भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita · अध्याय 11

11.1

अथैवम् उक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलम् अर्थम्
स्वस्थो ऽविकारः कुलशौचशुद्धः शौद्धोदनिर् वाक्यम् इदं जगाद ॥

11.2

नाश्चर्यम् एतद् भवतो (विधानं चभिधातुं जातस्य हर्यङ्ककुले विशाले
यन् मित्रपक्षे तव मित्रकाम स्याद् वृत्तिर् एषा परिशुद्धवृत्तेः ॥

11.3

असत्सु मैत्री स्व(कुलानुवृत्ता च्कुलानुरूपा न तिष्ठति श्रिर् इव विक्लवेषु
पूर्वैः कृतां प्रीतिपरंपराभिस् ताम् एव सन्तस् तु विवर्धयन्ति ॥

11.4

ये चार्थकृच्छ्रेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः
मित्राणि तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्व् इह को हि न स्यात् ॥

11.5

एवं च ये द्रव्यम् अवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति
अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम् ॥

11.6

सुहृत्तया चार्यतया च राजन् (खल्व् एष यो मां प्रति निश्चयस् च्विभाव्य माम् एव विनिश्चयस् )ते
अत्रानुनेष्यामि सुहृत्तयैव ब्रूयाम् अहं नोत्तरम् अन्यद् अत्र ॥

11.7

अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्मम् इमं प्रपन्नः
बन्धून् प्रियान् अश्रुमुखान् विहाय प्राग् एव कामान् अशुभस्य हेतून् ॥

11.8

नाशीविषेभ्यो (हि चपि )तथा बिभेमि नैवाशनिभ्यो गगनाच् च्युतेभ्यः
न पावकेभ्यो ऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य (एव चेभ्यः ) ॥

11.9

कामा ह्य् अनित्याः कुशलार्थचौरा रिक्ताश् च मायासदृशाश् च लोके
आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनर् आत्मसंस्थाः ॥

11.10

कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं (बत च्वत )मर्त्यलोके
कामैः सतृष्णस्य हि नास्ति तृप्तिर् यथेन्धनैर् वातसखस्य वह्नेः ॥

11.11

जगत्य् अनर्थो न समो ऽस्ति कामैर् मोहाच् च तेष्व् एव जनः प्रसक्तः
तत्त्वं विदित्वैवम् अनर्थभीरुः प्राज्ञः स्वयं को ऽभिलषेद् अनर्थम् ॥

11.12

समुद्रवस्त्राम् अपि गाम् अवाप्य पारं जिगीषन्ति महार्णवस्य
लोकस्य कामैर् न वितृप्तिर् अस्ति पतद्भिर् अम्भोभिर् इवार्णवस्य ॥

11.13

देवेन वृष्टे ऽपि हिरण्यवर्षे द्वीपान् (समग्रांश् च्समुद्रांश् )चतुरो ऽपि जित्वा
शक्रस्य चार्धासनम् अप्य् अवाप्य मान्धातुर् आसीद् विषयेष्व् अतृप्तिः ॥

11.14

भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात् प्रनष्टे
दर्पान् महर्2षीन् अपि वाहयित्वा कामेष्व् अतृप्तो नहुषः पपात ॥

11.15

ऐडश् च राजा त्रिदिवं विगाह्य नीत्वापि देवीं वशम् उर्वशीं ताम्
लोभाद् ऋषिभ्यः कनकं जिहीर्षुर् जगाम नाशं विषयेष्व् अतृप्तः ॥

11.16

बलेर् महेन्द्रं नहुषं महेन्द्राद् इन्द्रं पुनर् ये नहुषाद् उपेयुः
स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद् भाग्यकुलाकुलेषु ॥

11.17

चीराम्बरा मूलफलाम्बुभक्षा जटा वहन्तो ऽपि भुजंगदीर्घाः
यैर् (नान्यचन्य)कार्या मुनयो ऽपि भग्नाः कः कामसंज्ञान् मृगयेत शत्रून् ॥

11.18

उग्रायुधश् चोग्रधृतायुधो ऽपि येषां कृते मृत्युम् अवाप भीष्मात्
चिन्तापि तेषाम् अशिवा वधाय (सद्च्तद्)वृत्तिनां किं पुनर् अव्रतानाम् ॥

11.19

आस्वादम् अल्पं विषयेषु मत्वा संयोजनोत्कर्षम् अतृप्तिम् एव
सद्भ्यश् च गर्हां नियतं च पापं कः कामसंज्ञं विषम् (आददीत चाससाद ) ॥

11.20

कृष्यादिभिः (कर्मभिर् अर्दितानां च्धर्मभिर् अन्वितानां कामात्मकानां च निशम्य दुःखम्
स्वास्थ्यं च कामेष्व् अकुतूहलानां कामान् विहातुं क्षमम् आत्मवद्भिः ॥

11.21

ज्ञेया विपत्कामिनि कामसंपत् सिद्धेषु कामेषु मदं ह्य् उपैति
मदाद् अकार्यं कुरुते न कार्यं येन क्षतो दुर्गतिम् अभ्युपैति ॥

11.22

यत्नेन लब्धाः परिरक्षिताश् च ये विप्रलभ्य प्रतियान्ति भूयः
तेष्व् आत्मवान् याचितकोपम् एषु कामेषु विद्वान् इह को रमेत ॥

11.23

अन्विष्य चादाय च जाततर्षा यान् अत्यजन्तः परियान्ति दुःखम्
लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.24

अनात्मवन्तो हृदि यैर् विदष्टा विनाशम् अर्छन्ति न यान्ति शर्म
क्रुद्धोग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.25

अस्थि (क्षुधार्ता च्क्षुधार्त्ता )इव सारमेया भुक्त्वापि यान् नैव भवन्ति तृप्ताः
जीर्णास्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.26

ये राजचौरोदकपावकेभ्यः साधारणत्वाज् जनयन्ति दुःखम्
तेषु प्रविद्धामिषसंनिभेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.27

यत्र स्थितानाम् अभितो विपत्तिः शत्रोः सकाशाद् अपि बान्धवेभ्यः
हिंस्रेषु तेष्व् आयतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.28

गिरौ वने चाप्सु च सागरे च (यान् च्यद् )भ्रंशम् (अर्छन्ति विलङ्घमानाः चर्छन्त्य् अभिलङ्घमानाः )
तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.29

(तीव्रैः च्तीर्थैः )प्रयत्नैर् विविधैर् अवाप्ताः क्षणेन ये नाशम् इह प्रयान्ति
स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् [वेर्सेस् 11.29 अन्द् 11.30 अरे एxछन्गेद् इन् एद्. च्.] ॥

11.30

यान् अर्चयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा
अङ्गार(कर्षूच्कर्ष)प्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.31

विनाशम् ईयुः कुरवो यदर्थं वृष्ण्यन्धका (मेखलच्मैथिल)दण्डकाश् च
(सूनासिच्शूलासि)काष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.32

सुन्दोपसुन्दाव् असुरौ यदर्थम् अन्योअन्यवैरप्रसृतौ विनष्टौ
सौहार्दविश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.33

(येषां कृते वारिणि पावके च्कामान्धसंज्ञाः कृपया व के [सिच्] )च क्रव्यात्सु (चात्मानम् च्नात्मानम् )इहोत्सृजन्ति
सपत्नभूतेष्व् अशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥

11.34

(कामार्थम् अज्ञः च्कामान्धसंज्ञः )कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि
कामार्थम् आशाकृपणस् तपस्वी (मृत्युं श्रमं चार्छति च्मृत्युश्रमं चार्हति )जीव(लोकः च्लोके ) ॥

11.35

गीतैर् ह्रियन्ते हि मृगा वधाय रूपार्थम् अग्नौ शलभाः पतन्ति
मत्स्यो गिरत्य् आयसम् आमिषार्थी तस्माद् अनर्थं विषयाः फलन्ति ॥

11.36

कामास् तु भोगा इति (यन् मतिः च्यन् मतं )स्याद् (भोगा च्भोग्या )न केचित् परिगण्यमानाः
वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः ॥

11.37

इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोर् अशनं तथैव
वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः ॥

11.38

निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय
तथासनं स्थानविनोदनाय स्नानं मृजारोग्यबलाश्रयाय ॥

11.39

दुःखप्रतीकारनिमित्तभूतास् तस्मात् प्रजानां विषया न (भोगाः च्भोग्याः )
अश्नामि भोगान् इति को ऽभ्युपेयात् प्राज्ञः प्रतीकारविधौ (प्रवृत्तः च्प्रवृत्तान् ) ॥

11.40

यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत्
दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात् स हि भोगसंज्ञाम् ॥

11.41

कामेष्व् अनैकान्तिकता च यस्माद् अतो ऽपि मे तेषु न भोगसंज्ञा
यए एव भावा हि सुखं दिशन्ति तए एव दुःखं पुनर् आवहन्ति ॥

11.42

गुरूणि वासांस्य् अगुरूणि चैव सुखाय (शीते च्गीते )ह्य् असुखाय (घर्मे च्धर्मे )
चन्द्रांशवश् चन्दनम् एव चोष्णे सुखाय दुखाय भवन्ति शीते ॥

11.43

द्वंद्वानि सर्वस्य यतः प्रसक्तान्य् अलाभलाभप्रभृतीनि लोके
अतो ऽपि नैकान्तसुखो ऽस्ति कश्चिन् नैकान्तदुःखः पुरुषः प्र्ठिव्याम् ॥

11.44

दृष्ट्वा (विमिश्रां च् च मिश्रां )सुखदुःकतां मे राज्यं च दास्यं च मतं समानम्
नित्यं हसत्य् एव हि नैव राजा न चापि संतप्यतए एव दासः ॥

11.45

आज्ञा नृपत्वे ऽभ्यधिकेति (यत् स्यान् च्यस्मात् महान्ति दुःखान्य् अत एव राज्ञः
आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदम् एति ॥

11.46

राज्ये नृपस् त्यागिनि (बह्वच्वङ्क)मित्रे विश्वासम् आगच्छति चेद् विपन्नः
अथापि विश्रम्भम् उपैति नेह किं नाम सौख्यं चकितस्य राज्ञः ॥

11.47

यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरम् एकम् एव
तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः ॥

11.48

राज्ञो ऽपि (वासोयुगम् च्वासे युगम् )एकम् एव क्षुत्संनिरोधाय तथान्नमात्रा
शय्या तथैकासनम् एकम् एव शेषा विशेषा नृपतेर् मदाय ॥

11.49

तुष्ट्यर्थम् एतच् च फलं यदीष्टम् ऋते ऽपि राज्यान् मम तुष्टिर् अस्ति
तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः ॥

11.50

तन् नास्मि कामान् प्रति संप्रतार्यः (क्षेमं च्क्षेमे )शिवं मार्गम् अनुप्रपन्नः
स्मृत्वा सुहृत्त्वं तु पुनः पुनर् मां ब्रूहि प्रतिज्ञां खलु (पालयेति च्पालयन्ति ) ॥

11.51

न ह्य् अस्म्य् अमर्षेण वनं प्रविष्टो न शत्रुबाणैर् अवधूतमौलिः
कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद् वचनं यतस् ते ॥

11.52

यो दन्दशूकं कुपितं भुजंगं मुक्त्वा व्यवस्येद् धि पुनर् ग्रहीतुम्
दाहात्मिकां वा ज्वलितां तृणोल्कां संत्यज्य कामान् स पुनर् भजेत ॥

11.53

अन्धाय यश् च स्पृहयेद् अनन्धो बद्धाय मुक्तो विधनाय (चाढ्यः च्वाढ्यः )
उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद् विषयात्मकाय ॥

11.54

(भैक्षोपभोगीति च च्भिक्षोपभोगी वर )नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः
इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि ॥

11.55

लक्ष्म्यां महत्याम् अपि वर्तमानस् तृष्णाभिभूतस् त्व् अनुकम्पितव्यः
प्राप्नोति यः शान्तिसुखं न चेह परत्र (दुःखैः च्दुःखं )प्रतिगृह्यते च ॥

11.56

एवं तु वक्तुं भवतो ऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव
ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव ॥

11.57

अहं हि संसार(शरेण च्रसेन )विद्धो विनिःसृतः (शान्तिम् च्शान्तम् )अवाप्तुकामः
नेच्छेयम् आप्तुं त्रिदिवे ऽपि राज्यं निरामयं किं (बत च्वत )मानुषेषु ॥

11.58

त्रिवर्गसेवां नृप यत् तु कृत्स्नतः परो मनुष्यार्थ इति त्वम् आत्थ माम्
अनर्थ इत्य् (एव ममात्र दर्शनं चात्थ ममार्थदर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः ॥

11.59

पदे तु यस्मिन् न जरा न (भीर् न रुङ् च्भीरुता न जन्म नैवोपरमो न (चाधयः च्वाधयः )
तम् एव मन्ये पुरुषार्थम् उत्तमं न विद्यते यत्र पुनः पुनः क्रिया ॥

11.60

यद् अप्य् अवोचः परिपाल्यतां जरा नवं वयो गच्छति विक्रियाम् इति
अनिश्चयो ऽयं चपलं हि दृश्यते जराप्य् अधीरा धृतिमच् च यौवनम् ॥

11.61

स्वकर्मदक्षश् च (यदान्तको च्यदा तु को )जगद् वयःसु (सर्वेष्व् अवशं विकर्षति च्सर्वेषु च संविकर्षति )
विनाशकाले कथम् अव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना ॥

11.62

जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध (इवाशिवः चिवाश्रितः )स्थितः
प्रजामृगान् भाग्यवनाश्रितांस् तुदन् वयःप्रकर्षं प्रति को मनोरथः ॥

11.63

(अतो च्सुतो )युवा वा स्थविरो ऽथवा शिशुस् तथा त्वरावान् इह कर्तुम् अर्हति
यथा भवेद् धर्मवतः (कृतात्मनः च्कृपात्मनः प्रवृत्तिर् इष्टा विनिवृत्तिर् एव वा ॥

11.64

यद् आत्थ (चापीष्टच्वा दीप्त)फलां कुलोचितां कुरुष्व धर्माय मखक्रियाम् इति
नमो मखेभ्यो न हि कामये सुखं परस्य दुःख(क्रियया यद् इष्यते च्क्रिययापदिश्यते ) ॥

11.65

परं हि हन्तुं विवशं फलेप्सया न युक्तरूपं करुणात्मनः सतः
क्रतोः फलं यद्य् अपि शाश्वतं भवेत् तथापि कृत्वा किम् (उ यत् क्षयात्मकम् चुपक्षयात्मकम् ) ॥

11.66

भवेच् च धर्मो यदि नापरो विधिर् व्रतेन शीलेन मनःशमेन वा
तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परम् उच्यते फलम् ॥

11.67

इहापि तावत् पुरुषस्य तिष्ठतः प्रवर्तते यत् परहिंसया सुखम्
तद् अप्य् अनिष्टं सघृणस्य धीमतो भवान्तरे किं (बत च्वत )यन् न दृश्यते ॥

11.68

न च प्रतार्यो ऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः
लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चलाः ॥

11.69

इहागतश् चाहम् इतो दिदृक्षया मुनेर् अराडस्य विमोक्षवादिनः
प्रयामि चाद्यैव नृपास्तु ते शिवं वचः (क्षमेथा मम तत्त्वच्क्षमेथाः शमतत्त्व)निष्ठुरम् ॥

11.70

(अवेन्द्रवद् चथेन्द्रवद् )दिव्य् अव शश्वद् अर्कवद् गुणैर् अव श्रेय इहाव गाम् अव
अवायुर् आर्यैर् अव सत्सुतान् अव श्रियश् च राजन्न् अव धर्मम् आत्मनः ॥

11.71

हिमारिकेतूद्भव(संभवान्तरे च्संप्लवान्तरे यथा द्विजो याति विमोक्षयंस् तनुम्
हिमारि(शत्रुक्षयच्शत्रुं क्षय)शत्रु(घातने च्घातिनस् तथान्तरे याहि (विमोक्षयन् च्विमोचयन् )मनः ॥

11.72

नृपो ऽब्रवीत् साञ्जलिर् आगतस्पृहो यथेष्टम् (आप्नोतु चाप्नोति )भवान् अविघ्नतः
अवाप्य काले कृतकृत्यताम् इमां ममापि कार्यो भवता त्व् अनुग्रहः ॥

11.73

स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वंतरम् आश्रमं ययौ
परिव्रजन्तं (तम् उदीक्ष्य च्समुदीक्ष्य )विस्मितो नृपो ऽपि (वव्राज पुरिं गिरिव्रजम् च्च प्रापुर् इमं गिरिं व्रजन् ) ॥

मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc