भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita · अध्याय 13

13.1

तस्मिन् विमोक्षाय कृतप्रतिज्ञे राजर्1षिवंशप्रभवे महर्2षौ
तत्रोपविष्टे प्रजहर्ष लोकस् तत्रास सद्धर्मरिपुस् तु मारः ॥

13.2

यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव
कामप्रचाराधिपतिं तम् एव मोक्षद्विषं मारम् उदाहरन्ति ॥

13.3

तस्यात्मजा विभ्रमहर्षदर्पास् तिस्रो (अरतिच्रति)प्रीतितृषश् च कन्याः
पप्रच्छुर् एनं मनसो विकारं स तांश् च ताश् चैव वचो (अभ्युवाच च्बभाषे ) ॥

13.4

असौ मुनिर् निश्चयवर्म बिभ्रत् सत्त्वायुधं बुद्धिशरं विकृष्य
जिगीषुर् आस्ते विषयान् मदीयान् तस्माद् अयं मे मनसो विषादः ॥

13.5

यदि ह्य् असौ माम् अभिभूय याति लोकाय चाख्यात्य् अपवर्गमार्गम्
शून्यस् ततो ऽयं विषयो ममाद्य वृत्ताच् च्युतस्येव विदेहभर्तुः ॥

13.6

तद् यावद् एवैष न लब्धचक्षुर् मद्गोचरे तिष्ठति यावद् एव
यास्यामि तावद् व्रतम् अस्य भेत्तुं सेतुं नदीवेग (इवातिवृद्धः चिवाभिवृद्धः ) ॥

13.7

ततो धनुः पुष्पमयं गृहीत्वा (शरान् जगन्मोहच्शरांस् तथा मोह)करांश् च पञ्च
सो ऽश्वत्थमूलं ससुतो ऽभ्यगच्छद् अस्वास्थ्यकारी मनसः प्रजानाम् ॥

13.8

अथ प्रशान्तं मुनिम् आसनस्थं पारं तितीर्षुं भवसागरस्य
विषज्य सव्यं करम् आयुधाग्रे (क्रीडन् च्क्रीडञ् )शरेणेदम् उवाच मारः ॥

13.9

उत्तिष्ठ भोः क्षत्रिय मृत्युभीत (चर स्वधर्मं च्वरस्व धर्मं )त्यज मोक्षधर्मम्
(बाणैश् च्वाणैश् )च (यज्ञैश् च च् xxx )विनीय (लोकं च्लोकान् (लोकात् पदं च्लोकान् परान् )प्राप्नुहि वासवस्य ॥

13.10

पन्था हि निर्यातुम् अयं यशस्यो यो वाहितः पूर्वतमैर् नरेन्द्रैः
जातस्य राजर्1षिकुले विशाले भैक्षाकम् अश्लाघ्यम् इदं प्रपत्तुम् ॥

13.11

अथाद्य नोत्तिष्ठसि (निश्चितात्मन् च्निश्चितात्मा भव स्थिरो मा विमुचः प्रतिज्ञाम्
मयोद्यतो ह्य् एष शरः स एव यः (शूर्पके च्सूर्यके )मीनरिपौ विमुक्तः ॥

13.12

(स्पृष्टः च्पृष्टः )स चानेन कथंचिद् ऐडः सोमस्य नप्ताप्य् अभवद् विचित्तः
स चाभवच् (छंतनुर् च्छांतनुर् )अस्वतन्त्रः क्षीणे युगे किं (बत च्वत )दुर्बलो ऽन्यः ॥

13.13

तत् क्षिप्रम् उत्तिष्ठ लभस्व संज्ञां (बाणो च्वाणो )ह्य् अयं तिष्ठति लेलिहानः
प्रियाविधेयेषु रतिप्रियेषु यं चक्रवाकेष्व् (इव चपि )नोत्सृजामि ॥

13.14

इत्य् एवम् उक्तो ऽपि यदा निरास्थो नैवासनं शाक्यमुनिर् बिभेद
शरं ततो ऽस्मै विससर्ज मारः कन्याश् च कृत्वा पुरतः सुतांश् च ॥

13.15

तस्मिंस् तु (बाणे च्वाणे )अपि स विप्रमुक्ते चकार नास्थां न धृतेश् चचाल
दृष्ट्वा तथैनं विषसाद मारश् चिन्तापरीतश् च शनैर् जगाद ॥

13.16

शैलेन्द्रपुत्रीं प्रति येन विद्धो देवो ऽपि शंभुश् चलितो बभूव
न चिन्तयत्य् एष तम् एव (बाणं च्वाणं किं स्याद् अचित्तो न शरः स एषः ॥

13.17

तस्माद् अयं नार्हति पुष्प(बाणं च्वाणं न हर्षणं नापि रतेर् नियोगम्
अर्हत्य् अयं भूतगणैर् अ(सौम्यैः च्शेषैः संत्रासनातर्जनताडनानि ॥

13.18

सस्मार मारश् च ततः स्वसैन्यं (विघ्नं शमे च्विध्वंसनं )शाक्यमुनेश् चिकीर्षन्
नानाश्रयाश् चानुचराः परीयुः (शलच्शर)द्रुमप्रासगदासिहस्ताः ॥

13.19

वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्1क्षसिंहद्विरदाननाश् च
एकेक्षणा नैकमुखास् त्रिशीर्षा लम्बोदराश् चैव पृषोदराश् च ॥

13.20

(अजानुसक्था चजासु सक्ता )घटजानवश् च दंष्ट्रायुधाश् चैव नखायुधाश् च
(करङ्कवक्त्रा च्कबन्धुहस्ता )बहुमूर्तयश् च भग्नार्धवक्त्राश् च महामुखाश् च ॥

13.21

(भस्मारुणा च्ताम्रारुणा )लोहित(बिन्दुच्विन्दु)चित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः
लम्बस्रजो वारणलम्बकर्णाश् चर्माम्बराश् चैव निरम्बराश् च ॥

13.22

श्वेतार्धवक्त्रा हरितार्धकायास् ताम्राश् च धूम्रा हरयो ऽसिताश् च
(व्यालोत्तरासङ्गच्व्याडोत्तरासङ्ग)भुजास् तथैव प्रघुष्टघण्टाकुलमेखलाश् च ॥

13.23

तालप्रमाणाश् च गृहीतशूला दंष्ट्राकरालाश् च शिशुप्रमाणाः
उरभ्रवक्त्राश् च विहं(गमाक्षा च्गमाश् च मार्जारवक्त्राश् च मनुष्यकायाः ॥

13.24

प्रकीर्णकेशाः शिखिनो ऽर्धमुण्डा (रक्ताम्बरा च्रज्ज्वम्बरा )व्याकुलवेष्टनाश् च
प्रहृष्टवक्त्रा भृकुटीमुखाश् च तेजोहराश् चैव मनोहराश् च ॥

13.25

केचिद् व्रजन्तो भृशम् आववल्गुर् अन्योअन्यम् आपुप्लुविरे तथान्ये
चिक्रीडुर् आकाशगताश् च केचित् केचिच् च चेरुस् तरुमस्तकेषु ॥

13.26

ननर्त कश्चिद् भ्रमयंस् त्रिशूलं कश्(चिद् विपुस्फूर्ज च्चिद् ध पुस्फूर्ज )गदां विकर्षन्
हर्षेण कश्चिद् वृषवन् (ननर्द च्ननर्त कश्चित् प्रजज्वाल तनूरुहेभ्यः ॥

13.27

एवंविधा भूतगणाः समन्तात् तद् बोधिमूलं परिवार्य तस्थुः
जिघृक्षवश् चैव जिघांसवश् च भर्तुर् नियोगं परिपालयन्तः ॥

13.28

तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्1षभस्यैव च युद्धकालम्
न द्यौश् चकाशे पृथिवी चकम्पे प्रजज्वलुश् चैव दिशः सशब्दाः ॥

13.29

(विष्वग् च्विश्वग् )ववौ वायुर् उदीर्णवेगस् तारा न रेजुर् न बभौ शशाङ्कः
तमश् च भूयो (विततान रात्रिः च्विततार रात्रेः सर्वे च संचुक्षुभिरे समुद्राः ॥

13.30

महीभृतो धर्मपराश् च नागा महामुनेर् विघ्नम् अमृष्यमाणाः
मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश् चैव जजृम्भिरे च ॥

13.31

शुद्धाधिवासा विबुधर्1षयस् तु सद्धर्मसिद्ध्यर्थम् (अभिप्रवृत्ताः चिव प्रवृत्ताः )
मारे ऽनुकम्पां मनसा प्रचक्रुर् विरागभावात् तु न रोषम् ईयुः ॥

13.32

तद् बोधिमूलं समवेक्ष्य कीर्णं हिंसात्मना मारबलेन तेन
धर्मात्मभिर् लोकविमोक्षकामैर् बभूव हाहाकृतम् (अन्तरीक्षे चन्तरीक्षम् ) ॥

13.33

(उपप्लवं चुपप्लुतं )धर्म(विधेस् च्विदस् )तु तस्य दृष्ट्वा स्थितं मारबलं महर्2षिः
न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः ॥

13.34

मारस् ततो भूतचमूम् उदीर्णाम् आज्ञापयाम् आस भयाय तस्य
स्वैः स्वैः प्रभावैर् अथ सास्य सेना तद्धैर्यभेदाय मतिं चकार ॥

13.35

केचिच् चलन् नैकविलम्बिजिह्वास् (तीक्ष्णाग्रच्तीक्ष्णोग्र)दंष्ट्रा हरिमण्डलाक्षाः
विदारितास्याः स्थिरशङ्कुकर्णाः संत्रासयन्तः किल नाम तस्थुः ॥

13.36

तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः
न विव्यथे नोद्विविजे महर्2षिः (क्रीडत्सुच्क्रीडन् सु)बालेभ्य इवोद्धतेभ्यः ॥

13.37

कश्चित् ततो (रोषच्रौद्र)विवृत्तदृष्टिस् तस्मै गदाम् उद्यमयां चकार
तस्तम्भ बाहुः सगदस् ततो ऽस्य पुरंदरस्येव पुरा सवज्रः ॥

13.38

केचित् समुद्यम्य शिलास् तरूंश् च विषेहिरे नैव मुनौ विमोक्तुम्
पेतुः सवृक्षाः सशिलास् तथैव वज्रावभग्ना इव विन्ध्यपादाः ॥

13.39

कैश्चित् समुत्पत्य नभो विमुक्ताः शिलाश् च वृक्षाश् च परश्वधाश् च
तस्थुर् नभस्य् एव न चावपेतुः संध्याभ्रपादा इव नैकवर्णाः ॥

13.40

चिक्षेप तस्योपरि दीप्तम् अन्यः कडङ्गरं पर्वतशृङ्गमात्रम्
यन् मुक्तमात्रं गगनस्थम् एव तस्यानुभावाच् छतधा (पफाल च्बभूव ) ॥

13.41

कश्चिज् जलन्न् अर्क इवोदितः खाद् अङ्गारवर्षं महद् उत्ससर्ज
चूऋनानि चामीकरकन्दराणां कल्पात्यये मेरुर् इव प्रदीप्तः ॥

13.42

तद् बोधिमूले प्रविकीर्यमाणम् अङ्गारवर्षं तु सविस्फुलिङ्गम्
मैत्रीविहाराद् ऋषिसत्तमस्य बभूव रक्तोत्पल(पत्त्रच्पत्र)वर्षः ॥

