Buddhacarita · अध्याय 10
स राजवत्सः पृथुपीनवक्षास् तौ हव्यमन्त्राधिकृतौ विहाय
उत्तीर्य गङ्गां प्रचलत्तरंगां श्रीमद्गृहं राजगृहं जगाम ॥
शैलैः सुगुप्तं च विभूषितं च धृतं च पूतं च शिवैस् तपोदैः
पञ्चाचलाङ्कं नगरं प्रपेदे शान्तः स्वयंभूर् इव नाकपृष्ठम् ॥
गाम्भीर्यम् ओजश् च निशाम्य तस्य वपुश् च दीप्तं पुरुषान् अतीत्य
विसिस्मिये तत्र जनस् तदानीं स्थानुव्रतस्येव वृषध्वजस्य ॥
तं प्रेक्ष्य यो ऽन्येन ययौ स तस्थौ (यस् तत्र च्यश् चात्र )तस्थौ पथि सो ऽन्वगच्छत्
द्रुतं ययौ (यः स जगाम धीरं च्सदयं सधीरं यः कश्चिद् आस्ते स्म स चोत्पपात ॥
कश्चित् तम् आनर्च जनः कराभ्यां सत्कृत्य कश्चिच् छिरसा ववन्दे
स्निग्धेन कश्चिद् वचसाभ्यनन्दन् (नैनं च्नैवं )जगामाप्रतिपूज्य कश्चित् ॥
तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः प्रकीर्णवाचः पथि मौनम् ईयुः
धर्मस्य साक्षाद् इव (संनिकर्षे च्संनिकर्षान् न कश्चिद् अन्यायमतिर् बभूव ॥
अन्यक्रियाणाम् अपि राजमार्गे स्त्रीणां नृणां वा बहुमानपूर्वम्
(तं देवकल्पं च्तद् एव कल्पं )नरदेव(सूनुं च्सूत्रं निरीक्षमाणा न (ततर्प च्तु तस्य )दृष्टिः ॥
भ्रुवौ ललाटं मुखम् (ईक्षणे चीक्षणं )वा वपुः करौ वा चरणौ गतिं वा
यद् एव यस् तस्य ददर्श तत्र तद् एव (तस्याथ बबन्ध च्तस्यानुबबन्ध )चक्षुः ॥
दृष्ट्वा (च सोर्णच्शुभोर्ण)भ्रुवम् आयताक्षं ज्वलच्छरीरं शुभजालहस्तम्
तं भिक्षु(वेषं च्वेशं )क्षितिपालनार्हं संचुक्षुभे राजगृहस्य लक्ष्मीः ॥
श्रेण्यो ऽथ भर्ता मगधाजिरस्य (बाह्याद् च्वाह्याद् )विमानाद् विपुलं जनौघम्
ददर्श पप्रच्छ च तस्य हेतुं ततस् तम् अस्मै पुरुषः शशंस ॥
ज्ञानं परं वा पृथिवीश्रियं वा विप्रैर् य उक्तो ऽधिगमिष्यतीति
स (एष चेव )शाक्याधिपतेस् तनूजो निरीक्ष्यते प्रव्रजितो जनेन ॥
ततः श्रुतार्थो (मनसागतास्थो च्मनसा गतार्थो राजा बभाषे पुरुषं तम् एव
विज्ञायतां क्व प्रतिगच्छतीति तथेत्य् अथैनं पुरुषो ऽन्वगच्छत् ॥
अलोलचक्षुर् युगमात्रदर्शी निवृत्तवाग् यन्त्रितमन्दगामी
चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः ॥
आदाय भैक्षं च यथोपपन्नं ययौ गिरेः प्रस्रवणं विविक्तम्
न्यायेन तत्राभ्यवहृत्य चैनन् महीधरं पाण्डवम् आरुरोह ॥
तस्मिन् नवौ लोध्रवनोपगूढे मयूरनादप्रतिपूर्णकुञ्जे
काषायवासाः स बभौ नृसूर्यो यथोदयस्योपरि बालसूर्यः ॥
(तत्रैनम् च्तत्रैवम् )आलोक्य स राजभृत्यः श्रेण्याय राज्ञे कथयां चकार
संश्रुत्य राजा स च बाहुमान्यात् तत्र प्रतस्थे निभृतानुयात्रः ॥
स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवर्ष्मा
मौलीधरः सिंहगतिर् नृसिंहश् चलत्सटः सिंह इवारुरोह ॥
(ततः स्म च्चलस्य )तस्योपरि शृङ्गभूतं शान्तेन्द्रियं पश्यति बोधिसत्त्वम्
पर्यङ्कम् आस्थाय विरोचमानं शशाङ्कम् उद्यन्तम् इवाभ्र(कुञ्जात् च्कूटात् ) ॥
तं रूपलक्ष्म्या च शमेन चैव धर्मस्य निर्माणम् इवोपविष्टम्
सविस्मयः प्रश्रयवान् नरेन्द्रः स्वयंभुवं शक्र इवोपतस्थे ॥
तं न्यायतो (न्यायविदां वरिष्ठं च्न्यायवतां वरिष्ठः समेत्य पप्रच्छ च धातुसाम्यम्
स चाप्य् अवोचत् सदृशेन साम्ना नृपं मनःस्वास्थ्यम् अनामयं च ॥
ततः शुचौ वारणकर्णनीले शिलातले (संनिषसाद चसौ निषसाद )राजा
(उपोपविश्यानुमतश् च्नृपोपविश्यानुमतश् )च तस्य भावं विजिज्ञासुर् इदं बभाषे ॥
प्रीतिः परा मे भवतः कुलेन क्रमागता चैव परीक्षिता च
जाता विवक्षा (स्ववयो च्सुत या )यतो मे तस्माद् इदं स्नेहवचो निबोध ॥
आदित्यपूर्वं विपुलं कुलं ते नवं वयो दीप्तम् इदं वपुश् च
कस्माद् इयं ते मतिर् अक्रमेण भैक्षाकए एवाभिरता न राज्ये ॥
गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषम् अनर्हम् एतत्
हस्तः प्रजापालनयोग्य एष भोक्तुं न चार्हः परदत्तम् अन्नम् ॥
तत् सौम्य राज्यं यदि पैतृकं त्वं स्नेहात् पितुर् नेच्छसि विक्रमेण
न च (क्रमं च्क्षमं )मर्षयितुं मतिस् ते (भुङ्क्ष्वार्धम् च्भुक्त्वार्धम् )अस्मद्विषयस्य शीघ्रम् ॥
एवं हि न स्यात् स्वजनावमर्दः कालक्रमेणापि शमश्रया श्रीः
तस्मात् कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः ॥
अथ त्व् इदानीं कुलगर्वितत्वाद् अस्मासु विश्रम्भगुणो न ते ऽस्ति
(व्यूढान्य् अनीकानि च्व्यूहान्य् अनेकानि )विगाह्य (बाणैर् च्वाणैर् मया सहायेन (परान् च्पराञ् )जिगीष ॥
तद् बुद्धिम् अत्रान्यतरां वृणीष्व धर्मार्थकामान् विधिवद् भजस्व
व्यत्यस्य (रागाद् इह च्रागादि ह )हि त्रिवर्गं प्रेत्येह च (भ्रंशम् च्विभ्रंशम् )अवाप्नुवन्ति ॥
यो ह्य् अर्थधर्मौ परिपीड्य कामः स्याद् धर्म(कामौ च्काम्ये )परिभूय चार्थः
कामार्थयोश् चोपरमेण धर्मस् त्याज्यः स कृत्स्नो यदि (काङ्क्षितो ऽर्थः च्काङ्क्षितार्थः ) ॥
तस्मात् त्रिवर्गस्य निषेवणेन त्वं रूपम् एतत् सफलं कुरुष्व
धर्मार्थकामाधिगमं ह्य् अनूनं नृणाम् अनूनं पुरुषार्थम् आहुः ॥
तन् निष्फलौ नार्हसि कर्तुम् एतौ पीनौ भुजौ चापविकर्षणार्हौ
मान्धातृवज् जेतुम् इमौ हि योग्यौ (लोकान् अपि त्रीन् इह च्लोकानि हि त्रीणि हि )किं पुनर् गाम् ॥
स्नेहेन खल्व् एतद् अहं ब्रवीमि नैश्वर्यरागेण न विस्मयेन
इमं हि दृष्ट्वा तव भिक्षु(वेषं च्वेशं जातानुकम्पो ऽस्म्य् अपि चागताश्रुः ॥
यावत् स्ववंशप्रति(रूप रूपं च्रूपरूपं न ते जराभ्येत्य् अभिभूय भूयः
तद् भुङ्क्ष्व भिक्षाश्रमकाम कामान् काले ऽसि कर्ता प्रियधर्म धर्मम् [पादस् अब् अन्द् च्द् अरे एxछन्गेद् इन् च्.] ॥
शक्नोति जीर्णः खलु धर्मम् आप्तुं कामोपभोगेष्व् अगतिर् जरायाः
अतश् च यूनः कथयन्ति कामान् मध्यस्य वित्तं स्थविरस्य धर्मम् ॥
धर्मस्य चार्थस्य च जीवलोके प्रत्यर्थिभूतानि हि यौवनानि
संरक्ष्यमानान्य् अपि दुर्ग्रहाणि कामा यतस् तेन (पथा च्यथा )हरन्ति ॥
वयांसि जीर्णानि (विमर्शवन्ति च्विमर्शयन्ति धीराण्य् अवस्थानपरायणानि
अल्पेन यत्नेन शमात्मकानि भवन्त्य् अ(गत्यैव च्गत्येव )च लज्जया च ॥
अतश् च लोलं विषयप्रधानं प्रमत्तम् अक्षान्तम् अदीर्घदर्शि
बहुच्छलं यौवनम् अभ्यतीत्य निस्तीर्य कान्तारम् इवाश्वसन्ति ॥
तस्माद् अधीरं चपलप्रमादि नवं वयस् तावद् इदं व्यपैतु
कामस्य पूर्वं हि वयः शरव्यं न शक्यते रक्षितुम् इन्द्रियेभ्यः ॥
अथो चिकीर्षा तव धर्म एव यजस्व यज्ञं कुलधर्म एषः
यज्ञैर् अधिष्ठाय हि नाकपृष्ठं ययौ मरुत्वान् अपि नाकपृष्ठम् ॥
सुवर्णकेयूरविदष्टबाहवो मणिप्रदीपोज्ज्वलचित्रमौलयः
नृपर्1षयस् तां हि गतिं गता मखैः श्रमेण याम् एव महर्2षयो ययुः ॥
इत्य् एवं मगधपतिर् ((च्वचो च्))बभाषे यः सम्यग् वलभिद् इव (ब्रुवन् बभासे च्ध्रुवं बभाषे ) ॥
तच् छ्रुत्वा न स (विचचाल च्विचचार )राजसूनुः कैलासो गिरिर् इव नैकचित्रसानुः ॥
मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0