Buddhacarita · अध्याय 1
x(च् श्रियं परार्ध्यां विदधद् विधातृजित् तमो निरस्यन्न् अभिभूतभानुभृत्
xनुदन् निदाघं जितचारुचन्द्रमाः स वन्द्यते ऽर्हन्न् इह यस्य नोपमा च्) ॥
x(चासीद् विशालोन्नतसानुलक्ष्म्या पयोदपङ्क्त्येव परीतपार्श्वं
xउदग्रधिष्ण्यां गगने ऽवगाढं पुरं महर्2षेः कपिलस्य वस्तु च्) ॥
x(च्सितोन्नतेनेव नयेन हृत्वा कैलासशैलस्य यद् अभ्रशोभाम्
xभ्रमाद् उपेतान् वहदम्बुवाहान् संभावनां वा सफलीचकार च्) ॥
x(च्रत्नप्रभोद्भासिनि यत्र लेभे तमो न दारिद्र्यम् इवावकाशम्
xपरार्ध्यपौरैः सहवासतोषात् कृतस्मितेवातिरराज लक्ष्मीः च्) ॥
तस्मिन् वने श्रीमति राजपत्नी प्रसूतिकालं समवेक्षमाणा
शय्यां वितानोपहितां प्रपेदे नारीसहस्रैर् अभिनन्द्यमाना ॥
ततः प्रसन्नश् च बभूव पुष्यस् तस्याश् च देव्या व्रतसंस्कृतायाः
पार्श्वात् सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च ॥
ऊरोर् यथौर्वस्य पृथोश् च हस्तान् मान्धातुर् इन्द्रप्रतिमस्य मूर्ध्नः
कक्षीवतश् चैव भुजांसदेशात् तथाविधं तस्य बभूव जन्म ॥
x(च्प्रातः पयोदाद् इव तिग्मभानुः समुद्भवन् सो ऽपि च मतृकुक्षेः
xस्फुरन् मयूखैर् विहतान्धकारैश् चकार लोकं कनकावदातम् च्) ॥
x(च्तं जातमात्रम् अथ काञ्चनयूपगौरं प्रीतः सहस्रनयणः शनकैर् गृह्णात्
xमन्दारपुष्पनिकरैः सह तस्य मूर्ध्नि खान् निर्मले च विनिपेततुर् अम्बुधारे च्) ॥
x(च्सुरप्रधानैः परिधार्यमाणो देहांशुजालैर् अनुरञ्जयंस् तान्
xसंध्याभ्रजालोपरिसंनिविष्टं नवोडुराजं विजिगाय लक्ष्म्या च्) ॥
क्रमेण गर्भाद् अभिनिःसृतः सन् बभौ (च्युतः च्गतः )खाद् इव योन्यजातः
कल्पेष्व् अन्(एकेषु च चेकेष्व् इव )भावितात्मा यः संप्रजानन् सुषुवे न मूढः ॥
दीप्त्या च धैर्येण (च यो च्श्रिया )रराज बालो रविर् भूमिम् इवावतीर्णः
तथातिदीप्तो ऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः ॥
स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन् मुमोष
महार्हजाम्बूनदचारुवर्णो विद्योतयाम् आस दिशश् च सर्वाः ॥
(अनाकुलान्युब्जचनाकुलान्य् अब्ज)समुद्गतानि (निष्पेषवद्व्यायतच्निष्पेषवन्त्य् आयत)विक्रमाणि
तथैव धीराणि पदानि सप्त सप्तर्1षितारासदृशो जगाम ॥
बोधाय जातो ऽस्मि जगद्धितार्थम् अन्त्या (भवोत्पत्तिर् च्तथोत्पत्तिर् )इयं ममेति
चतुर्दिशं सिंहगतिर् विलोक्य वाणीं च भव्यार्थकरीम् उवाच ॥
खात् प्रस्रुते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये
(शरीरसंस्पर्शसुखान्तराय च्शरीरसौख्यार्थम् अनुत्तरस्य निपेततुर् मूर्धनि तस्य सौम्ये ॥
श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानम्
यद्गौरवात् काञ्चनपद्महस्ता यक्षाधिपाः संपरिवार्य तस्थुः ॥
(च च्मायातनूजस्य )दिवौकसः खे यस्य प्रभावात् प्रणतैः शिरोभिः
आधारयन् पाण्दरम् आतपत्रं बोधाय जेपुः परमाशिषश् च ॥
महोरगा धर्मविशेषतर्षाद् बुद्धेष्व् अतीतेषु कृताधिकाराः
यम् अव्यजन् भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश् च ॥
तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश् च विशुद्धसत्त्वाः
देवा ननन्दुर् विगते ऽपि रागे मग्नस्य दुःखे जगतो हिताय ॥
(यस्य प्रसूतौ च्यस्मिन् प्रसूते )गिरिराजकीला वाताहता नौर् इव भूश् चचाल
सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर् (गगनाद् च्गगणाद् )अनभ्रात् ॥
वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्य् अवपातयन्तः
सूर्यः स एवाभ्यधिकं चकाशे जज्वाल सौम्यार्चिर् अनीरितो ऽग्निः ॥
प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुर् अभूत् सिताम्बुः
अन्तःपुराण्य् आगतविस्मयानि यस्मिन् क्रियास् तीर्थए इव प्रचक्रुः ॥
धर्मार्थिभिर् भूतगणैश् च दिव्यैस् तद्दर्शनार्थं (वनम् आपुपूरे च्बलम् आप पूरः )
कौतूहलेनैव च पाद(पेभ्यः च्पैश् च ) (पुष्पाण्य् अकाले ऽपि xxxxx च्प्रपूजयाम् आस सगन्धपुष्.पैः ) ॥
xxxx
निदर्शनान्य् अत्र च नो निबोध ॥
यद् राजशास्त्रं भृगुर् अङ्गिरा वा न चक्रतुर् वंशकराव् ऋषी तौ
तयोः सुतौ सौम्य ससर्जतुस् तत् कालेन शुक्रश् च बृहस्पतिश् च ॥
सारस्वतश् चापि जगाद नष्टं वेदं पुनर् यं ददृशुर् न पूर्वे
व्यासस् तथैनं बहुधा चकार न यं वसिष्ठः कृतवान् अशक्तिः ॥
वाल्मीकिर् आदौ च ससर्ज पद्यं जग्रन्थ यन् न च्यवनो महर्2षिः
चिकित्सितं यच् च चकार नात्रिः पश्चात् तद् आत्रेय ऋषिर् जगाद ॥
यच् च द्विजत्वं कुशिको न लेभे तद् गाधिनः सूनुर् अवाप राजन्
वेलां समुद्रे सगरश् च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः ॥
आचार्यकं योगविधौ द्विजानाम् अप्राप्तम् अन्यैर् जनको जगाम
ख्यातानि कर्माणि च यानि शौरेः शूरादयस् तेष्व् अबला बभूवुः ॥
तस्मात् प्रमाणं न वयो न (वंशः च्कालः कश्चित् क्वचिच् छ्रैष्ठ्यम् उपैति लोके
राज्ञाम् ऋषीणां च (हि तानि छितानि )तानि कृतानि पुत्रैर् अकृतानि पूर्वैः ॥
एवं नृपः प्रत्ययितैर् द्विजैस् तैर् आश्वासितश् चाप्य् अभिनन्दितश् च
शङ्काम् अनिष्टां विजहौ मनस्तः प्रहर्षम् एवाधिकम् आरुरोह ॥
प्रीतश् च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्वं प्रददौ धनानि
भूयाद् अयं भूमिपतिर् यथोक्तो यायाज् जराम् एत्य वनानि चेति ॥
अथो निमित्तैश् च तपोबलाच् च तज् जन्म जन्मान्तकरस्य बुद्ध्वा
शाक्येश्वरस्यालयम् आजगाम सद्धर्मतर्षाद् असितो महर्2षिः ॥
तं ब्रह्मविद्ब्रह्म(विदं च्विदां )ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च
राज्ञो गुरुर् गौरवसत्क्रियाभ्यां प्रवेशयाम् आस नरेन्द्रसद्म ॥
स पार्थिवान्तःपुरसंनिकर्षं कुमारजन्मागतहर्ष(वेगः च्वेगं )
विवेश धीरो (वनसंज्ञयेव च्बलसंज्ञयैव तपःप्रकर्षाच् च जराश्रयाच् च ॥
ततो नृपस् तं मुनिम् आसनस्थं पाद्यार्घ्यपूर्वं प्रतिपूज्य सम्यक्
निमन्त्रयाम् आस यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः ॥
धन्यो ऽस्म्य् अनुग्राह्यम् इदं कुलं मे यन् मां दिदृक्षुर् भगवान् उपेतः
आज्ञाप्यतां किं करवाणि सौम्य शिष्यो ऽस्मि विश्रम्भितुम् अर्हसीति ॥
एवं नृपेणोपमन्त्रितः सन् सर्वेण भावेन मुनिर् यथावत्
(स विस्मयोत्फुल्लच्सविस्मयोत्फुल्ल)विशालदृष्टिर् गम्भीरधीराणि वचांस्य् उवाच ॥
महात्मनि त्वय्य् उपपन्नम् एतत् प्रियातिथौ त्यागिनि धर्मकामे
सत्त्वान्वयज्ञानवयोअनुरूपा स्निग्धा यद् एवं मयि ते मतिः स्यात् ॥
एतच् च तद् येन नृपर्1षयस् ते धर्मेण (सूक्ष्मेण धनान्य् अवाप्य च्सूक्ष्माणि धनान्य् अपास्य )
नित्यं त्यजन्तो विधिवद् बभूवुस् तपोभिर् आढ्या विभवैर् दरिद्राः ॥
प्रयोजनं यत् तु ममोपयाने तन् मे शृणु प्रीतिम् उपेहि च त्वम्
दिव्या (मयादित्यच्मयादिव्य)पथे श्रुता वाग् बोधाय जातस् तनयस् तवेति ॥
श्रुत्वा वचस् तच् च मनश् च युक्त्वा ज्ञात्वा निमित्तैश् च ततो ऽस्म्य् उपेतः
दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्छ्रितस्य ॥
इत्य् एतद् एवं वचनं निशम्य प्रहर्षसंभ्रान्तगतिर् नरेन्द्रः
आदाय धात्र्यङ्कगतं कुमारं संदर्शयाम् आस तपोधनाय ॥
चक्राङ्कपादं स (ततो च्तथा )महर्2षिर् जालावनद्धाङ्गुलिपाणिपादम्
सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श ॥
धात्र्यङ्कसंविष्टम् अवेक्ष्य चैनं देव्यङ्कसंविष्टम् इवाग्निसूनुम्
बभूव (पक्ष्मान्तविचञ्चिताश्रुर् च्पक्ष्मान्तर् इव अञ्चिताश्रुर् निश्वस्य चैव त्रिदिवोन्मुखो ऽभूत् ॥
दृष्ट्वासितं त्व् अश्रुपरिप्लुताक्षं स्नेहात् (तनूजस्य च्तु पुत्रस्य )नृपश् चकम्पे
सगद्गदं बाष्पकषायकण्ठः पप्रच्छ (स च्च )प्राञ्जलिर् आनताङ्गः ॥
अल्पान्तरं यस्य वपुः (सुरेभ्यो च्मुनेः स्याद् बह्वद्भुतं यस्य च जन्म दीप्तम्
यस्योत्तमं भाविनम् आत्थ चार्थं तं प्रेक्ष्य कस्मात् तव धीर बाष्पः ॥
अपि स्थिरायुर् भगवन् कुमारः कच्चिन् न शोकाय मम प्रसूतः
(लब्धा च्लब्धः )कथंचित् सलिलाञ्जलिर् मे न खल्व् इमं पातुम् उपैति कालः ॥
अप्य् अक्षयं मे यशसो निधानं कच्चिद् ध्रुवो मे कुलहस्तसारः
अपि प्रयास्यामि सुखं परत्र (सुप्तो ऽपि च्सुप्ते ऽपि )पुत्रे ऽनिमिषैकचक्षुः ॥
कच्चिन् न मे जातम् अफुल्लम् एव कुल(प्रवालं च्प्रबालं )परिशोषभागि
क्षिप्रं विभो ब्रूहि न मे ऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम् ॥
इत्य् आगतावेगम् अनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स मुनिर् बभाषे
मा भून् मतिस् ते नृप काचिद् अन्या निःसंशयं तद् यद् अवोचम् अस्मि ॥
नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवो ऽस्मि
कालो हि मे यातुम् अयं च जातो जातिक्षयस्यासुलभस्य बोद्धा ॥
विहाय राज्यं विषयेष्व् अनास्थस् तीव्रैः प्रयत्नैर् अधिगम्य तत्त्वम्
जगत्य् अयं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः ॥
दुःखार्णवाद् व्याधिविकीर्णफेनाज् जरातरङ्गान् मरणोग्रवेगात्
उत्तारयिष्यत्य् अयम् उह्यमानम् (आर्तं चार्त्तं )जगज् ज्ञानमहाप्लवेन ॥
प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकाम्
अस्योत्तमां धर्मनदीं प्रवृत्तां तृष्णार्दितः पास्यति जीवलोकः ॥
दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः
आख्यास्यति ह्य् एष विमोक्षमार्गं मार्गप्रनष्टेभ्य इवाध्वगेभ्यः ॥
विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन
प्रह्लादम् आधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते ॥
तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानाम् अपयानहेतोः
विपाटयिष्यत्य् अयम् उत्तमेन सद्धर्मताडेन दुरासदेन ॥
स्वैर् मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य
लोकस्य संबुध्य च धर्मराजः करिष्यते बन्धनमोक्षम् एषः ॥
तन् मा कृथाः शोकम् इमं प्रति त्वम् (अस्मिन् स शोच्यो ऽस्ति च्तत् सौम्य शोच्ये हि )मनुष्यलोके
मोहेन वा कामसुखैर् मदाद् वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् ॥
भ्रष्टस्य तस्माच् च गुणाद् अतो मे ध्यानानि लब्ध्वाप्य् अकृतार्थतैव
धर्मस्य तस्या श्रवणाद् अहं हि मन्ये विपत्तिं त्रिदिवे ऽपि वासम् ॥
इति श्रुतार्थः ससुहृत् सदारस् त्यक्त्वा विषादं मुमुदे नरेन्द्रः
एवंविधो ऽयं तनयो ममेति मेने स हि स्वाम् अपि (सारवत्ताम् च्सारमत्ताम् ) ॥
(आर्षेण चार्येण )मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार
न खल्व् असौ न प्रियधर्मपक्षः संताननाशात् तु भयं ददर्श ॥
अथ मुनिर् असितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे
सबहुमतम् उदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम ॥
कृत(मितिर् च्मतिर् )अनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे च तन्मतौ च
बहुविधम् अनुकम्पया स साधुः प्रियसुतवद् विनियोजयां चकार ॥
नरपतिर् अपि पुत्रजन्मतुष्टो विषय(गतानि च्मतानि )विमुच्य बन्धनानि
कुलसदृशम् अचीकरद् यथावत् प्रिय(तनयस् च्तनयं )तनयस्य जातकर्म ॥
दशसु परिणतेष्व् अहःसु (चैव च्चैवं प्रयतमनाः परया मुदा परीतः
अकुरुत जपहोममङ्गलाद्याः (परमभवाय च्परमतमाः स )सुतस्य देवतेज्याः ॥
अपि च शतसहस्रपूऋनसंख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः
अनुपगतजराः पयस्विनीर् गाः स्वयम् अददात् सुतवृद्धये द्विजेभ्यः ॥
बहुविधविषयास् ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय
गुणवति (नियते च्दिवसे )शिवे मुहूर्ते मतिम् अकरोन् मुदितः पुरप्रवेशे ॥
द्विरदरदमयीम् अथो महार्हां सितसितपुष्पभृतां मणिप्रदीपाम्
अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः ॥
पुरम् अथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगताम् अपत्यनाथाम्
नृपतिर् अपि जगाम पौरसंघैर् दिवम् अमरैर् मघवान् इवार्च्यमानः ॥
भवनम् अथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः
इदम् इदम् इति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त ॥
इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाह्वयं पुरं तत्
धनदपुरम् इवाप्सरसो ऽवकीर्णं मुदितम् अभून् नल(कूबरच्कूवर)प्रसूतौ ॥
मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0