13.43

शरीरचित्तव्यसनातपैस् तैर् एवंविधैस् तैश् च निपात्यमानैः
नैवासनाच् छआक्यमुनिश् चचाल (स्वनिश्चयं च्स्वं निश्चयं )बन्धुम् इवोपगुह्य ॥

13.44

अथापरे (निर्जिगिलुर् च्निर्जगलुर् )मुखेभ्यः सर्पान् विजीर्णेभ्य इव द्रुमेभ्यः
ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर् (नोत्ससृपुर् च्नलुत्ससृजुर् )न चेलुः ॥

13.45

भूत्वापरे वारिधरा (बृहन्तः च्वृहन्तः सविद्युतः साशनिचण्डघोषाः
तस्मिन् द्रुमे तत्यजुर् अश्मवर्षं तत् पुष्.पवर्षं रुचिरं बभूव ॥

13.46

चापे ऽथ (बाणो च्वाणो )निहितो ऽपरेण जज्वाल तत्रैव न निष्पपात
अनीश्वरस्यात्मनि (धूयमानो च्धूर्यमाणो दुर्मर्षणस्येव नरस्य मन्युः ॥

13.47

पञ्चेषवो ऽन्येन तु विप्रमुक्तास् तस्थुर् (नभस्य् च्नयत्य् )एव मुनौ न पेतुः
संसारभीरोर् विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परीक्षकस्य ॥

13.48

जिघांसयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महर्2षेः
सो ऽप्राप्त(कामो च्कालो )विवशः पपात दोषेष्व् इवानर्थकरेषु लोकः ॥

13.49

स्त्री मेघकाली तु कपालहस्ता कर्तुं महर्2षेः किल (चित्तमोहम् च्मोहचित्तम् )
बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिर् इवागमेषु ॥

13.50

कश्चित् प्रदीप्तं प्रणिधाय चक्षुर् नेत्राग्निनाशीविषवद् दिधक्षुः
तत्रैव (नासीनम् च्नासीत् तं )ऋषिं ददर्श कामात्मकः श्रेय इवोपदिष्टम् ॥

13.51

गुर्वीं शिलाम् उद्यमयंस् तथान्यः शश्राम मोघं विहतप्रयत्नः
निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर् धर्मम् इवाप्तुकामः ॥

13.52

तरक्षुसिंहाकृतयस् तथान्ये प्रणेदुर् उच्चैर् महतः प्रणादान्
सत्त्वानि यैः संचुकुचुः समन्ताद् वज्राहता द्यौः फलतीति मत्वा ॥

13.53

मृगा गजाश् (चार्तच्चार्त्त)रवान् सृजन्तो विदुद्रुवुश् चैव निलिल्यिरे च
रात्रौ च तस्याम् अहनीव दिग्भ्यः खगा रुवन्तः परिपेतुर् (आर्ताः चार्त्ताः ) ॥

13.54

तेषां प्रणादैस् तु तथाविधैस् तैः सर्वेषु भूतेष्व् अपि कम्पितेषु
मुनिर् न तत्रास न संचुकोच रवैर् गरुत्मान् इव वायसानाम् ॥

13.55

भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर् बिभाय
तथा तथा धर्मभृतां सपत्नः शोकाच् च रोषाच् च (ससाद च्ससार )मारः ॥

13.56

भूतं ततः किंचिद् अदृश्यरूपं विशिष्ट(भूतं च्रूपं )गगनस्थम् एव
दृष्ट्वर्9षये द्रुग्धम् अवैररुष्टं मारं बभाषे महता स्वरेण ॥

13.57

मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मताम् उत्सृज गच्छ शर्म
नैष त्वया कम्पयितुं हि शक्यो महागिरिर् मेरुर् इवानिलेन ॥

13.58

अप्य् उष्णभावं ज्वलनः प्रजह्याद् आपो द्रवत्वं पृथिवी स्थिरत्वम्
अनेककल्पाचितपुण्यकर्मा न त्व् एव जह्याद् व्यवसायम् एषः ॥

13.59

यो निश्चयो ह्य् अस्य पराक्रमश् च तेजश् च यद् या च दया प्रजासु
अप्राप्य नोत्थास्यति तत्त्वम् एष तमांस्य् अहत्वेव सहस्ररश्मिः ॥

13.60

काष्ठं हि मथ्नन् लभते हुताशं भूमिं खनन् विन्दति चापि तोयम्
निर्बन्धिनः किं(चन नास्त्य् असाध्यं च्च न नास्य साध्यं न्यायेन युक्तं च कृतं च सर्वम् ॥

13.61

तल् लोकम् (आर्तं चार्त्तं )करुणायमानो रोगेषु रागादिषु वर्तमानम्
महा(भिषङ् च्भिषग् )नार्हति विघ्नम् एष ज्ञानौषधार्थं परिखिद्यमानः ॥

13.62

हृते च लोके बहुभिः कुमार्गैः सन्मार्गम् अन्विच्छति यः श्रमेण
स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थए इव प्रनष्टे ॥

13.63

सत्त्वेषु नष्टेषु महान्ध(कारे च्कारैर् ज्ञानप्रदीपः क्रियमाण एषः
आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस् तमसीव दीपः ॥

13.64

दृष्ट्वा च संसारमये महौघे मग्नं जगत् पारम् अविन्दमानम्
यश् चेदम् उत्तारयितुं प्रवृत्तः (कश् चिन्तयेत् च्कश्चिन् नयेत् )तस्य तु पापम् आर्यः ॥

13.65

क्षमाशिफो धैर्यविगाढमूलश् चारित्रपुष्पः स्मृतिबुद्धिशाखः
ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्य् अर्हति वर्धमानः ॥

13.66

बद्धां दृढैश् चेतसि मोहपाशैर् यस्य प्रजां मोक्षयितुं मनीषा
तस्मिन् जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः ॥

13.67

बोधाय कर्माणि हि यान्य् अनेन कृतानि तेषां नियतो ऽद्य कालः
स्थाने तथास्मिन्न् उपविष्ट एष यथैव पूर्वे मुनयस् तथैव ॥

13.68

एषा हि नाभिर् वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना
भूमेर् अतो ऽन्यो ऽस्ति हि न प्रदेशो (वेगं च्वेशं )समाधेर् (विषहेत यो ऽस्य च्विषयो हितस्य ) ॥

13.69

तन् मा कृथाः शोकम् उपेहि शान्तिं मा भून् महिम्ना तव मार मानः
विश्रम्भितुं न क्षमम् अध्रुवा श्रीश् चले पदे (विस्मयम् च्किं पदम् )अभ्युपैषि ॥

13.70

ततः स संश्रुत्य च तस्य तद् वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पताम्
जगाम मारो वि(मनो च्मना )हतोद्यमः शरैर् जगच्चेतसि यैर् (विहन्यते च्विहन्यसे ) ॥

13.71

गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा
दिशः प्रदुद्राव ततो ऽस्य सा चमूर् हताश्रयेव द्विषता द्विषच्चमूः ॥

13.72

द्रवति स(परिपक्षे च्परपक्षे )निर्जिते पुष्पकेतौ जयति जिततमस्के नीरजस्के महर्2षौ
युवतिर् इव सहासा द्यौश् चकाशे सचन्द्रा सुरभि च जलगर्भं पुष्पवर्षं पपात ॥

13.73

x(च्तथापि पापीयसि निर्जिते गते दिशः प्रसेदुः प्रबभौ निशाकरः
xदिवो निपेतुर् भुवि पुष्पवृष्टयो रराज योषेव विकल्मषा निशाच्) ॥

मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc