवाङ्कगतां विहाय वीणाम् ॥
विबभौ करलग्नवेणुर् अन्या स्तनविस्रस्तसितांशुका शयाना
ऋजुषट्पदपङ्क्तिजुष्टपद्मा जलफेनप्रहसत्तटा नदीव ॥
नवपुष्करगर्भकोमलाभ्यां तपनीयोज्ज्वलसंगताङ्गदाभ्याम्
स्वपिति स्म (तथापरा च्तथा पुरा )भुजाभ्यां परिरभ्य प्रियवन् मृदङ्गम् एव ॥
नवहाटकभूषणास् तथान्या वसनं पीतम् अनुत्तमं वसानाः
अवशा (घननिद्रया च्वत निद्रया )निपेतुर् गजभग्ना इव कर्णिकारशाखाः ॥
अवलम्ब्य गवाक्षपार्श्वम् अन्या शयिता चापविभुग्नगात्रयष्टिः
विरराज विलम्बिचारुहारा रचिता तोरणशालभञ्जिकेव ॥
मणिकुण्डलदष्टपत्त्रलेखं मुखपद्मं विनतं तथापरस्याः
शतपत्त्रम् इवार्ध(वक्रच्चक्र)नाडं स्थितकारण्डवघट्टितं चकाशे ॥
अपराः शयिता यथोपविष्टाः स्तनभारैर् अवनम्यमानगात्राः
उपगुह्य परस्परं विरेजुर् भुजपाशैस् तपनीयपारिहार्यैः ॥
महतीं परिवादिनीं च काचिद् वनितालिङ्ग्य सखीम् इव प्रसुप्ता
विजुघूर्ण चलत्सुवर्ण(सूत्रा च्सूत्रां वदनेनाकुल(योक्त्रकेण च्कर्णिकोज्ज्वलेन ) ॥
पणवं युवतिर् भुजांसदेशाद् अवविस्रंसितचारुपाशम् अन्या
सविलासरतान्ततान्तम् ऊर्वोर् विवरे कान्तम् इवाभिनीय शिश्ये ॥
अपरा बभुर् निमीलिताक्ष्यो विपुलाक्ष्यो ऽपि शुभभ्रुवो ऽपि सत्यः
प्रतिसंकुचितारविन्दकोशाः सवितर्य् अस्तम् इते यथा नलिन्यः ॥
शिथिलाकुलमूर्धजा तथान्या जघनस्रस्तविभूषणांशुकान्ता
अशयिष्ट विकीर्णकण्ठसूत्रा गजभग्ना (प्रतियातनाङ्गनेव च्प्रतिपातिताङ्गनेव ) ॥
अपरास् त्व् अवशा ह्रिया वियुक्ता धृतिमत्यो ऽपि वपुर्गुणैर् उपेताः
विनिशश्वसुर् (उल्बणं चुल्वणं )शयाना (विकृताः क्षिप्तच्विकृताक्षिप्त)भुजा जजृम्भिरे च ॥
व्यपविद्धविभूषणस्रजो ऽन्या (विसृताग्रन्थनच्विसृताग्रन्थन)वाससो विसंज्ञाः
अनिमीलितशुक्लनिश्चलाक्ष्यो न विरेजुः शयिता गतासुकल्पाः ॥
विवृतास्यपुटा विवृद्ध(गात्री च्गात्रा प्रपतद्वक्त्रजला प्रकाशगुह्या
अपरा मदघूर्णितेव शिश्ये न (बभासे च्बभाषे )विकृतं वपुः पुपोष ॥
इति सत्त्व(कुलान्वयानुरूपं च्कुलानुरूपरूपं विविधं स प्रमदाजनः शयानः
सरसः सदृशं बभार रूपं पवनावर्जित(रुग्नच्रुग्ण)पुष्करस्य ॥
समवेक्ष्य (तथा तथा च्ततश् च ताः )शयाना विकृतास् ता युवतीर् अधीरचेष्टाः
गुणवद्वपुषो ऽपि वल्गु(भाषा च्भासो नृपसूनुः स विगर्हयां बभूव ॥
अशुचिर् विकृतश् च जीवलोके वनितानाम् अयम् ईदृशः स्वभावः
वसनाभरणैस् तु वञ्च्यमानः पुरुषः स्त्रीविषयेषु रागम् एति ॥
विमृशेद् यदि योषितां मनुष्यः प्रकृतिं स्वप्नविकारम् ईदृशं च
ध्रुवम् अत्र न वर्धयेत् प्रमादं गुणसंकल्पहतस् तु रागम् एति ॥
इति तस्य तदन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव
अवगम्य मनस् ततो ऽस्य देवैर् भवनद्वारम् अपावृतं बभूव ॥
अथ सो ऽवततार हर्म्यपृष्ठाद् युवतीस् ताः शयिता विगर्हमाणः
अवतीर्य ततश् च निर्विशङ्को गृहकक्ष्यां (प्रथमां च्प्रथमं )विनिर्जगाम ॥
तुरगावचरं स बोधयित्वा जविनं छन्दकम् इत्थम् इत्य् उवाच
