भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita · अध्याय 4

4.1

ततस् तस्मात् पुरोद्यानात् कौतूहलचलेक्षणाः $
प्रत्युज्जग्मुर् नृपसुतं प्राप्तं वरम् इव स्त्रियः ॥

4.2

अभिगम्य च तास् तस्मै विस्मयोत्फुल्ललोचनाः
चक्रिरे समुदाचारं पद्मकोशनिभैः करैः ॥

4.3

तस्थुश् च परिवार्यैनं मन्मथाक्षिप्तचेतसः
निश्चलैः प्रितिविकचैः पिबन्त्य इव लोचनैः ॥

4.4

तं हि ता मेनिरे नार्यः कामो विग्रहवान् इति
शोभितं लक्षणैर् दीप्तैः सहजैर् भूषणैर् इव ॥

4.5

सौम्यत्वाच् चैव धैर्याच् च काश्चिद् एनं प्रजज्ञिरे
अवतीर्णो महीं साक्षाद् (गूढांशुश् च्सुधांशुश् )चन्द्रमा (इति चिव ) ॥

4.6

तस्य ता वपुषाक्षिप्ता (निगृहीतं च्निर्ग्रहीतुं )जजृम्भिरे
अन्योअन्यं दृष्टिभिर् (हत्वा च्गत्वा शनैश् च विनिशश्वसुः ॥

4.7

एवं ता दृष्टिमात्रेण नार्यो ददृशुर् एव तम्
न व्याजह्रुर् न जहसुः प्रभावेणास्य यन्त्रिताः ॥

4.8

तास् तथा तु निरारम्भा दृष्ट्वा प्रणयविक्लवाः
पुरोहितसुतो धीमान् उदायी वाक्यम् अब्रवीत् ॥

4.9

सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः
रूपचातुर्यसंपन्नाः स्वगुणैर् मुख्यतां गताः ॥

4.10

(शोभयेत च्शोभयेत )गुणैर् एभिर् अपि तान् उत्तरान् कुरून्
कुवेरस्यापि (चाक्रीडं च्च क्रीडं प्राग् एव वसुधाम् इमाम् ॥

4.11

शक्ताश् चालयितुं यूयं वीतरागान् ऋषीन् अपि
अप्सरोभिश् च कलितान् ग्रहीतुं विबुधान् अपि ॥

4.12

भावज्ञानेन हावेन (रूपचातुर्यच्चातुर्या रूप)संपदा
स्त्रीणाम् एव च शक्ताः स्थ संरागे किं पुनर् नृणाम् ॥

4.13

तासाम् एवंविधानां वो (वियुक्तानां च्नियुक्तानां )स्वगोचरे
इयम् एवंविधा चेष्टा न तुष्टो ऽस्म्य् आर्जवेन वः ॥

4.14

इदं नववधूनां वो ह्रीनिकुञ्चितचक्षुषाम्
सदृशं चेष्टितं हि स्याद् अपि वा गोपयोषिताम् ॥

4.15

(यद् च्यद्य् )अपि स्याद् अयं (धीरः च्वीरः श्रीप्रभावान् महान् इति
स्त्रीणाम् अपि महत् तेज इतः कार्यो ऽत्र निश्चयः ॥

4.16

पुरा हि काशिसुन्दर्या वेशवध्वा महान् ऋषिः
ताडितो ऽभूत् (पदा व्यासो च्पदन्यासाद् दुर्धर्षो (देवतैर् च्दैवतैर् )अपि ॥

4.17

मन्थालगौतमो भिक्षुर् जङ्घया (वारच्बाल)मुख्यया
पिप्रीषुश् च तदर्थार्थं व्यसून् निरहरत् पुरा ॥

4.18

गौतमं दीर्घतपसं महर्2षिं दीर्घजीविनम्
योषित् संतोषयाम् आस वर्णस्थानावरा सती ॥

4.19

ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्व् अपण्डितम्
उपायैर् विविधैः शान्ता जग्राह च जहार च ॥

4.20

विश्वामित्रो महर्2षिश् च विगाढो ऽपि (महत् तपः च्महत्तपाः )
(दश वर्षाण्य् अहर् मेने च्दशवर्षाण्य् अरण्यस्थो घृताच्याप्सरसा हृतः ॥

4.21

एवमादीन् ऋषींस् तांस् तान् अनयन् विक्रियां स्त्रियः
ललितं पूर्ववयसं किं पुनर् नृपतेः सुतम् ॥

4.22

तद् एवं सति विश्रब्धं प्रयतध्वं तथा यथा
इयं नृपस्य वंशश्रीर् इतो न स्यात् पराङ्मुखी ॥

4.23

या हि काश्चिद् युवतयो हरन्ति सदृशं जनम्
निकृष्टोत्कृष्टयोर् भावं या गृह्णन्ति (ता तु [wरोन्ग् सन्धि इन् एह्ज्??] च्तु ताः )स्त्रियः ॥

4.24

इत्य् उदायिवचः श्रुत्वा ता विद्धा इव योषितः
समारुरुहुर् आत्मानं कुमारग्रहणं प्रति ॥

4.25

ता भ्रूभिः प्रेक्षितैर् (हावैर् च्भावैर् हसितैर् (लडितैर् च्ललितैर् )गतैः
चक्रुर् आक्षेपिकाश् चेष्टा भीतभीता इवाङ्गनाः ॥

4.26

राज्ञस् तु विनियोगेन कुमारस्य च मार्दवात्
(जहुः च्जह्रुः )क्षिप्रम् अविश्रम्भं मदेन मदनेन च ॥

4.27

अथ नारीजनवृतः कुमारो व्यचरद् वनम्
वासितायूथसहितह् करीव हिमवद् वनम् ॥

4.28

स तस्मिन् कानने रम्ये जज्वाल स्त्रीपुरःसरः
आक्रीडए इव (विभ्राजे च्बभ्राजे विवस्वान् अप्सरोवृतः ॥

4.29

मदेनावर्जिता नाम तं काश्चित् तत्र योषितः
कठिनैः पस्पृशुः पीनैः (संहतैर् च्संघट्टैर् )वल्गुभिः स्तनैः ॥

4.30

स्रस्तांसकोमलालम्ब मृदुबाहुलताबला
अनृतं स्खलितं काचित् कृत्वैनं सस्वजे बलात् ॥

4.31

काचित् ताम्राधरौष्ठेन मुखेनासवगन्धिना
विनिशश्वास कर्णे ऽस्य रहस्यं श्रूयताम् इति ॥

4.32

काचिद् आज्ञापयन्तीव प्रोवाचार्द्रानुलेपना
इह भक्तिं कुरुष्वेति (हस्तसंश्लेषलिप्सया छस्तं संश्लिष्य लिप्सया ) ॥

4.33

मुहुर् मुहुर् मदव्याज स्रस्तनीलांशुकापरा
आलक्ष्यरशना रेजे स्फुरद्विद्युद् इव क्षपा ॥

4.34

काश्चित् कनककाञ्चीभिर् मुखराभिर् इतस् ततः
बभ्रमुर् दर्शयन्त्यो ऽस्य श्रोणीस् तन्वंशुकावृताः ॥

4.35

चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे
सुवर्णकलशप्रख्यान् दर्शयन्त्यः पयोधरान् ॥

4.36

काचित् पद्मवनाद् एत्य सपद्मा पद्मलोचना
पद्मवक्त्रस्य पार्श्वे ऽस्य पद्मश्रीर् इव तस्थुषी ॥

4.37

मधुरं गीतम् अन्वर्थं काचित् साभिनयं जगौ
तं स्वस्थं चोदयन्तीव वञ्चितो ऽसीत्य् अवेक्षितैः ॥

4.38

शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा
प्रावृत्यानुचकारास्य चेष्टितं (धीरच्वीर)लीलया ॥

4.39

पीनवल्गुस्तनी काचिद् (धासाघूर्णितच्वाताघूर्णित)कुण्डला
उच्चैर् अवजहासैनं समाप्नोतु भवान् इति ॥

4.40

अपयान्तं तथैवान्या बबन्धुर् माल्यदामभिः
काश्चित् साक्षेपमधुरैर् जगृहुर् वचनाङ्कुशैः ॥

4.41

प्रतियोगार्थिनी काचिद् गृहीत्वा चूतवल्लरीम्
इदं पुष्पं तु कस्येति पप्रच्छ मदविक्लवा ॥

4.42

काचित् पुरुषवत् कृत्वा गतिं संस्थानम् एव च
उवाचैनं जितः स्त्रीभिर् जय भो पृथिवीम् इमाम् ॥

4.43

अथ लोलेक्सणा काचिज् जिघ्रन्ती नीलम् उत्पलम्
किंचिन्मदकलैर् वाक्यैर् नृपात्मजम् अभाषत ॥

4.44

पश्य भर्तश् चितं चूतं कुसुमैर् मधुगन्धिभिः
हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति ॥

4.45

अशोको दृश्यताम् एष कामिशोकविवर्धनः
रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना ॥

4.46

चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः
शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया ॥

4.47

फुल्लं (कुरुबकं च्कुरुवकं )पश्य (निर्भुक्तालक्तकच्निर्मुक्तालक्तक)प्रभम्
यो नखप्रभया स्त्रीणां निर्भर्त्सित इवानतः ॥

4.48

बालाशोकश् च निचितो दृश्यताम् एष पल्लवैः
यो ऽस्माकं हस्तशोभाभिर् लज्जमान इव स्थितः ॥

4.49

दीर्घिकां प्रावृतां पश्य तीरजैः सिन्दुवारकैः
पाण्डुरांशुकसंवीतां शयानां प्रमदाम् इव ॥

4.50

दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्य् असौ जले
पृष्ठतः प्रेष्यवद् भार्याम् अनुवर्त्य् अनुगच्छति ॥

4.51

मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः
अपरः कोकिलो (अन्वक्षं प्रतिश्रुत्केव चनुत्कः प्रतिश्रुत्येव )कूजति ॥

4.52

अपि नाम विहंगानां (वसन्तेनाहृतो च्वसन्तेनाहितो )मदः
न तु (चिन्तयतो ऽचिन्त्यं च्चिन्तयतश् चित्तं जनस्य प्राज्ञमानिनः ॥

4.53

इत्य् एवं ता युवतयो मन्मथोद्दामचेतसः
कुमारं विविधैस् तैस् तैर् उपचक्रमिरे नयैः ॥

4.54

एवम् आक्षिप्यमाणो ऽपि स तु धैर्यावृतेन्द्रियः
मर्तव्यम् इति सोद्वेगो न जहर्ष न (विव्यथे च्सिस्मिये ) ॥

4.55

तासां (तत्त्वे ऽनवस्थानं च्तत्त्वेन वस्थानं दृष्ट्वा स पुरुषोत्तमः
(समं विग्नेन च्ससंविग्नेन )धीरेण चिन्तयाम् आस चेतसा ॥

4.56

किं (व् इमा च्विना )नावगच्छन्ति चपलं यौवनं स्त्रियः
यतो रूपेण (संमत्तं जरा यन् च्संपन्नं जरेयं )नाशयिष्यति ॥

4.57

नूनम् एता न पश्यन्ति कस्यचिद् रोगसंप्लवम्
तथा हृष्टा भयं त्यक्त्वा जगति व्याधिधर्मिणि ॥

4.58

अनभिज्ञाश् च सुव्यक्तं मृत्योः सर्वापहारिणः
(ततः च्तथा )स्वस्था निर्(उद्विग्नाः चुद्वेगाः क्रीडन्ति च हसन्ति च ॥

4.59

जरां (व्याधिं च मृत्युं च्मृत्युं च व्याधिं )च को हि जानन् सचेतनः
स्वस्थस् तिष्ठेन् निषीदेद् वा (शयेद् च्सुपेद् )वा किं पुनर् हसेत् ॥

4.60

यस् तु दृष्ट्वा परं जीर्णं व्याधितं मृतम् एव च
स्वस्थो भवति नोद्विग्नो यथाचेतास् तथैव सः ॥

4.61

वियुज्यमाने (हि चपि )तरौ पुष्पैर् अपि फलैर् अपि
पतति च्छिद्यमाने वा तरुर् अन्यो न शोचते ॥

4.62

इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहम्
उदायी नीतिशास्त्रज्ञस् तम् उवाच सुहृत्तया ॥

4.63

अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल
यस्मात् त्वयि विवक्षा मे तया प्रणयवत्तया ॥

4.64

अहितात् प्रतिषेधश् च हिते चानुप्रवर्तनम्
व्यसने चापरित्यागस् त्रिविधं मित्रलक्षणम् ॥

4.65

सो ऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात् पराङ्(मुखः च्मुखम् )
यदि (त्वा समुपेक्षेय च्त्वां समुपेक्षेयं न भवेन् मित्रता मयि ॥

4.66

तद् ब्रवीमि सुहृद् भूत्वा तरुणस्य वपुष्मतः
इदं न प्रतिरूपं ते स्त्रीष्व् अदाक्षिण्यम् ईदृशम् ॥

4.67

अनृतेनापि नारीणां युक्तं समनुवर्तनम्
तद्व्रीडापरिहारार्थम् आत्मरत्यर्थम् एव च ॥

4.68

संनतिस् चानुवृत्तिश् च स्त्रीणां हृदयबन्धनम्
स्नेहस्य हि गुणा योनिर् मानकामाश् च योषितः ॥

4.69

तद् अर्हसि विशालाक्ष हृदये ऽपि पराङ्मुखे
रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुम् ॥

4.70

दाक्षिण्यम् औषधं स्त्रीणां दाक्षिण्यं भूषणं परम्
दाक्षिण्यरहितं रूपं निष्पुष्पम् इव काननम् ॥

4.71

किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः
विषयान् दुर्लभांल् लब्ध्वा न ह्य् अवज्ञातुम् अर्हसि ॥

4.72

कामं परम् इति ज्ञात्वा देवो ऽपि हि पुरंदरः
गौतमस्य मुनेः पत्नीम् अहल्यां चकमे पुरा ॥

4.73

अगस्त्यः प्रार्थयाम् आस सोमभार्यां च रोहिणीम्
तस्मात् तत्स(दृशीं च्दृशं )लेभे लोपामुद्राम् इति श्रुतिः ॥

4.74

(उतथ्यस्य चौतथ्यस्य )च भार्यायां ममतायां महा(तपः च्तपाः )
मारुत्यां जनयाम् आस भरद्वाजं (बृहस्च्वृहस्)पतिः ॥

4.75

(बृहस्च्वृहस्)पतेर् महिष्यां च जुह्वत्यां जुह्वतां वरः
बुधं विबुध(कर्माणं च्धर्माणं जनयाम् आस चन्द्रमाः ॥

4.76

कालीम् चैव पुरा कन्यां जलप्रभवसंभवाम्
जगाम यमुनातीरे जातरागः पराशरः ॥

4.77

मातङ्ग्याम् अक्षमालायां गर्हितायां रिरंसया
कपिञ्जलादं तनय्.अम् वसिष्ठो ऽजनयन् मुनिः ॥

4.78

ययातिश् चैव राजर्1षिर् वयस्य् अपि विनिर्गते
विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने ॥

4.79

स्त्रीसंसर्गं विनाशान्तं पाण्डुर् ज्ञात्वापि कौरवः
माद्रीरूपगुणाक्षिप्तः सिषेवे कामजम् सुखम् ॥

4.80

करालजनकश् चैव हृत्वा ब्राह्मणकन्यकाम्
अवाप भ्रंशम् अप्य् (एवं चेव न तु (सेजे न च्त्यजेच् च )मन्मथम् ॥

4.81

एवमाद्या महात्मानो विषयान् गर्हितान् अपि
रतिहेतोर् बुभुजिरे प्राग् एव गुणसंहितान् ॥

4.82

त्वं पुनर् न्यायतः प्राप्तान् बलवान् रूपवान् युवा
विषयान् अवजानासि यत्र सक्तम् इदं जगत् ॥

4.83

इति श्रुत्वा वचस् तस्य श्लक्ष्णम् आगमसंहितम्
मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत ॥

4.84

उपपन्नम् इदं वाक्यं सौहार्दव्यञ्जकं त्वयि
अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे ॥

4.85

नावजानामि (विषयान् च्विषयाञ् जाने लोकं तदात्मकम्
अनित्यं तु जगन् मत्वा नात्र मे रमते मनः ॥

4.86

जरा व्याधिश् च मृत्युश् च यदि न स्याद् इदं त्रयम्
ममापि हि मनोज्ञेषु विषयेषु रतिर् भवेत् ॥

4.87

नित्यं यद्य् अपि हि स्त्रीणाम् एतद् एव वपुर् भवेत्
(दोषवत्स्व् अपि च्ससंवित्कस्य )कामेषु (कामं रज्येत मे मनः च्तथापि न रतिः क्षमा ) ॥

4.88

यदा तु (जरयापीतं च्जरया पीतं रूपम् आसां भविष्यति
आत्मनो ऽप्य् अनभिप्रेतं मोहात् तत्र रतिर् भवेत् ॥

4.89

मृत्युव्याधिजरा(धर्मा च्धर्मो मृत्युव्याधिजरात्मभिः
रममाणो (ह्य् चप्य् )असंविग्नः समानो मृगपक्षिभिः ॥

4.90

यद् अप्य् आत्थ महात्मानस् ते ऽपि कामात्मका इति
संवेगो (अत्रैव चत्र न )कर्तव्यो यदा तेषाम् अपि क्षयः ॥

4.91

माहात्म्यं न च तन् मन्ये यत्र सामान्यतः क्षयः
विषयेषु प्रसक्तिर् वा युक्तिर् वा नात्मवत्तया ॥

4.92

यद् अप्य् आत्थानृतेनापि स्त्रीजने वर्त्यताम् इति
अनृतं नावगच्छामि दाक्षिण्येनापि किंचन ॥

4.93

न चानुवर्तनं तन् मे रुचितं यत्र नार्जवम्
सर्वभावेन संपर्को यदि नास्ति धिग् अस्तु तत् ॥

4.94

(अध्र्टेः चनृते )श्रद्दधानस्य सक्तस्यादोषदर्शिनः
किं हि वञ्चयितव्यं स्याज् जातरागस्य चेतसः ॥

4.95

वञ्चयन्ति च यद्य् (एवं चेव जातरागाः परस्परम्
ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणाम् स्त्रियः ॥

4.96

तद् एवं सति दुःखार्तं जरामरण(भागिनम् च्भोगिनम् )
न मां कामेष्व् अनार्येषु प्रतारयितुम् अर्हसि ॥

4.97

अहो ऽतिधीरं बलवच् च ते मनश् चलेषु कामेषु च सारदर्शिनः
भये (अतितीव्रे चपि तीव्रे )विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः ॥

4.98

अहं पुनर् भीरुर् अतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन्
लभे न शान्तिं न धृतिं कुतो रतिं निशामयन् दीप्तम् इवाग्निना जगत् ॥

4.99

असंशयं मृत्युर् इति प्रजानतो नरस्य रागो हृदि यस्य जायते
अयोमयीं तस्य परैमि चेतनां महाभये (रज्यति च्रक्षति )यो न रोदिति ॥

4.100

अथो कुमारश् च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथाम्
जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तम् इयाय भास्करः ॥

4.101

ततो वृथाधारितभूषणस्रजः कलागुणैश् च प्रणयैश् च निष्फलैः
स्वए एव भावे विनिगृह्य मन्मथं पुरं ययुर् भग्नमनोरथाः स्त्रियः ॥

4.102

ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः
अनित्यतां सर्वगतां विचिन्तयन् विवेश धिष्ण्यं क्षितिपालकात्मजः ॥

4.103

ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनो न शिश्ये तां रात्रिं हृदयगतशल्यो गज इव
अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवो न सो ऽन्यत् कामेभ्यो नियमनम् अपश्यत् सुतमतेः ॥

मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc