Buddhacarita · अध्याय 12
ततः शमविहारस्य मुनेर् इक्ष्वाकुचन्द्रमाः
अराडस्याश्रमं भेजे वपुषा पूरयन्न् इव ॥
स कालामसगोत्रेण तेनालोक्यैव दूरतः
उच्चैः स्वागतम् इत्य् उक्तः समीपम् उपजग्मिवान् ॥
ताव् उभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परम्
दारव्योर् मेध्ययोर् वृष्योः शुचौ देशे (निषेदतुः च्निषीदतुः ) ॥
तम् आसीनं नृपसुतं सो ऽब्रवीन् मुनिसत्तमः
बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्न् इव ॥
विदितं मे यथा सौम्य निष्क्रान्तो भवनाद् असि
छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः ॥
सर्वथा धृतिमच् चैव प्राज्ञं चैव मनस् तव
यस् त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलाम् इव ॥
नाश्चर्यं जीर्णवयसो यज् जग्मुः पार्थिवा वनम्
अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्छिष्टाम् इव स्रजम् ॥
इदं मे मतम् आश्चर्यं नवे वयसि यद् भवान्
अभुक्त्वैव श्रियं प्राप्तः स्थितो विषयगोचरे ॥
तद् विज्ञातुम् इमं धर्मं परमं भाजनं भवान्
ज्ञान(प्लवम् च्पूर्वम् )अधिष्ठाय शीघ्रं दुःखार्णवं तर ॥
शिष्ये यद्य् अपि विज्ञाते शास्त्रं कालेन (वर्ण्यते च्वर्तते )
गाम्भीर्याद् व्यवसायाच् च (न परीक्ष्यो च्सुपरीक्ष्यो )भवान् मम ॥
इति वाक्यम् अराडस्य विज्ञाय स (नरर्1षभः च्नराधिपः )
बभूव परमप्रीतः प्रोवाचोत्तरम् एव च ॥
विरक्तस्यापि यद् इदं सौमुख्यं भवतः परम्
अकृतार्थो ऽप्य् अनेनास्मि कृतार्थ इव संप्रति ॥
दिदृक्षुर् इव हि ज्योतिर् यियासुर् इव दैशिकम्
त्वद्(दर्शनम् च्दर्शनाद् )अहं मन्ये तितीर्षुर् इव च प्लवम् ॥
तस्माद् अर्हसि तद् वक्तुं वक्तव्यं यदि मन्यसे
जरामरणरोगेभ्यो यथायं परिमुच्यते ॥
इत्य् अराडः कुमारस्य माहात्म्याद् एव चोदितः
संक्षिप्तं कथयां चक्रे स्वस्य शास्त्रस्य निश्चयम् ॥
श्रूयताम् अयम् अस्माकं सिद्धान्तः शृण्वतां वर
यथा भवति संसारो यथा (चैव निवर्तते च्वै परिवर्तते ) ॥
प्रकृतिश् च विकारश् च जन्म मृत्युर् जरैव च
तत् तावत् सत्त्वम् इत्य् उक्तं स्थिरसत्त्व परेहि (तत् च्नः ) ॥
तत्र तु (प्रकृतिं च्प्रकृतिर् )नाम विद्धि प्रकृतिकोविद
पञ्च भूतान्य् अहंकारं बुद्धिम् अव्यक्तम् एव च ॥
विकार इति (बुध्यस्व च्बुद्धिं तु विषयान् इन्द्रियाणि च
पाणिपादं च वादं च पायूपस्थं तथा मनः ॥
अस्य क्षेत्रस्य विज्ञानात् क्षेत्रज्ञ इति संज्ञि च
क्षेत्रज्ञ इति चात्मानं कथयन्त्य् आत्मचिन्तकाः ॥
सशिष्यः कपिलश् चेह (प्रतिबुद्धिर् च्प्रतिबुद्ध )इति स्मृतिः
स(पुत्रो ऽप्रतिबुद्धस् तु च्पुत्रः प्रतिबुद्धश् च प्रजापतिर् इहोच्यते ॥
जायते जीर्यते चैव (बाध्यते च्बुध्यते )म्रियते च यत्
तद् व्यक्तम् इति विज्ञेयम् अव्यक्तं तु विपर्ययात् ॥
अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः
स्थितो ऽस्मिंस् त्रितये (जन्तुस् च्यस् तु तत् सत्त्वं (नातिवर्तते च्नाभिवर्तते ) ॥
विप्रत्ययाद् अहंकारात् संदेहाद् अभिसंप्लवात्
अविशेषानुपायाभ्यां सङ्गाद् अभ्यवपाततः ॥
तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते
अन्यथा कुरुते कार्यं मन्तव्यं मन्यते ऽन्यथा ॥
ब्रवीम्य् अहम् अहं वेद्मि गच्छाम्य् अहम् अहं स्थितः
इतीहैवम् अहंकारस् त्व् अनहंकार वर्तते ॥
यस् तु (भावान् असंदिग्धान् च्भावेन संदिग्धान् एकीभावेन पश्यति
मृत्पिण्डवद् असंदेह संदेहः स इहोच्यते ॥
य एवाहं स एवेदं मनो बुद्धिश् च कर्म च
यश् (चैवैष च्चैवं स )गणः सो ऽहम् इति यः सो ऽभिसंप्लवः ॥
अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः
प्रकृतीनां च यो वेद सो ऽविशेष इति स्मृतः ॥
नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः
अनुपाय इति प्राज्ञैर् उपायज्ञ प्रवेदितः ॥
सज्जते येन दुर्मेधा मनो(वाग्बुद्धिकर्मभिः च्वाक्कर्मबुद्धिभिः )
विषयेष्व् अनभिष्वङ्ग सो ऽभिष्वङ्ग इति स्मृतः ॥
ममेदम् अहम् अस्येति यद् दुःखम् अभिमन्यते
विज्ञेयो ऽभ्यवपातः स संसारे येन पात्यते ॥
इत्य् अ(विद्यां च्विद्या )हि (विद्वान् स च्विद्वांसः [??] पञ्च(पर्वां च्पर्वा )समीहते
तमो मोहं महामोहं तामिस्रद्वयम् एव च ॥
तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च
महामोहस् त्व् असंमोह काम इत्य् (एव गम्यताम् चवगम्यताम् ) ॥
यस्माद् अत्र च भूतानि प्रमुह्यन्ति महान्त्य् अपि
तस्माद् एष महाबाहो महामोह इति स्मृतः ॥
तामिस्रम् इति चाक्रोध क्रोधम् एवाधिकुर्वते
विषादं चान्धतामिस्रम् अविषाद प्रचक्षते ॥
अनयाविद्यया बालः संयुक्तः पञ्चपर्वया
संसारे दुःखभूयिष्ठे जन्मस्व् अभिनिषिच्यते ॥
द्रष्टा श्रोता च मन्ता च (कार्यकरणम् च्कार्यं करणम् )एव च
अहम् इत्य् एवम् आगम्य संसारे परिवर्तते ॥
(इहैभिर् चित्य् एभिर् )हेतुभिर् धीमन् (जन्मच्तमः)स्रोतः प्रवर्तते
हेत्व(भावात् च्भावे )फलाभाव इति विज्ञातुम् अर्हसि ॥
तत्र (सम्यङ्च्सम्यग्)मतिर् विद्यान् मोक्षकाम चतुष्टयम्
प्रतिबुद्धाप्रबुद्धौ च व्यक्तम् अव्यक्तम् एव च ॥
यथावद् एतद् विज्ञाय क्षेत्रज्ञो हि चतुष्टयम्
(आजवंजवतां चार्जवं जवतां )हित्वा प्राप्नोति पदम् अक्षरम् ॥
इत्यर्थं ब्राह्मणा लोके परमब्रह्मवादिनः
ब्रह्मचर्यं चरन्तीह ब्राह्मणान् वासयन्ति च ॥
इति वाक्यम् इदं श्रुत्वा मुनेस् तस्य नृपात्मजः
अभ्युपायं च पप्रच्छ पदम् एव च नैष्ठिकम् ॥
ब्रह्मचर्यम् इदं चर्यं यथा यावच् च यत्र च
धर्मस्यास्य च पर्यन्तं भवान् व्याख्यातुम् अर्हति ॥
इत्य् अराडो यथाशास्त्रं विस्पष्टार्थं समासतः
तम् एवान्येन कल्पेन धर्मम् अस्मै व्यभाषत ॥
अयम् आदौ गृहान् मुक्त्वा भैक्षाकं लिङ्गम् आश्रितः
समुदाचारविस्तीर्णं शीलम् आदाय वर्तते ॥
संतोषं परम् आस्थाय येन तेन यतस् ततः
विविक्तं सेवते वासं निर्द्वंद्वः शास्त्रवित्कृती ॥
ततो रागाद् भयं दृष्ट्वा वैराग्याच् च परं शिवम्
निगृह्णन्न् इन्द्रियग्रामं यतते मनसः (शमे च्श्रमे ) ॥
अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च
विवेकजम् अवाप्नोति पूर्वध्यानं वितर्कवत् ॥
तच् च (ध्यानसुखं च्ध्यानं सुखं )प्राप्य तत् तद् एव वितर्कयन्
अपूर्वसुखलाभेन ह्रियते बालिशो जनः ॥
शमेनैवंविधेनायं कामद्वेषविगर्हिणा
ब्रह्मलोकम् अवाप्नोति परितोषेण वञ्चितः ॥
ज्ञात्वा विद्वान् वितर्कांस् तु मनःसंक्षोभकारकान्
तद्वियुक्तम् अवाप्नोति ध्यानं प्रीतिसुखान्वितम् ॥
ह्रियमाणस् तया प्रीत्या यो विशेषं न पश्यति
स्थानं भास्वरम् आप्नोति देवेष्व् (आभास्वरेषु सः चाभासुरेष्व् अपि ) ॥
यस् तु प्रीतिसुखात् तस्माद् विवेचयति मानसम्
तृतीयं लभते ध्यानं सुखं प्रीतिविवर्जितम् [एद्. च् रेअद्स् 12.57 अfतेर् 12.54.] ॥
यस् तु तस्मिन् सुखे मग्नो न विशेषाय यत्नवान्
शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः ॥
तादृशं सुखम् आसाद्य यो न (रज्यत्य् उपेक्षकः च्रज्यन्न् उपेक्षते )
चतुर्थं ध्यानम् आप्नोति सुखदुःखविवर्जितम् ॥
तत्र केचिद् व्यवस्यन्ति मोक्ष इत्य् (अभिमानिनः चपि मानिनः )
सुखदुःखपरित्यागाद् अव्यापाराच् च चेतसः ॥
अस्य ध्यानस्य तु फलं समं देवैर् बृहत्फलैः
कथयन्ति (बृहत्कालं $ बृहत्च्वृहत्फलं वृहत्)प्रज्ञापरीक्षकाः ॥
समाधेर् व्युत्थितस् तस्माद् दृष्ट्वा दोषांश् छरीरिणाम्
ज्ञानम् आरोहति प्राज्ञः शरीरविनिवृत्तये ॥
ततस् तद् ध्यानम् उत्सृज्य विशेषे कृतनिश्चयः
कामेभ्य इव (स प्राज्ञो च्सत्प्राज्ञो रूपाद् अपि विरज्यते ॥
शरीरे खानि यान्य् अस्मिन् तान्य् आदौ परिकल्पयन्
घनेष्व् अपि ततो द्रव्येष्व् आकाशम् अधिमुच्यते ॥
आकाश(गतम् च्समम् )आत्मानं संक्षिप्य त्व् अपरो बुधः
(तद् एवान्च्तदैवान्)अन्ततः पश्यन् विशेषम् अधिगच्छति ॥
अध्यात्म(कुशलस् त्व् च्कुशलेष्व् )अन्यो निवर्त्यात्मानम् आत्मना
किंचिन् नास्तीति संपश्यन्न् आकिंचन्य इति स्मृतः ॥
ततो मुञ्जाद् इषीकेव शकुनिः पञ्जराद् इव
क्षेत्रज्ञो निःसृतो देहान् मुक्त इत्य् अभिधीयते ॥
एतत् तत् परमं ब्रह्म निर्लिङ्गं ध्रुवम् अक्षरम्
यन् मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः ॥
इत्य् उपायश् च मोक्षश् च मया संदर्शितस् तव
यदि ज्ञातं यदि (रुचिर् च्रुचि यथावत् प्रतिपद्यताम् ॥
जैगीषव्यो ऽथ जनको वृद्धश् चैव पराशरः
इमं पन्थानम् आसाद्य मुक्ता ह्य् अन्ये च मोक्षिणः ॥
इति तस्य स तद् वाक्यं गृहीत्वा (तु च्न )विचार्य च
पूर्वहेतुबलप्राप्तः प्रत्युत्तरम् उवाच (ह च्सः ) ॥
श्रुतं ज्ञानम् इदं सूक्ष्मं परतः परतः शिवम्
(क्षेत्रज्ञस्याच्क्षेत्रेष्व् अस्या)परित्यागाद् अवैम्य् एतद् अनैष्ठिकम् ॥
विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तम् अप्य् अहम्
मन्ये प्रसवधर्माणं (बीजच्वीज)धर्माणम् एव च ॥
विशुद्धो यद्य् अपि ह्य् आत्मा निर्मुक्त इति कल्प्यते
((च्भूयः प्रत्ययसद्भावाद् अमुक्तः स भविष्यति च्)) ॥
((चृतुभूम्यम्बुविरहाद् यथा बीजं न रोहतिच्))
((च्रोहति प्रत्ययैस् तैस् तैस् तद्वत् सो ऽपि मतो मम च्)) ॥
((च्यत् कर्माज्ञानतृष्णानां त्यागान् मोक्षश् च कल्प्यतेच्))
अत्यन्तस् तत्परित्यागः सत्य् आत्मनि न विद्यते ॥
हित्वा हित्वा त्रयम् इदं विशेषस् तूपलभ्यते
आत्मनस् तु स्थितिर् यत्र तत्र सूक्ष्मम् इदं त्रयम् ॥
सूक्ष्मत्वाच् चैव दोषाणाम् अव्यापाराच् च चेतसः
दीर्घत्वाद् आयुषश् चैव मोक्षस् तु परिकल्प्यते ॥
अहंकारपरित्यागो यश् चैष परिकल्प्यते
सत्य् आत्मनि परित्यागो नाहंकारस्य विद्यते ॥
संख्यादिभिर् अमुक्तश् च निर्गुणो न भवत्य् अयम्
तस्माद् असति नैर्गुण्ये नास्य मोक्षो ऽभिधीयते ॥
गुणिनो हि गुणानां च व्यतिरेको न विद्यते
रूपोष्णाभ्यां विरहितो न ह्य् अग्निर् उपलभ्यते ॥
प्राग् देहान् न भवेद् देही प्राग् गुणेभ्यस् तथा गुणी
(तस्माद् च्कस्माद् )आदौ विमुक्तः (सन् च्सञ् शरीरी बध्यते पुनः ॥
क्षेत्रज्ञो विशरीरश् च ज्ञो वा स्याद् अज्ञ एव वा
यदि ज्ञो ज्ञेयम् अस्यास्ति ज्ञेये सति न मुच्यते ॥
अथाज्ञ इति सिद्धो वः कल्पितेन किम् आत्मना
विनापि ह्य् आत्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवत् ॥
परतः परतस् त्यागो यस्मात् तु गुणवान् स्मृतः
तस्मात् सर्वपरित्यागान् मन्ये कृत्स्नां कृतार्थताम् ॥
इति धर्मम् अराडस्य विदित्वा न तुतोष सः
अकृत्स्नम् इति विज्ञाय ततः प्रतिजगाम ह ॥
विशेषम् अथ शुश्रूषुर् उद्रकस्याश्रमं ययौ
आत्मग्राहाच् च तस्यापि जगृहे न स दर्शनम् ॥
संज्ञासंज्ञित्वयोर् दोषं ज्ञात्वा हि मुनिर् उद्रकः
आकिंचिन्यात् परं लेभे (असंज्ञासंज्ञात्मिकां च्संज्ञासंज्ञात्मिकां )गतिम् ॥
यस्माच् चालम्बने सूक्ष्मे संज्ञासंज्ञे ततः परम्
नासंज्ञी नैव संज्ञीति तस्मात् (तत्रगतच्तत्र गत)स्पृहः ॥
यतश् च बुद्धिस् तत्रैव स्थितान्यत्राप्रचारिणी
(सूक्ष्मापट्वी च्सूक्ष्मापादि )ततस् तत्र नासंज्ञित्वं न संज्ञिता ॥
यस्माच् च (तद् च्तम् )अपि प्राप्य पुनर् आवर्तते जगत्
बोधिसत्त्वः परं प्रेप्सुस् तस्माद् उद्रकम् अत्यजत् ॥
ततो हित्वाश्रमं तस्य श्रेयोअर्थी कृतनिश्चयः
भेजे गयस्य राजर्1षेर् नगरीसंज्ञम् आश्रमम् ॥
अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः
चकार वासम् एकान्त (विहाराभिरतिर् च्(विहाराभिव्रती )मुनिः ॥
((च् xxx तत्पूर्वं पञ्चेन्द्रियवशोद्धतान्च्))
((च्तपः xx व्रतिनो भिक्षून् ... पञ्च निरैक्षत च्)) ॥
(ते चोपतस्थुर् च्पञ्चोपतस्थुर् )दृष्ट्वात्र भिक्षवस् तं मुमुक्षवः
पुण्यार्जितधनारोग्यम् इन्द्रियार्था इवेश्वरम् ॥
संपूज्यमानस् तैः प्रह्वैर् (विनयाद् अनुवर्तिभिः च्विनयानतमूर्तिभिः )
तद्वशस्थायिभिः शिष्यैर् लोलैर् मन इवेन्द्रियैः ॥
मृत्युजन्मान्तकरणे स्याद् उपायो ऽयम् इत्य् अथ
दुष्कराणि समारेभे तपांस्य् अनशनेन सः ॥
उपवासविधीन् नैकान् कुर्वन् नरदुराचरान्
वर्षाणि षट् (शमच्कर्म)प्रेप्सुर् अकरोत् कार्श्यम् आत्मनः ॥
अन्नकालेषु चैकैकैः (स कोलच्सकोल)तिलतण्डुलैः
अपारपारसंसार पारं प्रेप्सुर् अपारयत् ॥
देहाद् अपचयस् तेन तपसा तस्य यः कृतः
स एवोपचयो भूयस् तेजसास्य कृतो ऽभवत् ॥
कृशो ऽप्य् अकृशकीर्तिश्रीर् ह्लादं चक्रे ऽन्य(चक्षुषाम् च्चक्षुषम् )
कुमुदानाम् इव शरच् छुक्लपक्षादिचन्द्रमाः ॥
त्वगस्थिशेषो निःशेषैर् मेदःपिशितशोणितैः
क्षीणो ऽप्य् अक्षीणगाम्भीर्यः समुद्र इव स व्यभात् ॥
अथ कष्टतपःस्पष्ट व्यर्थक्लिष्टतनुर् मुनिः
भवभीरुर् इमां चक्रे बुद्धिम् बुद्धत्वकाङ्क्षया ॥
नायं धर्मो विरागाय न बोधाय न मुक्तये
जम्बुमूले मया प्राप्तो यस् तदा स विधिर् ध्रुवः ॥
न चासौ दुर्बलेनाप्तुं शक्यम् इत्य् आगतादरः
शरीरबलवृद्ध्यर्थम् इदं भूयो ऽन्वचिन्तयत् ॥
क्षुत्पिपासाश्रमक्लान्तः श्रमाद् अस्वस्थमानसः
प्राप्नुयान् मनसावाप्यं फलं कथम् अनिर्वृतः ॥
निर्वृतिः प्राप्यते सम्यक् सततेन्द्रियतर्पणात्
संतर्पितेन्द्रियतया मनःस्वास्थ्यम् अवाप्यते ॥
स्वस्थप्रसन्नमनसः समाधिर् उपपद्यते
समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते ॥
ध्यानप्रवर्तनाद् धर्माः प्राप्यन्ते यैर् अवाप्यते
दुर्लभं शान्तम् अजरं परं तद् अमृतं पदम् ॥
तस्माद् आहारमूलो ऽयम् उपाय इतिनिश्चयः
(आहारचसूरि)करणे धीरः कृत्वामितमतिर् मतिम् ॥
स्नातो नैरञ्जनातीराद् उत्ततार शनैः कृशः
भक्त्यावनतशाखाग्रैर् दत्तहस्तस् तटद्रुमैः ॥
अथ गोपाधिपसुता दैवतैर् अभिचोदिता
उद्भूतहृदयानन्दा तत्र नन्दबलागमत् ॥
सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी
सफेनमालानीलाम्बुर् यमुनेव सरिद्वरा ॥
सा (श्राद्धावर्धितच्श्रद्धावर्धित)प्रीतिर् विकसल्लोचनोत्पला
शिरसा प्रणिपत्यैनं ग्राहयाम् आस पायसम् ॥
कृत्वा तदुपभोगेन प्राप्तजन्मफलां स ताम्
बोधिप्राप्तौ समर्थो ऽभूत् संतर्पितषडिन्द्रियः ॥
पर्याप्ताप्यान(मूर्तिश् च्मूर्तश् )च (सार्थं स्वच्सार्धं सु)यशसा मुनिः
कान्ति(धैर्ये बभारैकः $ शशाङ्कार्णवयोर् द्वयोः च्धैर्यैकभारैकः शशाङ्कार्णववल् बभौ ) ॥
आवृत्त इति विज्ञाय तं जहुः (पञ्च भिक्षवः च्पञ्चभिक्षवः )
मनीषिणम् इवात्मानं निर्मुक्तं (पञ्च धातवः च्पञ्चधातवः ) ॥
व्यवसायद्वितीयो ऽथ शाद्वलास् तीर्णभूतलम्
सो ऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः ॥
ततस् तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः
महामुनेर् आगतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिम् ॥
यथा मुने त्वच्चरणावपीडिता मुहुर् मुहुर् निष्टनतीव मेदिनी
यथा च ते राजति सूर्यवत् प्रभा ध्रुवं त्वम् इष्टं फलम् अद्य भोक्ष्यसे ॥
यथा भ्रमन्त्यो दिवि (चाषच्वाय)पङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते
यथा च सौम्या दिवि वान्ति वायवस् त्वम् अद्य बुद्धो नियतं भविष्यसि ॥
ततो भुजंगप्रवरेण संस्तुतस् तृणान्य् उपादाय शुचीनि लावकात्
कृतप्रतिज्ञो निषसाद बोधये महातरोर् मूलम् उपाश्रितः शुचेः ॥
ततः स पर्यङ्कम् अकम्प्यम् उत्तमं बबन्ध सुप्तोरगभोगपिण्डितम्
भिनद्मि तावद् भुवि नैतद् आसनं न यामि यावत् कृतकृत्यताम् इति ॥
ततो ययुर् मुदम् अतुलां दिवौकसो (ववाशिरे च्ववासिरे )न मृग(गणाः च्गणा [wरोन्ग् सन्धि इन् एद्. एझ्.])न पक्षिणः
न सस्वनुर् वनतरवो ऽनिलाहताः कृतासने भगवति (निश्चितात्मनि च्निश्चलात्मनि ) ॥
मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0