भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita · अध्याय 2

2.1

आ जन्मनो जन्म(जरान्तगस्य च्जरान्तकस्य तस्यात्मजस्यात्मजितः स राजा
अहन्य् अहन्य् अर्थगजाश्वमित्रैर् वृद्धिं ययौ सिन्धुर् इवाम्बुवेगैः ॥

2.2

धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य
तदा हि (नैकान् स निधीन् अवाप च्नैकात्मनिधीन् अवापि मनोरथस्याप्य् अतिभारभूतान् ॥

2.3

ये पद्मकल्पैर् अपि च द्विपेन्द्रैर् न मण्डलं शक्यम् इहाभिनेतुम्
मदोत्कटा हैमवता गजास् ते विनापि यत्नाद् उपतस्थुर् एनम् ॥

2.4

नानाङ्कचिह्नैर् नवहेमभाण्डैर् (विभूषितैर् चभूषितैर् )लम्बसटैस् तथान्यैः
संचुक्षुभे चास्य पुरं तुरंगैर् बलेन मैत्र्या च धनेन चाप्तैः ॥

2.5

पुष्टाश् च तुष्टाश् च (तथास्य च्तदास्य )राज्ये साध्व्यो ऽरजस्का गुणवत्पयस्काः
उदग्रवत्सैः सहिता बभूवुर् बह्व्यो बहुक्षीरदुहश् च गावः ॥

2.6

मध्यस्थतां तस्य रिपुर् जगाम मध्य(स्थच्स्व)भावः प्रययौ सुहृत्त्वम्
विशेषतो दार्ढ्यम् इयाय मित्रं द्वाव् अस्य पक्षाव् अपरस् तु (नास च्नाशम् ) ॥

2.7

तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डल(मण्डिताभ्रः च्मण्डिताङ्गः )
विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः ॥

2.8

रुरोह (सस्यं च्संयक् )फलवद् यथर्2तु तदाकृतेनापि कृषिश्रमेण
ता एव (चास्यौषधयो च्चैवौषधयो )रसेन सारेण चैवाभ्यधिका बभूवुः ॥

2.9

शरीरसंदेहकरे ऽपि काले संग्रामसंमर्दए इव प्रवृत्ते
स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे (कालवशेन च्गर्भधराश् च )नार्यः ॥

2.10

(पृथग् व्रतिभ्यो च्यच् च प्रतिभ्वो )विभवे ऽपि (गर्ह्ये च्शक्ये न प्रार्थयन्ति स्म नराः परेभ्यः
अभ्यर्थितः सूक्ष्मधनो ऽपि (चार्यस् च्चायं तदा न कश्चिद् विमुखो बभूव ॥

2.11

(नागौरवो च्नाश वधो )बन्धुषु नाप्य् अदाता नैवाव्रतो नानृतिको न हिंस्रः
आसीत् तदा कश्चन तस्य राज्ये राज्ञो ययातेर् इव नाहुस्.अस्य ॥

2.12

उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानाम्
चक्रुः क्रियास् तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गम् इवोपलभ्य ॥

2.13

मुक्तश् च दुर्भिक्षभयामयेभ्यो हृष्टो जनः (स्वर्गए च्स्वर्गम् )इवाभिरेमे
पत्नीं पतिर् वा महिषी पतिं वा परस्परं न व्यभिचेरतुश् च ॥

2.14

कश्चित् सिषेवे रतये न कामं कामार्थम् अर्थं न जुगोप कश्चित्
कश्चिद् धनार्थं न चचार धर्मं धर्माय कश्चिन् न चकार हिंसाम् ॥

2.15

स्तेयादिभिश् चाप्य् (अरिभिश् चभितश् )च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तम्
क्षेमं सुभिक्षं च बभूव तस्य (पुरानरण्यस्य च्पुराण्य् अरण्यानि )यथैव राष्ट्रे ॥

2.16

तदा हि तज्जन्मनि तस्य राज्ञो मनोर् इवादित्यसुतस्य राज्ये
चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम ॥

2.17

एवंविधा राज(कुलस्य संपत् च्सुतस्य तस्य सर्वार्थसिद्धिश् च यतो बभूव
ततो नृपस् तस्य सुतस्य नाम सर्वार्थसिद्धो ऽयम् इति प्रचक्रे ॥

2.18

देवी तु माया विबुधर्1षिकल्पं दृष्ट्वा विशालं तनयप्रभावम्
जातं प्रहर्षं न शशाक सोढुं ततो (निवासाय चविनाशाय )दिवं जगाम ॥

2.19

ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषम्
मातृष्वसा मातृसमप्रभावा संवर्धयाम् आत्मजवद् बभूव ॥

2.20

ततः स बालार्क इवोदयस्थः समीरितो वह्निर् इवानिलेन
क्रमेण सम्यग् ववृधे कुमारस् ताराधिपः पक्षए इवातमस्के ॥

2.21

ततो महार्हाणि च चन्दनानि रत्नावलीश् चौषधिभिः सगर्भाः
मृगप्रयुक्तान् रथकांश् च हैमान् आचक्रिरे ऽस्मै सुहृदालयेभ्यः ॥

2.22

वयोअनुरूपाणि च भूषणानि (हिरण्मयान् छिरण्मया )हस्ति(मृगाश्वकांश् च्मृगाश्वकाश् )च
(रथांश् च्रथाश् )च (गोपुत्रकसंप्रयुक्तान् च्गावो वसनप्रयुक्ता (पुत्रीश् च्गन्त्रीश् )च चामीकररूप्यचित्राः ॥

2.23

एवं स तैस् तैर् विषयोपचारैर् वयोअनुरूपैर् उपचर्यमाणः
बालो ऽप्य् अबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च ॥

2.24

वयश् च कौमारम् अतीत्य (सम्यक् च्मध्यं संप्राप्य (काले प्रतिपत्तिकर्म च्बालः स हि राजसूनुः )
अल्पैर् अहोभिर् बहुवर्षगम्या जग्राह विद्याः स्वकुलानुरूपाः ॥

2.25

नैःश्रेयसं तस्य तु भव्यम् अर्थं श्रुत्वा पुरस्ताद् असितान् महर्2षेः
कामेषु सङ्गं जनयां बभूव (वनानि यायाद् इति शाक्यराजः च्वृद्धिर् भवच्छाक्यकुलस्य राज्ञः ) ॥

2.26

कुलात् ततो ऽस्मै स्थिरशील(युक्तात् च्संयुतात् साध्वीं वपुर्ह्रीविनयोपपन्नाम्
यशोधरां नाम यशोविशालां (वामाभिधानं च्तुल्याभिधानं )श्रियम् आजुहाव ॥

2.27

(विद्योतमानो वपुषा परेण चथापरं भूमिपतेः प्रियो ऽयं सनत्कुमारप्रतिमः कुमारः
सार्धं तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे ॥

2.28

किंचिन् मनःक्षोभकरं प्रतीपं (कथं न च्कथंच )पश्येद् इति सो ऽनुचिन्त्य
वासं नृपो (व्यादिशति छ्य् आदिशति )स्म तस्मै हर्म्योदरेष्व् एव न भूप्रचारम् ॥

2.29

ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्व् इव राञ्जितेषु
हर्म्येषु सर्वर्1तुसुखाश्रयेषु स्त्रीणाम् उदारैर् विजहार तूर्यैः ॥

2.30

कलैर् हि चामीकरबद्धकक्षैर् नारीकराग्राभिहतैर् मृदङ्गैः
वराप्सरोनृत्यसमैश् च नृत्यैः कैलासवत् तद् भवनं रराज ॥

2.31

वाग्भिः कलाभिर् ललितैश् च (हावैर् छारैर् मदैः सखेलैर् मधुरैश् च हासैः
तं तत्र नार्यो रमयां बभूवुर् भ्रूवञ्चितैर् अर्धनिरीक्षितैश् च ॥

2.32

(ततः स च्ततश् च )कामाश्रयपण्डिताभिः स्त्रीभिर् गृहीतो रतिकर्कशाभिः
विमानपृष्ठान् न महीं जगाम विमानपृष्थाद् इव पुण्यकर्मा ॥

2.33

नृपस् तु तस्यैव विवृद्धिहेतोस् तद्भाविनार्थेन च चोद्यमानः
शमे ऽभिरेमे विरराम पापाद् भेजे दमं संविबभाज साधून् ॥

2.34

नाधीरवत् कामसुखे ससञ्जे न संररञ्जे विषमं जनन्याम्
धृत्येन्द्रियाश्वांश् चपलान् विजिग्ये बन्धूंश् च पौरांश् च गुणैर् जिगाय ॥

2.35

नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत् तु तद् अध्यगीष्ट
स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवम् आशशंसे ॥

2.36

(भं च्तं )भासुरं चाङ्गिरसाधिदेवं यथावद् आनर्च तदायुषे सः
जुहाव हव्यान्य् अकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश् च ॥

2.37

सस्नौ शरीरं पवितुं मनश् च तीर्थाम्बुभिश् चैव गुणाम्बुभिश् च
वेदोपदिष्टं समम् आत्मजं च सोमं पपौ शान्तिसुखं च हार्दम् ॥

2.38

सान्त्वं बभाषे न च नार्थवद् यज् जजल्प तत्त्वं न च विप्रियं यत्
सान्त्वं ह्य् अतत्त्वं परुषं च तत्त्वं ह्रियाशकन् नात्मन एव वक्तुम् ॥

2.39

इष्टेष्व् अनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे
शिवं सिषेवे (व्यवहारशुद्धं चव्यवहारलब्धं यज्ञं हि मेने न तथा (यथा तत् च्यथावत् ) ॥

2.40

आशावते चाभिगताय सद्यो देयाम्बुभिस् तर्षम् (अचेछिदिष्ट चचेच्छिदिष्ट )
युद्धाद् ऋते वृत्तपरश्वधेन द्विड्दर्पम् उद्वृत्तम् अबेभिदिष्ट ॥

2.41

एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च
प्राप त्रिवर्गं बुबुधे त्रिवर्गं जज्ञे द्विवर्गं प्रजहौ द्विवर्गम् ॥

2.42

कृतागसो ऽपि प्रतिपाद्य वध्यान् नाजीघनन् नापि रुषा ददर्श
बबन्ध सान्त्वेन फलेन चैतांस् त्यागो ऽपि तेषां ह्य् (अनयाय दृष्टः चनपायदृष्टः ) ॥

2.43

आर्षाण्य् अचारीत् परमव्रतानि वैराण्य् अहासीच् चिरसंभृतानि
यशांसि चापद्गुणगन्धवन्ति रजांस्य् (अहार्षीन् चहासीन् )मलिनीकराणि ॥

2.44

न चाजिहीर्षीद् बलिम् अप्रवृत्तं न चाचिकीर्षीत् परवस्त्वभिध्याम्
न चाविवक्षीद् द्विषताम् अधर्मं न (चाविवक्षीद् च्चादिधक्षीद् )धृदयेन मन्युम् ॥

2.45

तस्मिंस् तथा भूमिपतौ प्रवृत्ते भृत्याश् च पौराश् च तथैव चेरुः
शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि ॥

2.46

काले ततश् चारुपयोधरायां यशोधरायां (स्वच्सु)यशोधरायाम्
शौद्धोदने राहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना ॥

2.47

अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः
यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द ॥

2.48

(पुत्रस्य च्पौत्रस्य )मे पुत्रगतो (ममेव च्ममैव स्नेहः कथं स्याद् इति जातहर्षः
काले स तं तं विधिम् आललम्बे पुत्रप्रियः स्वर्गम् इवारुरुक्षन् ॥

2.49

स्थित्वा पथि प्राथमकल्पिकानां राजर्1षभाणां यशसान्वितानाम्
शुक्लान्य् अमुक्त्वापि तपांस्य् अतप्त (यज्ञैश् च्यज्ञे )च हिंसारहितैर् अयष्ट ॥

2.50

अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च
कुलेन वृत्तेन धिया च दीप्तस् तेजः सहस्रांशुर् इवोत्सिसृक्षुः ॥

2.51

स्वायंभुवं चार्चिकम् अर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः
चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले ॥

2.52

तत्ज्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे
वशीव कंचिद् विषयं न भेजे पितेव सर्वान् विषयान् ददर्श ॥

2.53

बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु
स्वर्गाय शब्दं दिवम् आत्महेतोर् धर्मार्थम् आत्मस्थितिम् आचकाङ्क्ष ॥

2.54

एवं स धर्मं विविधं चकार सद्भिर् निपातं श्रुतितश् च सिद्धम्
दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायाद् इति नाथमानः ॥

2.55

रिरक्षिषन्तः श्रियम् आत्म(संस्थां च्संस्था रक्षन्ति पुत्रान् भुवि भूमिपालाः
पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद् (विषयेषु मुञ्चन् च्विषयेष्व् अमुञ्चत् ) ॥

2.56

वनम् अनुपमसत्त्वा बोधिसत्त्वास् तु सर्वे विषयसुखरसज्ञा जग्मुर् उत्पन्नपुत्राः
अत उपचितकर्मा रूढमूले ऽपि हेतौ स रतिम् उपसिषेवे बोधिम् (आपन् न यावत् चापन्नयावत् ) ॥

मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc