भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita (अन्य संस्करण) · अध्याय 12

12.1

इति बुद्धचरिते महाकाव्ये कामविगर्हणो नामैकादश सर्गः ॥ 11 ॥
चन्तो xइइ
ततः शमविहारस्य मुनेरिक्ष्वाकुचन्द्रमाः ।
अराडस्याश्रमं भेजे वपुषा पूरयन्निव

12.2

स कालामसगोत्रेण तेनालोक्यैव दूरतः ।
उच्चैः स्वागतमित्युक्तः समीपमुपजग्मिवान्

12.3

तावुभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परम् ।
दारव्योर्मेध्ययोर्वृष्योः शुचौ देशे निषेदतुः

12.4

तमासीनं नृपसुतं सो ऽब्रवीन्मुनिसत्तमः ।
बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्निव

12.5

विदितं मे यथा सौम्य निष्क्रान्तो भवनादसि ।
छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः

12.6

सर्वथा धृतिमच्चैव प्राज्ञं चैव मनस्तव ।
यस्त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलामिव

12.7

नाश्चर्य जीर्णवयसो यज्जग्मुः पार्थिवा वनम् ।
अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्छिष्टामिव स्रजम्

12.8

इदं मे मतमाश्चर्यं नवे वयसि यद्भवान् ।
अभुक्त्वैव श्रियं प्राप्तः स्थितो विषयगोचरे

12.9

तद्विज्ञातुमिमं धर्म परमं भाजनं भवान् ।
ज्ञानप्लमवधिष्ठाय शीघ्रं दुःखार्णवं तर

12.10

शिष्ये यद्यपि विज्ञाते शास्त्रं कालेन वर्ण्यते ।
गाम्भीर्याद्व्यवसायाच्च न परीक्ष्यो भवान्मम

12.11

इति वाक्यमराडस्य विज्ञाय स नरर्षभः ।
बभूव परमप्रीतः प्रोवाचोत्तरमेव च

12.12

विरक्तस्यापि यदिदं सौमुख्यं भवतः परम् ।
अकृतार्थो ऽप्यनेनास्मि कृतार्थ इव संप्रति

12.13

दिदृक्षुरिव हि ज्योतिर्यियासुरिव दैशिकम् ।
त्वद्दर्शनमहं मन्ये तितीर्षुरिव च प्लवम्

12.14

तस्मादर्हसि तद्वक्तुं वक्तव्यं यदि मन्यसे ।
जरामरणरोगेभ्यो यथायं परिमुच्यते

12.15

इत्यराडः कुमारस्य माहात्म्यादेव चोदितः ।
संक्षिप्तं कथयांचक्रे स्वस्य शास्त्रस्य निश्चयम्

12.16

श्रूयतामयमस्माकं सिद्धान्तः शृण्वतां वर ।
यथा भवति संसारो यथा चैव निवर्तते

12.17

प्रकृतिश्च विकारश्च जन्म मृत्युर्जरेव च ।
तत्तावत्सत्त्वमितुक्तं स्थिरसत्त्व परेहि तत्

12.18

तत्र तु प्रकृतिं नाम विद्धिं प्रकृतिकोविद ।
पञ्च भूतान्यहंकारं बुद्धिमव्यक्तमेव च

12.19

विकार इति बुध्यस्व विषयानिन्द्रियाणि च ।
पाणिपादं च वादं च पायूपस्थं तथा मनः

12.20

अस्य क्षेत्रस्य विज्ञानात्क्षेत्रज्ञ इति संज्ञि च ।
क्षेत्रज्ञ इति चात्मानं कथयन्त्यात्मचिन्तकाः

12.21

सशिष्यः कपिलश्चेह प्रतिबुद्ध इति स्मृतिः ।
सपुत्रो ऽप्रतिबुद्धस्तु प्रजापतिरिहोच्यते

12.22

जायते जीर्यते चैव बाध्यते म्रियते च यत् ।
तद्व्यक्तमिति विज्ञेयमव्यक्तं तु विपर्ययात्

12.23

अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः ।
स्थितो ऽस्मिंस्त्रितये जन्तुस्तत्सत्त्वं नातिवर्तते

12.24

विप्रत्ययादहंकारात्संदेहादभिसंप्लवात् ।
अविशेषानुपायाभ्यां सङ्गादभ्यवपाततः

12.25

तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते ।
अन्यथा कुरुते कार्यं मन्तव्यं मन्यते ऽन्यथा

12.26

ब्रवीम्यहमहं वेद्मि गच्छाम्यहमहं स्थितः ।
इतीहैवमहंकारस्त्वनहंकार वर्तते

12.27

यस्तु भावानसंदिग्धानेकीभावेन पश्यति ।
मृत्पिण्डवदसंदेह संदेहः स इहोच्यते

12.28

य एवाहं स एवेदं मनो बुद्धिश्च कर्म च ।
यश्चैवैष गणः सो ऽहमिति यः सो ऽभिसंप्लवः

12.29

अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः ।
प्रकृतीनां च यो वेद सो ऽविशेष इति स्मृतः

12.30

नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः ।
अनुपाय इति प्राज्ञैरुपायज्ञ प्रवेदितः

12.31

सज्जते येन दुर्मेधा मनोवाग्बुद्धिकर्मभिः ।
विषयेष्वनभिष्वङ्ग सो ऽभिष्वङ्ग इति स्मृतः

12.32

ममेदमहमस्येति यद्दुःखमभिमन्यते ।
विज्ञेयो ऽभ्यवपातः स संसारे येन पात्यते

12.33

इत्यविद्यां हि विद्वान्स पञ्चपर्वा समीहते ।
तमो मोहं महामोहं तामिस्रद्वयमेव च

12.34

तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च ।
महामोहस्त्वसंमोह काम इत्येव गम्यताम्

12.35

यस्मादत्र च भूतानि प्रमुह्यन्ति महान्त्यपि ।
तस्मादेष महाबाहो महामोह इति स्मृतः

12.36

तामिस्रमिति चाक्रोध क्रोधमेवाधिकुर्वते ।
विषादं चान्धतामिस्रमविषाद प्रचक्षते

12.37

अनयाविद्यया बालः संयुक्तः पञ्चपर्वया ।
संसारे दुःखभूयिष्ठे जन्मस्वभिनिषिच्यते

12.38

द्रष्टा श्रोता च मन्ता च कार्यकरणमेव च ।
अहमित्येवमागम्य संसारे परिवर्तते

12.39

इहैभिर्हेतुभिर्धीमन् जन्मस्त्रोतः प्रवर्तते ।
हेत्वभावात्फलाभाव इति विज्ञातुमर्हसि

12.40

तत्र सम्यङ्मतिर्विद्यान्मोक्षकाम चतुष्टयम् ।
प्रतिबुद्धाप्रबुद्धौ च व्यक्तमव्यक्तमेव च

12.41

यथावदेतद्विज्ञाय क्षेत्रज्ञो हि चतुष्टयम् ।
आजवंजवतां हित्वा प्राप्नोति पदमक्षरम्

12.42

इत्यर्थ ब्राह्मणा लोके परमब्रह्मवादिनः ।
ब्रह्मचर्य चरन्तीह ब्राह्मणान्वासयन्ति च

12.43

इति वाक्यमिदं श्रुत्वा मुनेस्तस्य नृपात्मजः ।
अभ्युपायं च पप्रच्छ पदमेव च नैष्ठिकम्

12.44

ब्रह्मचर्यमिदं चर्यं यथा यावच्च यत्र च ।
धर्मस्यास्य च पर्यन्तं भवान्व्याख्यातुमर्हति

12.45

इत्यराडो यथाशास्त्रं विस्पष्टार्थ समासतः ।
तमेवान्येन कल्पेन धर्ममस्मै व्यभाषत

12.46

अयमादौ गृहान्मुक्त्वा भैक्षाकं लिङ्गमाश्रितः ।
समुदाचारविस्तीर्ण शीलमादाय वर्तते

12.47

संतोषं परमास्थाय येन तेन यतस्ततः ।
विविक्तं सेवते वासं निर्द्वन्द्वः शास्त्रवित्कृती

12.48

ततो रागाद्भयं दृष्ट्वा वैराग्याच्च परं शिवम् ।
निगृह्णन्निन्द्रियग्रामं यतते मनसः शमे

12.49

अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च ।
विवेकजमवाप्नोति पूर्वध्यानं वितर्कवत्