हयम् आनय कन्थकं त्वरावान् अमृतं प्राप्तुम् इतो ऽद्य म यियासा ॥
हृदि या मम तुष्टिर् अद्य जाता व्यवसायश् च यथा (मतौ च्धृतौ )निविष्टः
विजने ऽपि च नाथवान् इवास्मि ध्रुवम् अर्थो ऽभिमुखः (समेत च्स मे य )इष्टः ॥
ह्रियम् एव च संनतिं च हित्वा शयिता मत्प्रमुखे यथा युवत्यः
विवृते च यथा स्वयं कपाटे नियतं यातुम् (अतो ममाद्य चनामयाय )कालः ॥
प्रतिगृह्य ततः स भर्तुर् आज्ञां विदितार्थो ऽपि नरेन्द्रशासनस्य
मनसीव परेण चोद्यमानस् तुरगस्यानयने मतिं चकार ॥
अथ हेमखलीनपूर्णवक्त्रं लघुशय्यास्तरणोपगूढपृष्ठम्
बलसत्त्व(जवान्वयोपपन्नं च्जवत्वरोपपन्नं स वराश्वं तम् उपानिनाय भर्त्रे ॥
प्रततत्रिकपुच्छमूलपार्ष्णिं (निभृतह्रस्वच्निभृतं ह्रस्व)तनूज(पुच्छच्पृष्ठ)कर्णम्
विनतोन्नतपृष्ठकुक्षिपार्श्वं विपुलप्रोथललाटकठ्युरस्कम् ॥
उपगुह्य स तं विशालवक्षाः कमलाभेन च सान्त्वयन् करेण
मधुराक्षरया गिरा शशास ध्वजिनीमध्यम् इव प्रवेष्टुकामः ॥
बहुशः (किल शत्रवो च्कलिशत्रवो )निरस्ताः समरे त्वाम् अधिरुह्य पार्थिवेन
अहम् अप्य् अमृतं (पदं च्परं )यथावत् तुरगश्रेष्ठ लभेय तत् कुरुष्व ॥
सुलभाः खलु संयुगे सहाया विषयावाप्तसुखे धनार्जने वा
पुरुषस्य तु दुर्लभाः सहायाः पतितस्यापदि धर्मसंश्रये वा ॥
इह चैव भवन्ति ये सहायाः कलुषे (कर्मणि च्धर्मणि )धर्मसंश्रये वा
अवगच्छति मे यथान्तरात्मा नियतं ते ऽपि जनास् तदंशभाजः ॥
तद् इदं परिगम्य धर्मयुक्तं मम निर्याणम् (इतो चतो )जगद्धिताय
तुरगोत्तम वेगविक्रमाभ्यां प्रयतस्वात्महिते जगद्धिते च ॥
इति सुहृदम् इवानुशिष्य कृत्ये तुरगवरं नृवरो वनं यियासुः
सितम् असितगतिद्युतिर् वपुष्मान् रविर् इव शारदम् अभ्रम् आरुरोह ॥
अथ स परिहरन् निशीथचण्डं परिजनबोधकरं ध्वनिं सदश्वः
विगतहनुरवः प्रशान्तहेषश् चकितविमुक्तपद(क्रमो च्क्रमा )जगाम ॥
कनकवलयभूषितप्रकोष्ठैः कमलनिभैः (कमलान् इव च्कमलानि च )प्रविध्य
अवनततनवस् ततो ऽस्य यक्षाश् चकित(गतैर् च्गतेर् )दधिरे खुरान् कराग्रैः ॥
गुरुपरिघकपाटसंवृता या न सुखम् अपि द्विरदैर् अपाव्रियन्ते
व्रजति नृपसुते गतस्वनास् ताः स्वयम् अभवन् विवृताः पुरः प्रतोल्यः ॥
पितरम् अभिमुखं सुतं च बालं जनम् अनुरक्तम् अनुत्तमां च लक्ष्मीम्
कृतमतिर् अपहाय निर्व्यपेक्षः पितृनगरात् स ततो विनिर्जगाम ॥
अथ स (विमलच्विकच)पङ्कजायताक्षः पुरम् अवलोक्य ननाद सिंहनादम्
जननमरणयोर् अदृष्टपारो न (पुरम् च्पुनर् )अहं कपिलाह्वयं (प्रवेष्टा च्प्रविष्टा ) ॥
इति वचनम् इदं निशम्य तस्य द्रविणपतेः परिषद्गणा ननन्दुः
प्रमुदितमनसश् च देवसङ्घा व्यवसितपारणम् आशशंसिरे ऽस्मै ॥
हुतवहवपुषो दिवौकसो ऽन्ये व्यवसितम् अस्य (सुदुष्च्च दुष्)करं विदित्वा
(अकृषत चकुरुत )तुहिने पथि प्रकाशं घनविवरप्रष्र्ता इवेन्दुपादाः ॥
अरुणपरुष(तारम् अन्तरिक्षं च्भारम् अन्तरीक्षं (स च सुबहूनि च्सरसबहूनि )जगाम योजनानि ॥
मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0