Buddhacarita · अध्याय 3
ततः कदाचिन् मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि
शुश्राव पद्माकरमण्डितानि (गीतैर् च्शीते )निबद्धानि स काननानि ॥
श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम्
बहिःप्रयाणाय चकार बुद्धिम् अन्तर्गृहे नाग इवावरुद्धः ॥
ततो नृपस् तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य
स्नेहस्य लक्ष्म्या वयसश् च योग्याम् आज्ञापयाम् आस विहारयात्राम् ॥
निवर्तयाम् आस च राजमार्गे संपातम् आर्तस्य पृथग्जनस्य
मा भूत् कुमारः सुकुमारचित्तः संविग्नचेता (इति चिव )मन्यमानः ॥
प्रत्यङ्गहीनान् विकलेन्द्रियांश् च जीर्णातुरादीन् कृपणांश् च (दिक्षु च्भिक्षून् )
ततः समुत्सार्य परेण साम्ना शोभां (परां च्परा )राजपथस्य चक्रुः ॥
ततः कृते श्रीमति राजमार्गे श्रीमान् विनीतानुचरः कुमारः
प्रासादपृष्ठाद् अवतीर्य काले कृताभ्यनुज्ञो नृपम् अभ्यगच्छत् ॥
अथो नरेन्द्रः सुतम् आगताश्रुः शिरस्य् उपाघ्राय चिरं निरीक्ष्य
गच्छेति चाज्ञापयति स्म वाचा स्नेहान् न चैनं मनसा मुमोच ॥
ततः स जाम्बूनदभाण्डभृद्भिर् युक्तं चतुर्भिर् निभृतैस् तुरंगैः
अक्लीब(विद्वच्च्विद्युच्)छुचिरश्मिधारं हिरण्मयं स्यन्दनम् आरुरोह ॥
ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम्
मार्गं प्रपेदे सदृशानुयात्रश् चन्द्रः सनक्षत्र इवान्तरीक्षम् ॥
कौतूहलात् स्फीततरैश् च नेत्रैर् (नीलोत्पलार्धैर् च्नीलोत्पलाभैर् )इव (कीर्यमाणम् च्कीर्यमाणः )
शनैः शनै राजपथं जगाहे पौरैः समन्ताद् अभिवीक्ष्यमाणः ॥
तं तुष्टुवुः सौम्यगुणेन केचिद् ववन्दिरे दीप्ततया तथान्ये
सौमुख्यतस् तु श्रियम् अस्य केचिद् वैपुल्यम् आशंसिषुर् आयुषश् च ॥
निःसृत्य कुब्जाश् च महाकुलेभ्यो व्यूहाश् च कैरातकवामनानाम्
नार्यः कृशेभ्यश् च निवेशनेभ्यो देवानुयानध्वजवत् प्रणेमुः ॥
ततः कुमारः खलु गच्छतीति श्रुत्वा स्त्रियः प्रेष्यजनात् प्रवृत्तिम्
दिदृक्षया हर्म्यतलानि जग्मुर् जनेन मान्येन कृताभ्यनुज्ञाः ॥
ताः स्रस्तकाञ्चीगुणविघ्निताश् च सुप्तप्रबुद्धाकुललोचनाश् च
वृत्तान्तविन्यस्तविभूषणाश् च (कौतूहलेनानिभृताः च्कौतूहलेनापि भृताः )परीयुः ॥
प्रासादसोपानतलप्रणादैः काञ्चीरवैर् नूपुरनिस्वनैश् च
(वित्रासयन्त्यो च्विभ्रामयन्त्यो )गृहपक्षिसंघान् अन्योअन्यवेगांश् च समाक्षिपन्त्यः ॥
कासांचिद् आसां तु वराङ्गनानां जातत्वराणाम् अपि सोत्सुकानाम्
गतिं गुरुत्वाज् जगृहुर् विशालाः श्रोणीरथाः पीनपयोधराश् च ॥
शीघ्रं समर्थापि तु गन्तुम् अन्या गतिं निजग्राह ययौ न तूर्णम्
(ह्रियाप्रगल्भा विनिगूहमाना छ्रिया प्रगल्भानि निगूहमाना (रहःप्रयुक्तानि च्रहः प्रयुक्तानि )विभूषणानि ॥
परस्परोत्पीडनपिण्डितानां संमर्द(संक्षोभितच्संशोभित)कुण्डलानाम्
तासां तदा सस्वनभूषणानां वातायनेष्व् अप्रशमो बभूव ॥
वातायनेभ्यस् तु विनिःसृतानि परस्(परायासितच्परोपासित)कुण्डलानि
स्त्रीणां विरेजुर् मुखपङ्कजानि सक्तानि हर्म्येष्व् इव पङ्कजानि ॥
ततो विमानैर् युवती(करालैः च्कलापैः कौतूहलोद्घाटितवातयानैः
श्रीमत् समन्तान् नगरं बभासे वियद्विमानैर् इव साप्सरोभिः ॥
वातायनानाम् अविशालभावाद् अन्योअन्यगण्डार्पितकुण्डलानाम्
मुखानि रेजुः प्रमदोत्तमानां बद्धाः कलापा इव पङ्कजानाम् ॥
(तं ताः च्तस्मिन् )कुमारं पथि वीक्षमाणाः स्त्रियो बभुर् गाम् इव गन्तुकामाः
ऊर्ध्वोन्मुखाश् चैनम् उदीक्षमाणा नरा बभुर् द्याम् इव गन्तुकामाः ॥
दृष्ट्वा च तं राजसुतं स्त्रियस् ता जाज्वल्यमानं वपुषा श्रिया च
धन्यास्य भार्येति शनैर् अवोचञ् शुद्धैर् मनोभिः खलु नान्यभावात् ॥
अयं किल व्यायतपीनबाहू रूपेण साक्षाद् इव पुष्पकेतुः
त्यक्त्वा श्रियं धर्मम् उपैष्यतीति तस्मिन् (हि ता छिता )गौरवम् एव चक्रुः ॥
कीर्णं तथा राजपथं कुमारः पौरैर् विनीतैः शुचिधीरवेषैः
तत् पूर्वम् आलोक्य जहर्ष किंचिन् मेने पुनर्भावम् इवात्मनश् च ॥
पुरं तु तत् स्वर्गम् इव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः
जीर्णं नरं निर्ममिरे प्रयातुं संचोदनार्थं क्षितिपात्मजस्य ॥
ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम्
उवाच संग्राहकम् आगतास्थस् तत्रैव निष्कम्पनिविष्टदृष्टिः ॥
क एष भोः सूत नरो ऽभ्युपेतः केशैः सितैर् यष्टिविषक्तहस्तः
भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर् यदृच्छा ॥
इत्य् एवम् उक्तः स रथप्रणेता निवेदयाम् आस नृपात्मजाय
संरक्ष्यम् अप्य् अर्थम् अदोषदर्शी तैर् एव देवैः कृतबुद्धिमोहः ॥
रूपस्य (हन्त्री छर्त्री )व्यसनं बलस्य शोकस्य योनिर् निधनं रतीनाम्
नाशः स्मृतीनां रिपुर् इन्द्रियाणाम् एषा जरा नाम ययैष भग्नः ॥
पीतं ह्य् अनेनापि पयः शिशुत्वे कालेन भूयः (परिसृप्तम् च्परिमृष्टम् )उर्व्याम्
क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जराम् उपेतः ॥
इत्य् एवम् उक्ते चलितः स किंचिद् राजात्मजः सूतम् इदं बभाषे
किम् एष दोषो भविता ममापीत्य् अस्मै ततः सारथिर् अभ्युवाच ॥
आयुष्मतो ऽप्य् एष वयः(प्रकर्षो च्प्रकर्षान् निःसंशयं कालवशेन भावी
एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति (चैव च्चैष )लोकः ॥
ततः स पूर्वाशयशुद्धबुद्धिर् विस्तीर्णकल्पाचितपुण्यकर्मा
श्रुत्वा जरां संविविजे महात्मा महाशनेर् घोषम् इवान्तिके गौः ॥
निःश्वस्य दीर्घं (स्वशिरः च्स शिरः )प्रकम्प्य तमिंश् च जीर्णे विनिवेश्य चक्षुः
तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स (संविग्न च्संविग्नम् )इदं जगाद ॥
एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च
न चैव संवेगम् उपैति लोकः प्रत्यक्षतो ऽपीदृशम् ईक्षमाणः ॥
एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्य् एव भवान् प्रयातु
उद्यानभूमौ हि कुतो रतिर् मे जरा(भये च्भवे )चेतसि वर्तमाने ॥
अथाज्ञया भर्तृसुतस्य तस्य निवर्तयाम् आस रथं नियन्ता
ततः कुमारो भवनं तद् एव चिन्तावशः शून्यम् इव प्रपेदे ॥
यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः
ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर् जगाम ॥
अथापरं व्याधिपरीतदेहं तए एव देवाः ससृजुर् मनुष्यम्
दृष्ट्वा च तं सारथिम् आबभाषे शौद्धोदनिस् तद्गतदृष्टिर् एव ॥
स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्दुगात्रः
अम्बेति वाचं करुणं ब्रुवाणः परं (समाश्रित्य च्समाश्लिष्य )नरः क एषः ॥
ततो ऽब्रवीत् सारथिर् अस्य सौम्य धातुप्रकोपप्रभवः प्रवृद्धः
रोगाभिधानः सुमहान् अनर्थः (शक्तो च्शक्रो )अपि येनैष कृतो ऽस्वतन्त्रः ॥
इत्य् ऊचिवान् राजसुतः स भूयस् तं सानुकम्पो नरम् ईक्षमाणः
अस्यैव (जातो च्जातः [सिच्; wरोन्ग् सन्धि इन् एह्ज्])पृथग् एष दोषः सामान्यतो रोगभयं प्रजानाम् ॥
ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः
एवं हि रोगैह् परिपीड्यमानो रुजातुरो हर्षम् उपैति लोकः ॥
इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव
इदं च वाक्यं करुणायमानः प्रोवाच किंचिन्मृदुना स्वरेण ॥
इदं च रोगव्यसनं प्रजानां पश्यंश् च विश्रम्भम् उपैति लोकः
(विस्तीर्णम् अज्ञानम् च्विस्तीर्णविज्ञानम् )अहो नराणां हसन्ति ये रोगभयैर् अमुक्ताः ॥
निवर्त्यतां सूत (बहिःच्वहिः)प्रयाणान् नरेन्द्रसद्मैव रथः प्रयातु
श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः ॥
ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश (वेश्म च्सद्म )
तं द्विस् तथा प्रेक्ष्य च संनिवृत्तं (पर्येषणं च्पुर्य् आगमं )भूमिपतिश् चकार ॥
श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तम् आत्मानम् अनेन मेने
मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टो ऽपि च नोग्रदण्डः ॥
भूयश् च तस्मै विदधे सुताय विशेषयुक्तं विषय(प्रचारम् च्प्रकारम् )
चलेन्द्रियत्वाद् अपि (नाम सक्तो च्नापि शक्तो नास्मान् विजह्याद् इति नाथमानः ॥
यदा च शब्दादिभिर् इन्द्रियार्थैर् अन्तःपुरे नैव सुतो ऽस्य रेमे
ततो (बहिर् च्वहिर् )व्यादिशति स्म यात्रां रसान्तरं स्याद् इति मन्यमानः ॥
स्नेहाच् च भावं तनयस्य बुद्ध्वा (स रागच्संवेग)दोषान् अविचिन्त्य कांश्चित्
योग्याः समाज्ञापयति स्म तत्र कलास्व् अभिज्ञा इति वारमुख्याः ॥
ततो विशेषेण नरेन्द्रमार्गे स्वलंकृते चैव परीक्षिते च
(व्यत्यस्य च्व्यत्यास्य )सूतं च रथं च राजा प्रस्थापयाम् आस बहिः कुमारम् ॥
ततस् तथा गच्छति राजपुत्रे तैर् एव देवैर् विहितो गतासुः
तं चैव मार्गे मृतम् उह्यमानं सूतः कुमारश् च ददर्श नान्यः ॥
अथाब्रवीद् राजसुतः स सूतं नरैश् चतुर्भिर् ह्रियते क एषः
दीनैर् मनुष्यैर् अनुगम्यमानो ( x भूषितश् चाप्य् च्यो भूषितो ऽश्वास्य् )अवरुद्यते च ॥
ततः स शुद्धात्मभिर् एव देवैः शुद्धाधिवासैर् अभिभूतचेताः
अवाच्यम् अप्य् अर्थम् इमं नियन्ता (प्रव्याजहारार्थवदीश्वराय च्प्रव्याजहारार्थविद् ईश्वराय ) ॥
बुद्धीन्द्रियप्राणगुणैर् वियुक्तः सुप्तो विसंज्ञस् तृणकाष्ठभूतः
(संवर्ध्य च्संबध्य )संरक्ष्य च यत्नवद्भिः (प्रियप्रियैस् च्प्रियाप्रियैस् )त्यज्यतए एष को ऽपि ॥
इति प्रणेतुः स निशम्य वाक्यं संचुक्षुभे किंचिद् उवाच चैनम्
किं (केवलो ऽस्यैव च्केवलस्यैव )जनस्य धर्मः सर्वप्रजानाम् अयम् ईदृशो ऽन्तः ॥
ततः प्रणेता वदति स्म तस्मै सर्वप्रजानाम् (इदम् चयम् )अन्त(कर्म च्कर्मा )
हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः ॥
ततः स धीरो ऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः
अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण ॥
इयं च निष्ठा (नियता च्नियतं )प्रजानां प्रमाद्यति त्यक्तभयश् च लोकः
मनांसि शङ्के कठिनानि नॄणां स्वस्थास् तथा ह्य् अध्वनि वर्तमानाः ॥
तस्माद् (रथः च्रथं )सूत निवर्त्यतां नो विहार(भूमेर् च्भूमौ )न हि देशकालः
जानन् विनाशं कथम् (आर्तिचार्त्ति)काले सचेतनः स्याद् इह हि प्रमत्तः ॥
इति ब्रुवाणे ऽपि नराधिपात्मजे निवर्तयाम् आस स नैव तं रथम्
विशेषयुक्तं तु नरेन्द्रशासनात् स पद्मषण्डं वनम् एव निर्ययौ ॥
ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलम्
विमानवत् (स कमलच्सकमल)चारुदीर्घिकं ददर्श तद् वनम् इव नन्दनं वनम् ॥
वराङ्गनागणकलिलं नृपात्मजस् ततो बलाद् वनम् (अतिनीयते चभिनीयते )स्म तत्
वराप्सरो(वृतम् च्नृत्यम् )अलकाधिपालयं नवव्रतो मुनिर् इव विघ्नकातरः ॥
मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0