12.50

तच्च ध्यानसुखं प्राप्य तत्तदेव वितर्कयान् ।
अपूर्वसुखलाभेन ह्रियते बालिशो जनः

12.51

शमेनैवंविधेनायं कामद्वेषविगर्हिणा ।
ब्रह्मलोकमवाप्नोति परितोषेण वञ्चितः

12.52

ज्ञात्वा विद्वान्वितर्कास्तु मनःसंक्षोभकारकान् ।
तद्वियुक्तमवाप्नोति ध्यानं प्रीतिसुखान्वितम्

12.53

ह्रियमाणस्तया प्रीत्या यो विशेषं न पश्यति ।
स्थानं भास्वरमाप्नोति देवेष्वाभास्वरेषु सः

12.54

यस्तु प्रीतिसुखात्तस्माद्विवेचयति मानसम् ।
तृतीयं लभते ध्यानं सुखं प्रीतिविवर्जितम्

12.55

यस्तु तस्मिन्सुखे मग्नो न विशेषाय यत्नवान् ।
शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः

12.56

तादृशं सुखामासाद्य यो न रज्यत्युपेक्षकः
चतुर्थ ध्यानमाप्नोति सुखदुःखविवर्जितम्

12.57

तत्र केचिद्व्यवस्यन्ति मोक्ष इत्यभिमानिनः ।
सुखदुःखपरित्यागादव्यापाराच्च चेतसः

12.58

अस्य ध्यानस्य तु फलं समं देवैर्बृहत्फलैः ।
कथयन्ति बृहत्कालं बृहत्प्रज्ञापरीक्षकाः

12.59

समाधेर्व्युत्थितस्तस्माद् दृष्त्वा दोषांश्छरीरिणाम् ।
ज्ञानमारोहति प्राज्ञः शरीरविनिवृत्तये

12.60

ततस्तद्ध्यानमुत्सृज्य विशेषे कृतनिश्चयः ।
कामेभ्य इव स प्राज्ञो रूपादपि विरज्यते

12.61

शरीरे खानि यान्यस्मिन्तान्यादौ परिकल्पयन् ।
घनेष्वपि ततो द्रव्येष्वाकाशमधिमुच्यते

12.62

आकाशगतमात्मानं संक्षिप्य त्वपरो बुधः ।
तदेवानन्ततः पश्यन्विशेषमधिगच्छति

12.63

अध्यात्मकुशलस्त्वन्यो निवर्त्यात्मानमात्मना ।
किंचिन्नास्तीति संपश्यन्नाकिंचन्य इति स्मृतः

12.64

ततो मुञ्जादिषीकेव शकुनिः पञ्जरादिव ।
क्षेत्रज्ञो निःसृतो देहान्मुक्त इत्यभिधीयते

12.65

एतत्तत्परमं ब्रह्म निर्लिङ्ग ध्रुवमक्षरम् ।
यन्मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः

12.66

इत्युपायंश्च मोक्षश्च मया संदर्शितस्तव ।
यदि ज्ञातं यदि रुचिर्यथावत्प्रतिपद्यताम्

12.67

जैगीषव्यो ऽथ जनको वृद्धश्चैव पराशरः ।
इमं पन्थानमासाद्य मुक्ता ह्यन्ये च मोक्षिणः

12.68

इति तस्य स तद्वाक्यं गृहीत्वा तु विचार्य च ।
पूर्वहेतुबलप्राप्तः प्रत्युत्तरमुवाच ह

12.69

श्रुतं ज्ञानमिदं सूक्ष्मं परतः परतः शिवम् ।
क्षेत्रज्ञस्यापरित्यागादवैम्येतदनैष्ठिकम्

12.70

विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तमप्यहम् ।
मन्ये प्रसवधर्माणं बीजधर्माणमेव च

12.71

विशुद्धो यद्यपि ह्यात्मा निर्मुक्त इति कल्प्यते ।
भूयः प्रत्ययसद्भावादमुक्तः स भविष्यति

12.72

ऋतुभूम्यम्बुविरहाद्यथा बीजं न रोहति ।
रोहति प्रत्ययैस्तैस्तैस्तद्वत्सो ऽपि मतो मम

12.73

यत्कर्माज्ञानतृष्णानां त्यागान्मोक्षश्च कल्प्यते ।
अत्यन्तस्तत्परित्यागः सत्यात्मनि न विद्यते

12.74

हित्वा हित्वा त्रयमिदं विशेषस्तूपलभ्यते ।
आत्मनस्तु स्थितिर्यत्र तत्र सूक्ष्ममिदं त्रयम्

12.75

सूक्ष्मत्वाच्चैव दोषाणामव्यापाराच्च चेतसः ।
दीर्घत्वादायुषश्चैव मोक्षस्तु परिकल्प्यते

12.76

अहंकारपरित्यागो यश्चैष परिकल्प्यते ।
सत्यात्मनि परित्यागो नाहंकारस्य विद्यते

12.77

संख्यादिभिरमुक्तश्च निर्गुणो न भवत्ययम् ।
तस्मादसति नैर्गुण्ये नास्य मोक्षो ऽभिधीयते

12.78

गुणिनो हि गुणानां च व्यतिरेको न विद्यते ।
रूपोष्णाभ्यां विरहितो न ह्यग्निरुपलभ्यते

12.79

प्राग्देहान्न भवेद्देही प्राग्गुणेभ्यस्तथा गुणी ।
तस्मादादौ विमुक्तः सन् शरीरी बध्यते पुनः

12.80

क्षेत्रज्ञो विशरीरश्च ज्ञो वा स्यादज्ञ एव वा ।
यदि ज्ञो ज्ञेयमस्यास्ति ज्ञेये सति न मुच्यते

12.81

अथाज्ञ इति सिद्धो वः कल्पितेन किमात्मना ।
विनापि ह्यात्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवत्

12.82

परतः परतस्त्यागो यस्मात्तु गुणवान् स्मृतः ।
तस्मात्सर्वपरित्यागान्मन्ये कृत्स्नां कृतार्थताम्

12.83

इति धर्ममराडस्य विदित्वा न तुतोष सः ।
अकृत्स्नमिति विज्ञाय ततः प्रतिजगाम ह

12.84

विशेषमथ शुश्रूषुरुद्रकस्याश्रमं ययौ ।
आत्मग्राहाच्च तस्यापि जगृहे न स दर्शनम्

12.85

संज्ञासंज्ञित्वयोर्दोषं ज्ञात्वा हि मुनिरुद्रकः ।
आकिंचन्यात्परं लेभेऽसंज्ञासंज्ञात्मिकां गतिम्

12.86

यस्माच्चालम्बने सूक्ष्मे संज्ञासंज्ञे ततः परम् ।
नासंज्ञी नैव संज्ञीति तस्मात्तत्रगतस्पृहः

12.87

यतश्च बुद्धिस्तत्रैव स्थितान्यत्राप्रचारिणी ।
सूक्ष्मापट्वी ततस्तत्र नासंज्ञित्वं न संज्ञिता

12.88

यस्माच्च तदपि प्राप्य पुनरावर्तते जगत् ।
बोधिसत्त्वः परं प्रेप्सुस्तस्मादुद्रकमत्यजत्

12.89

ततो हित्वाश्रमं तस्य श्रेयो ऽर्थी कृतनिश्चयः ।
भेजे गयस्य राजर्षेर्नगरीसंज्ञमाश्रमम्

12.90

अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः ।
चकार वासमेकान्तविहाराभिरतिर्मुनिः

12.91

आगतान् तत्र तत्पूर्वपञ्चेन्द्रियवशोद्धतान् ।
तपःप्रवृत्तान् व्रतिनो भिक्षून् पञ्च निरैक्षत

12.92

ते चोपतस्त्थुर्दृष्ट्वात्र भिक्षवस्तं मुमुक्षवः ।
पुण्यार्जितधनारोग्यमिन्द्रियार्था इवेश्वरम्

12.93

संपूज्यमानस्तैः प्रव्हैर्विनयादनुवर्तिभिः ।
तद्वशस्थायिभिः शिष्यैर्लोलैर्मन इवेन्द्रियैः

12.94

मृत्युजन्मान्तकरणे स्यादुपायो ऽयमित्यथ ।
दुष्कराणि समारेभे तपांस्यनशनेन सः

12.95

उपवासविधीन्नैकान् कुर्वन्नरदुराचरान् ।
वर्षाणि षट् शमप्रेप्सुरकरोत्कार्श्यमात्मनः

12.96

अन्नकालेषु चैकैकैः स कोलतिलतण्डुलैः ।
अपारपारसंसारपारं प्रेप्सुरपारयत्

12.97

देहादपचयस्तेन तपसा तस्य यः कृतः ।
स एवोपचयो भूयस्तेजसास्य कृतो ऽभवत्

12.98

कृशो ऽप्यकृशकीर्तिश्रीर्ल्हादं चक्रे ऽन्यचक्षुषाम् ।
कुमुदानामिव शरच्छुक्लपक्षादिचन्द्रमाः

12.99

त्वगस्थिशेषो निःशेषैर्मेदःपिशितशोणितैः ।
क्षीणो ऽप्यक्षीणगाम्भीर्यः समुद्र इव स व्यभात्

12.100

अथ कष्टतपःस्पष्टव्यर्थक्लिष्टतनुर्मुनिः ।
भवभीरुरिमां चक्रे बुद्धिं बुद्धत्वकाङ्क्षया

12.101

नायं धर्मो विरागाय न बोधाय न मुक्तये ।
जम्बुमूले मया प्राप्तो यस्तदा स विधिर्ध्रुवः

12.102

न चासौ दुर्बलेनाप्तुं शक्यमित्यागतादरः ।
शरीरबलवृद्ध्यर्थमिदं भूयो ऽन्वचिन्तयत्

12.103

क्षुत्पिपासाश्रमक्लान्तः श्रमादस्वस्थमानसः ।
प्राप्नुयान्मनसावाप्यं फलं कथमनिर्वृतः

12.104

निर्वृतिः प्राप्यते सम्यक् सततेन्द्रियतर्पणात् ।
संतर्पितेन्द्रियतया मनःस्वास्थ्यमवाप्यते

12.105

स्वस्थप्रसन्नमनसः समाधिरुपपद्यते ।
समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते

12.106

ध्यानप्रवर्तनाद्धर्माः प्राप्यन्ते यैरवाप्यते ।
दुर्लभं शान्तमजरं परं तदमृतं पदम्

12.107

तस्मादाहारमूलो ऽयमुपाय इतिनिश्चयः ।
आहारकरणे धीरः कृत्वामितमतिर्मतिम्

12.108

स्नातो नैरञ्जनातीरादुत्ततार शनैः कृशः ।
भक्त्यावनतशाखाग्रैर्दत्तहस्तस्तटद्रुमैः

12.109

अथ गोपाधिपसुता दैवतैरभिचोदिता ।
उद्भुतहृदयानन्दा तत्र नन्दबलागमत्

12.110

सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी ।
सफेनमालानीलाम्बुर्यमुनेव सरिद्वरा

12.111

सा श्रद्धावर्धितप्रीतिर्विकसल्लोचनोत्पला ।
शिरसा प्रणिपत्यैनं ग्राहयामास पायसम्

12.112

कृत्वा तदुपभोगेन प्राप्तजन्मफलां स ताम् ।
बोधिप्राप्तौ समर्थो ऽभूत्संतर्पितषडिन्द्रियः

12.113

पर्याप्ताप्यानमूर्तिश्च सार्ध स्वयशसा मुनिः ।
कान्तिधैर्ये बभारैकः शशाङ्कार्णवयोर्द्वयोः

12.114

आवृत्त इति विज्ञाय तं जहुः पञ्च भिक्षवः ।
मनीषिणमिवात्मानं निर्मुक्तं पञ्च धातवः

12.115

व्यवसायद्वितीयो ऽथ शाद्वलास्तीर्णभूतलम् ।
सो ऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः

12.116

ततस्तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः ।
महामुनेरागतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिम्

12.117

यथा मुने त्वच्चरणावपीडिता मुहुर्मुहुर्निष्टनतीव मेदिनी ।
यथा च ते राजति सूर्यवत्प्रभा ध्रूवं त्वमिष्टं फलमद्य भोक्ष्यसे

12.118

यथा भ्रमन्त्यो दिवि चाषपङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते ।
यथा च सौम्या दिवि वान्ति वायवस्त्वमद्य बुद्धो नियतं भविष्यसि

12.119

ततो भुजङ्गप्रवरेण संस्तुतस्तृणान्युपादाय शुचीनि लावकात् ।
कृतप्रतिज्ञो निषसाद बोधये महातरोर्मूलमुपाश्रितः शुचेः

12.120

ततः स पर्यङ्कमकम्प्यमुत्तमं बबन्ध सुप्तोरगभोगपिण्डितम् ।
भिनद्मि तावद्भुवि नैतदासनं न यामि यावत्कुतकृत्यतामिति

12.121

ततो ययुर्मदमतुलां दिवौकसो ववाशिरे न मृगगणा न पक्षिणः ।
न सस्वनुर्वनतरवो ऽनिलाहताः कृतासने भगवति निश्चितात्मनि

मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc