Buddhacarita (अन्य संस्करण) · अध्याय 14
इति बुद्धचरिते महाकाव्ये ऽश्वघोषकृते मारविजयो नाम त्रयोदशः सर्गः ॥ 13 ॥
चन्तो xइव्
ततो मारबलं जित्वा धैर्येण च शमेन च ।
परमार्थ विजिज्ञासुः स दध्यौ ध्यानकोविदः
सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यमुत्तमम् ।
सस्मार प्रथमे यामे पूर्वजन्मपरंपराम्
अमुत्राहमयं नाम च्युतस्तस्मादिहागतः ।
उइति जन्मसहस्त्राणि सस्मारानुभवन्निव
स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु ।
ततः सत्त्वेषु कारुंण्यं चकार करुणात्मकः
कृत्वेह स्वजनोत्सर्ग पुनरन्यत्र च क्रियाः ।
अत्राणः खलु लोको ऽयं परिभ्रमति चक्रवत्
इत्येवं स्मरतस्तस्य बभूव नियतात्मनः ।
कदलीगर्भनिःसारः संसार इति निश्चयः
द्वितीये त्वागते यामे सो ऽद्वितीयपराक्रमः ।
दिव्यं लेभे परं चक्षुः सर्वचक्षुष्मतां वरः
ततस्तेन स दिव्येन परिशुद्धेन चक्षुषा ।
ददर्श निखिलं लोकमादर्श इव निर्मले
सत्त्वानां पश्यतस्तस्य निकृष्टोत्कृष्टकर्मणाम् ।
प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता
इमे दुष्कृतकर्माणः प्राणिनो यानि दुर्गतिम् ।
इमे ऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे
उपपन्नाः प्रतिभये नरके भृशदारुणे ।
अमी दुःखैर्बहुविधैः पीड्यन्ते कृपणं बत
पाय्यन्ते क्वथितं केचिदग्निवर्णमयोरसम् ।
आरोप्यन्ते रुवान्तो ऽन्ये निष्टप्तस्तम्भमायसम्
पच्यन्ते पिष्टवत्केचिदयस्कुम्भीष्ववाङ्मुखाः ।
दह्यन्ते करुणं केचिद्दीप्तेष्वङ्गारराशिषु
केचित्तीक्ष्णैरयोदंष्ट्रैर्भक्ष्यन्ते दारुणैः श्वभिः ।
केचिद्धृष्टैरयस्तुण्डैर्वायसैरायसैरिव
केचिद्दाहपरिश्रान्ताः शीतच्छायाभिकाङिक्षणः ।
असिपत्त्रवनं नीलं बद्धा इव विशन्त्यमी
पाट्यन्ते दारुवत्केचित्कुठारैर्बद्धबाहवः ।
दुःखे ऽपि न विपच्यन्ते कर्मभिर्धारितासवः
सुखं स्यादिति यत्कर्म कृतं दुःखनिवृत्तये ।
फलं तस्येदमवशैर्दुःखमेवोपभुज्यते
सुखार्थमशुभं कृत्वा य एते भृशदुःखिताः ।
आस्वादः स किमेतेषां करोति सुखमण्वपि
हसद्भिर्यत्कृतं कर्म कलुषं कलुषात्मभिः ।
एतत्परिणते काले क्रोशद्भिरनुभूयते
यद्येवं पापकर्माणः पश्येयुः कर्मणां फलम् ।
वमेयुरुष्णं रुधिरं मर्मस्वभिहता इव
इमे ऽन्ये कर्मभिश्चित्रैश्चित्तविस्पन्दसंभवैः ।
तिर्यग्योनौ विचित्रायाःमुपपन्नास्तपस्विनः
मांसत्वग्बालदन्तार्थ वैरादपि मदादपि ।
हन्यन्ते कृपणं यत्र बन्धूनां पश्यतामपि
अशक्नुवन्तो ऽप्यवशाः क्षुत्तर्षश्रमपीडिताः ।
गो ऽश्वभूताश्च वाह्यन्ते प्रतोदक्षतमूर्तयः
वाह्यन्ते गजभूताश्च वलीयांसो ऽपि दुर्बलैः ।
अङ्कशक्लिष्टमूर्धानस्ताडिताः पादपाष्णिभिः
सत्स्वप्यन्येषु दुःखेषु दुःखं यत्र विशेषतः ।
परस्परविरोधाच्च पराधीनतयैव च
खस्थाः खस्थैर्हि बाध्यन्ते जलस्था जलचारिभिः ।
स्थलस्थाः स्थलसंस्थैश्च प्राप्य चैवेतरेतरैः
उपपन्नास्तथा चेमे मात्सर्याक्रान्तचेतसः ।
पितृलोके निरालोके कृपणं भुञ्जते फलम्
सूचीछिद्रोपममुखाः पर्वतोपमकुक्षयः ।
क्षुत्तर्षजनितैर्दुःखै पीड्यन्ते दुःखभागिनः
आशया समतिक्रान्ता धार्यमाणाः स्वकर्मभिः ।
लभन्ते न ह्यमी भोक्तुं प्रविद्धान्यशुचीन्यपि
पुरुषो यदि जानीत मात्सर्यस्येदृशं फलम् ।
सर्वथा शिबिवद्दद्याच्छरीरावयवानपि
इमे ऽन्ये नरकप्रख्ये गर्भसंज्ञे ऽशुचिह्रदे ।
उपपन्ना मनुष्येषु दुःखमर्छन्ति जन्तवः
मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0