Buddhacarita (अन्य संस्करण) · अध्याय 13
इति बुद्धचरिते महाकाव्ये ऽराडदर्शनो नाम द्वादशः सर्गः ॥ 12 ॥
चन्तो xइइइ
तस्मिन्विमोक्षाय कृतप्रतिज्ञे राजर्षिवंशप्रभवे महर्षौ ।
तत्रोपविष्टे प्रजहर्ष लोकस्तत्रास सद्धर्मरिपुस्तु मारः
यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव ।
कामप्रचाराधिपतिं तमेव मोक्षद्विषं मारमुदाहरन्ति
तस्यात्मजा विभ्रमहर्षदर्पास्तिस्रो ऽरतिप्रीतितृषश्च कन्याः ।
पप्रच्छुरेनं मनसो विकारं स तांश्च ताश्चैव वचो ऽभ्युवाच
असौ मुनिर्निश्चयवर्म बिभ्रत्सत्त्वायुधं बुद्धिशरं विकृष्य ।
जिगीषुरास्ते विषयान्मदीयान्तस्मादयं मे मनसो विषादः
यदि ह्यसौ मामभिभूय याति लोकाय चाख्यात्यपवर्गमार्गम् ।
शून्यस्ततो ऽयं विषयो ममाद्य वृत्ताच्च्युतस्येव विदेहभर्तुः
तद्यावदेवैष न लब्धचक्षुर्मद्रोचरे तिष्ठति यावदेव ।
यास्यामि तावद्व्रतमस्य भेत्तुं सेतुं नदीवेग इवातिवृद्धः
ततो धनुः पुष्पमयं गृहीत्वा शरान् जगन्मोहकरांश्च पञ्च ।
सो ऽश्वत्थमूलं ससुतो ऽभ्यगच्छदस्वास्थ्यकारी मनसः प्रजानाम्
अथ प्रशान्तं मुनिमासनस्थं पारं तितीर्षु भवसागरस्य ।
विषज्य सव्यं करमायुधाग्रे क्रीडन् शरेणेदमुवाच मारः
उत्तिष्ठ भोः क्षत्रिय मृत्युभीत चर स्वधर्म त्यज मोक्षधर्मम् ।
बाणैश्च यज्ञैश्च विनीय लोकं लोकात्पदं प्राप्नुहि वासवस्य
पन्था हि निर्यातुमयं यशस्यो यो वाहितः पूर्वतमैर्नरेन्द्रैः ।
जातस्य राजर्षिकुले विशाले भैक्षाकमश्लाध्यमिदं प्रपत्तुम्
अथाद्य नोत्तिष्ठसि निश्चितात्मन् भव स्थिरो मा विमुचः प्रतिज्ञाम् ।
मयोद्यतो ह्येष शरः स एंव यः शूर्पके मीनरिपौ विमुक्तः
स्पृष्टः स चानेन कथंचिदैडः सोमस्य नप्ताप्यभवद्विचित्तः ।
स चाभवच्छन्तनुरस्वतन्त्रः क्षीणे युगे किं बत दुर्बलो ऽन्यः
तत्क्षिप्रमुत्तिष्ठ लभस्व संज्ञां बाणो ह्ययं तिष्ठति लेलिहानः ।
प्रियाविधेयेषु रतिप्रियेषु यं चक्रवाकेष्विव नोत्सृजामि
इत्येवमुक्तो ऽपि यदा निरास्थो नैवासनं शाक्यमुनिर्बिभेद ।
शरं ततो ऽस्मै विससर्ज मारः कन्याश्च कृत्वा पुरतः सुतांश्च
तस्मिंस्तु बाणे ऽपि स विप्रमुक्ते चकार नास्थां न धृतेश्चचाल ।
दृष्ट्वा तथैनं विषसाद मारश्चिन्तापरीतश्च शनैर्जगाद
शैलेन्द्रपुत्रीं प्रति येन विद्धो देवो ऽपि शम्भुश्चलितो बभूव ।
न चिन्तयत्येष तमेव बाणं किं स्यादचित्तो न शरः स एषः
तस्मादयं नार्हति पुष्पबाणं न हर्षणं नापि रतेर्नियोगम् ।
अर्हत्ययं भूतगणैरसौम्यैः संत्रासनातर्जनताडनानि
सस्मार मारश्च ततः स्वसैन्यं विघ्नं शमे शाक्यमुनेश्चिकीर्षन् ।
ननाश्रयाश्चानुचराः परीयुः शलद्रुमप्रासगदासिहस्ताः
वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्क्षसिंहद्विरदाननाश्च ।
एकेक्षणा नैकमुखास्त्रिशीर्षा लम्बोदराश्चैव पृषोदराश्च
अजानुसक्था घटजानवश्च दंष्ट्रायुधाश्चैव नखायुधाश्च ।
करङ्कवक्त्रा बहुमूर्तयश्च भग्नार्धवक्त्राश्च महामुखाश्च
भस्मारुणा लोहितबिन्दुचित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः ।
लम्बस्रजो वारणलम्बकर्णाश्चर्माम्बराश्चैव निरम्बराश्च
श्वेतार्धवक्त्रा हरितार्धकायास्ताम्राश्च ध्रूम्रा हरयो ऽसिताश्च ।
व्यालोत्तरासङ्गभुजास्तथैव प्रघुष्टाघण्टाकुलमेखलाश्च
तालप्रमाणाश्च गृहीतशूला दंष्ट्राकरालाश्च शिशुप्रमाणाः ।
उरभ्रवक्त्राश्च विहंगमाक्षा मार्जारवक्त्राश्च मनुष्यकायाः
प्रकीर्णकेशाः शिखिनो ऽर्धमुण्डा रक्ताम्बरा व्याकुलवेष्टनाश्च ।
प्रहृष्टवक्त्रा भृकुटीमुखाश्च तेजोहराश्चैव मनोहराश्च
केचिद्व्रजन्तो भृशमाववल्गुरन्यो ऽन्यमापुप्लुविरे तथान्ये ।
चिक्रीडुराकाशगताश्च केचित्केचिच्च चेरुस्तरुमस्तकेषु
ननर्त कश्चिद्भ्रमयंस्त्रिशूलं कश्चिद्विपुष्फूर्ज गदां विकर्षन् ।
हर्षेण कश्चिद्वृषवन्ननर्द कश्चिचत्प्रजज्वाल तनूनरुहेभ्यः
एवंविधा भूतगणाः समन्तात्तद्बोधिमूलं परिवार्य तस्थुः ।
जिघृक्षवश्चैव जिघांसवश्च भर्तुर्नियोगं परिपालयन्तः
तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्षभस्यैव च युद्धकालम् ।
न द्यौश्चकाशे पृथिवी चकम्पे प्रजज्वलुश्चैव दिशः सशब्दाः
विष्वग्ववौ वायुरुदीर्णवेगस्तारा न रेजुर्न बभौ शशाङ्कः ।
तमश्च भूयो विततान रात्रिः सर्वे च संचुक्षुभिरे समुद्राः
महीभृतो धर्मपराश्च नागा महामुनेर्विघ्नममृष्यमाणाः ।
मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश्चैव जजृम्भिरे च
शुद्धाधिवासा विबुधर्षयस्तु सद्धर्मसिद्ध्यर्थमभिप्रवृत्ताः ।
मारे ऽनुकम्पां मनसा प्रचक्रुर्विरागभावात्तु न रोषमीयुः
तद्बोधिमूलं समवेक्ष्य कीर्ण हिंसात्मना मारबलेन तेन ।
धर्मात्मभिर्लोकविमोक्षकामैर्बभूव हाहाकृतमन्तरीक्षे
उपप्लवं धर्मविधेस्तु तस्य दृष्ट्वा स्थितं मारबलं महर्षिः ।
न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः
मारस्ततो भूतचमूमुदीर्णामाज्ञापयामास भयाय तस्य ।
स्वैः स्वैः प्रभावैरथ सास्य सेना तद्धैर्यभेदाय मतिं चकार
केचिच्चलन्नैकविलम्बिजिव्हास्तीक्ष्णाग्रदंष्ट्रा हरिमण्डलाक्षाः ।
विदारितास्याः स्थिरशङ्कुकर्णाः संत्रासयन्तः किल नाम तस्थुः
तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः ।
न विव्यथे नोद्विविजे महर्षिः क्रीडत्सुबालेभ्य इवोद्धतेभ्यः
कश्चित्ततो रोषविवृत्तदृष्टिस्तस्मै गदामुद्यमयांचकार ।
तस्तम्भ बाहुः सगदस्ततो ऽस्य पुरंदरस्येव पुर सवज्रः
केचित्समुद्यम्य शिलास्तरूंश्च विषेहिरे नैव मुनौ विमोक्तुम् ।
पेतुः सवृक्षाः सशिलास्तथैव वज्रावभग्ना इव विन्ध्यपादाः
कैश्चित्समुत्पत्य नभो विमुक्ताः शिलाश्च वृक्षाश्च परश्वधाश्च ।
तस्थुर्नभयस्येव न चावपेतुः संध्याभ्रपादा इव नैकवर्णाः
चिक्षेप तस्योपरि दीप्तमन्यः कडङ्गरं पर्वतशृङ्गमात्रम् ।
यन्मुक्तपात्रं गगनस्थमेव तस्यानुभावाच्छतधा पफाल
कश्चिज्ज्वलन्नर्क इवोदितः खादङ्गारवर्ष महदुत्ससर्ज ।
चूर्णानि चामीकरकन्दराणां कल्पात्यये मेरुरिव प्रदीप्तः
तद्बोधिमूले प्रविकीर्यमाणमङ्गारवर्ष तु सविस्फुलिङ्गम् ।
मैत्रीविहारादृषिसत्तमस्य बभूव रक्तोत्पलपत्त्रवर्षः
शरीरचित्तव्यसनातपैस्तैरेवंविधैस्तैश्च निपात्यमानैः ।
नैवासनाच्छाक्यमुनिश्चचाल स्वनिश्चयं बन्धुमिवोपगुह्य
अथापरे निर्जिगिलुर्मुखेभ्यः सर्पान्विजीर्णेभ्य इव द्रुमेभ्यः ।
ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर्नोत्ससृपुर्न चेलुः
भूत्वापरे वारिधरा बृहन्तः सविद्युतः साशनिचण्डघोषाः ।
तस्मिन्द्रुमे तत्यजुरश्मवर्षं तत्पुष्पवर्षं रुचिरं बभूव
चापे ऽथ बाणो निहितो ऽपरेण जज्वाल तत्रैव न निष्पपात ।
अनीश्वरस्यात्मनि धूयमानो दुर्मर्षणस्येव नरस्य मन्युः
पञ्चेषवो ऽन्येन तु विप्रमुक्तास्तस्थुर्नभस्येव मुनौ न पेतुः ।
संसारभीरोर्विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परिक्षकस्य
जिघासयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महर्षेः ।
सो ऽप्राप्तकामो विवशः पपात दोषेष्विवानर्थकरेषु लोकः
स्त्री मेघकाली तु कपालहस्ता कर्तु महर्षेः किल चित्तमोहम् ।
बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिरिवागमेषु
कश्चित्प्रदीप्तं प्रणिधाय चक्षुर्नेत्राग्निनाशीविषवद्दिधक्षुः ।
तत्रैव नासीनमृषिं ददर्श कामात्मकः श्रेय इवोपदिष्टम्
गुर्वी शिलामुद्यमयंस्तथान्यः शश्राम मोघं विहतप्रयत्नः ।
निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर्धर्ममिवाप्तुकामः
तरक्षुसिंहाकृतयस्तथान्ये प्रणेदुरुच्चैर्महतः प्रणादान् ।
सत्त्वानि यैः संचुकुचुः समन्ताद्वज्राहता द्यौः फलतीति मत्त्वा
मृगा गजाश्चार्तरवान् सृजन्तो विदुद्रुवुश्चैव निलिल्यिरे च ।
रात्रौ च तस्यामहनीव दिग्भ्यः खगा रुवन्तः परिपेतुरार्ताः
तेषां प्रणादैस्तु तथाविधैस्तै सर्वेषु भूतेष्वपि कम्पितेषु ।
मुनिर्न तत्रास न संचुकोच रवैर्गरुत्मानिव वायसानाम्
भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर्बिभाय ।
तथा तथा धर्मभृतां सपत्नः शोकाच्च रोषाच्च ससाद मारः
भूतं ततः किंचिद्दृश्यरूपं विशिष्टभूतं गगनस्थमेव ।
दृष्टवर्षये दुग्धमवैररुष्टं मारं बभाषे महता स्वरेण
मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मतामुत्सृज गच्छ शर्म ।
नैष त्वया कम्पयितुं हि शक्यो महागिरिर्मेरुरिवानिलेन
अप्युष्णभावं ज्वलनः प्रजह्यादापो द्रवत्वं प्रथिवी स्थिरत्वम् ।
अनेककल्पाचितपुण्यकर्मा न त्वेव जह्याद्व्यवसायमेषः
यो निश्चयो ह्यस्य पराक्रमश्च तेजश्च यद्या च दया प्रजासु ।
अप्राप्य नोत्थास्यति तत्त्वमेष तमांस्यहत्वेव सहस्ररश्मिः
काष्ठं हि मथ्नन् लभते हुताशं भूमिं खनन्विन्दति चापि तोयम् ।
निर्बन्धिनः किंचन नास्त्यसाध्यं न्यायेन युक्तं च कृतं च सर्वम्
तल्लोकमार्त करुणायमानो रोगेषु रागादिषु वर्तमानम् ।
महाभिषङ्ग नार्हति विघ्नमेष ज्ञानौषधार्थ परिखिद्यमानः
हृते च लोके बहुभिः कुमार्गैः सन्मार्गमन्विच्छति यः श्रमेण ।
स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थ इव प्रनष्टे
सत्त्वेषु नष्टेषु महान्धकारे ज्ञानप्रदीपः क्रियमाण एषः ।
आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस्तमसीव दीपः
दृष्ट्वा च संसारमये महौघे मग्नं जगत्पारमविन्दमानम् ।
यश्चेदमुत्तारयितुं प्रवृत्तः कश्चिन्तयेत्तस्य तु पापमार्यः
क्षमाशिफो धैर्यविगाढमूलश्चारित्रपुष्पः स्मृतिबुद्धिशाखः ।
ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्यर्हति वर्धमानः
बद्धां दृढैश्चेतसि मोहपाशैर्यस्य प्रजां मोक्षयितुं मनीषा ।
तस्मिन् जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः
बोधाय कर्माणि हि यान्यनेन कृतानि तेषां नियतो ऽद्य कालः ।
स्थाने तथास्मिन्नुपविष्ट एष यथैव पूर्वे मुनयस्तथैव
एषा हि नाभिर्वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना ।
भूमेरतो ऽन्यो ऽस्ति हि न प्रदेशो वेगं समाधेर्विषहेत यो ऽस्य
तन्मा कृथा शोकमुपेहि शान्तिं मा भून्महिम्ना तव मार मानः ।
विश्रम्भितुं न क्षममधुवा श्रीश्चले पदे विस्मयमभ्युपैषि
ततः स संश्रुत्य च तस्य तद्वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पताम् ।
जगाम मारो विमनो हतोद्यमः शरैर्जगच्चेतसि यैर्विहन्यते
गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा ।
दिशः प्रदुद्राव ततो ऽस्य सा चमूर्हताश्रयेव द्विषता द्विषच्चमूः
द्रवति सपरिपक्षे निर्जितै पुष्पकेतौ जयतिजितमस्के नीरजस्के महर्षौ ।
युवतिरिव सहासा द्यौश्चकाशे सचन्द्रा सुरभि च जलगर्भ पुष्पवर्ष पपात
मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0