Buddhacarita (अन्य संस्करण) · अध्याय 11
इति बुद्धचरिते महाकाव्ये ऽश्वघोषकृते श्रेण्याभिगमनो नाम दशमः सर्गः ॥ 10 ॥
चन्तो xइ
अथैवमुक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलमर्थम् ।
स्वस्थो ऽविकारः कुलशौचशुद्धः शौद्धोदनिर्वाक्यमिदं जगाद
नाश्चर्यमेतद्भवतो विधानं जातस्य हर्यङ्ककुले विशाले ।
यन्मित्रपक्षे तव मित्रकाम स्याद्वृत्तिरेषा परिशुद्धवृत्तेः
असत्सु मैत्री स्वकुलानुवृत्ता न तिष्ठति श्रीरिव विक्लवेषु ।
पूर्वैः कृतां प्रीतिपरंपराभिस्तामेव सन्तस्तु विवर्धयन्ति
ये चार्थकृच्छेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः ।
मित्राणिः तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्विह को हि न स्यात्
एवं च ये द्रव्यमवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति ।
अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम्
सुहृत्तया चार्यतया च राजन् खल्वेष यो मां प्रति निश्चयस्ते ।
अत्रानुनेष्यामि सुहृत्तयैव ब्रूयामहं नोत्तरमन्यदत्र
अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्ममिमं प्रपन्नः ।
बन्धून् प्रियानश्रुमुखान्विहाय प्रागेव कामानुशुभस्य हेतून्
नाशीविषेभ्यो हि तथा बिभेमि नैवाशनिभ्यो गगनाच्च्युतेभ्यः ।
न पावकेभ्यो ऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य एव
कामा ह्यनित्याः कुशलार्थचौरा रिक्ताश्च मायासदृशाश्च लोके ।
आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनरात्मसंस्थाः
कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं बत मर्त्यलोके ।
कामैः सतृष्णस्य हि नास्ति तृप्तिर्यथेन्धनैर्वातसखस्य वन्हेः
जगत्यनर्थो न समो ऽस्ति कामैर्मोहाच्च तेष्वेव जनः प्रसक्तः ।
तत्त्वं विदित्वैवमनर्थभीरुः प्राज्ञः स्वयं को ऽभिलषेदनर्थम्
समुद्रवक्त्रामपि गामवाप्य पारं जिगीषन्ति महार्णवस्य ।
लोकस्य कामैर्न वितृप्तिरस्ति पतिद्भिरम्भोभिरिवार्णवस्य
देवेन वृष्टे ऽपि हिरण्यवर्षे द्वीपान्समग्रांश्चतुरो ऽपि जित्वा ।
शक्रस्य चार्धासनमप्यवाप्य मान्धातुरासीद्विषयेष्वतृप्तिः
भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात्प्रनष्टे ।
दर्पान्महर्षीनपि वाहयित्वा कामेष्वतृप्तो नहुषः पपात
ऐडश्च राजा त्रिदिवं विगाह्य नीत्वापि देवी वशमुर्वशी ताम् ।
लोभादृषिभ्यः कनकं जिहीर्षुर्जगाम नाशं विषयेष्वतृप्तः
बलेर्महेन्द्रं नहुषं महेन्द्रादिन्द्रं पुनर्ये नहुषादुपेयुः ।
स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद्भाग्यकुलाकुलेषु
चीराम्बरा मूलफलाम्बुभक्षा जटा वहन्तो ऽपि भुजङ्गदीर्घाः ।
यैर्नान्यकार्या मुनयो ऽपि भग्नाः कः कामसंज्ञान्मृगयेत शत्रून्
उग्रायुधश्चोग्रधृतायुधो ऽपि येषां कृते मृत्युमवाप भीष्मात् ।
चिन्तापि तेषामशिवा वधाय सद्वृत्तिनां किं पुनरव्रतानाम्
आस्वादमल्पं विषयेषु मत्वा संयोजनोत्कर्षमतृप्तिमेव ।
सद्भ्यश्च गर्हा नियतं च पापं कः कामसंज्ञं विषमाददीत
कृष्यादिभिः कर्मभिरर्दितानां कामात्मकानां च निशम्य दुःखम् ।
स्वास्थ्यं च कामेष्वकुतूहलानां कामान्विहातुं क्षममात्मवद्भिः
ज्ञेया विपत्कामिनि कामसंपत्सिद्धेषु कामेषु मदं ह्युपैति ।
मदादकार्य कुरुते न कार्य येन क्षतो दुर्गतिमभ्युपैति
यत्नेन लब्ध्वाः परिरक्षिताश्च ये विप्रलभ्य प्रतियान्ति भूयः ।
तेष्वात्मवान्याचितकोपमेषु कामेषु विद्वानिह को रमेत
अन्विष्य चादाय च जाततर्षा यानत्यजन्तः परियान्ति दुःखम् ।
लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्
अनात्मवन्तो हृदि यैर्विदष्टा विनाशमर्छन्ति न यान्ति शर्म ।
कुद्धोग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्
अस्थि क्षुधार्ता इव सारमेया भुक्त्वापि यान्नैव भवन्ति तृप्ताः ।
जीर्णस्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्
ये राजचौरोदकपावकेभ्यः साधारणत्वाज्जनयन्ति दुःखम् ।
तेषु प्रविद्धामिषसनिभेषु कामेषु कस्यात्मवतो रतिः स्यात्
यत्र स्थितानामभितो विपत्तिः शत्रोः सकाशादपि बान्धवेभ्यः ।
हिंस्रेषु तेष्वायतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात्
गिरौ वने चाप्सु च सागरे च यान् भ्रंशमर्छन्ति विलङ्घमानाः ।
तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात्
तीव्रैः प्रयत्नैर्विविधैरवाप्ताः क्षणेन ये नाशमिह प्रयान्ति ।
स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्
यानर्जयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा ।
अङ्गारकर्षूप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्
विनाशमीयुः कुरवो यदर्थ वृष्ण्यन्धका मेखलदण्डकाश्च ।
सूनासिकाष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्
सुन्दोपसुन्दावसुरौ यदर्थमन्योन्यवैरप्रसृतौ विनष्टौ ।
सौहार्दीवश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्
येषां कृते वारिणि पावके च । क्रव्यात्सु चात्मानमिहोत्सृजन्ति ।
सपत्नभूतेष्वशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्
कामार्थमज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि ।
कामार्थमाशाकृपणस्तपस्वी मृत्युं श्रमं चार्छति जीवलोकः
गीतैर्हियन्ते हि मृगा वधाय रूपार्थमग्नौ शलभाः पतन्ति ।
मत्स्यो गिरत्यायसमामिषार्थी तस्मादनर्थ विषयाः फलन्ति
कामास्तु भोगा इति यन्मतिः स्याद्भोगा न केचित्परिगण्यमानाः
वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः
इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोरशनं तथैव ।
वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः
निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय ।
तथासनं स्थानविनोदनाय स्नानं मृजरोग्यबलाश्रयाय
दुःखप्रतीकारनिमित्तभूतास्तस्मात्प्रजानां विषया न भोगाः ।
अश्नामि भोगानिति को ऽभ्युपेयात्प्राज्ञः प्रतीकारविधौ प्रवृत्तः
यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत् ।
दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात्स हि भोगसंज्ञाम्
कामेष्वनैकान्तिकता च यस्मादतो ऽपि मे तेषु न भोगसंज्ञा ।
य एव भावा हि सुखं दिशन्ति त एव दुःखं पुनरावहन्ति
गुरूणि वासांस्यगुरूणि चैव सुखाय शीते ह्युसुखाय धर्मे ।
चन्द्रांशवश्चन्दनमेव चोष्णे सुखाय दुःखाय भवन्ति शीते
द्वन्द्वानि सर्वस्य यतः प्रसक्तान्यलाभलाभप्रभृतीनि लोके ।
अतो ऽपि नैकान्तसुखो ऽस्ति कश्चिन्नैकान्तदुःख पुरुषः पृथिव्याम्
दृष्ट्वा विमिश्रां सुखदुःखतां मे राज्यं च दास्यं च मतं समानम् ।
नित्यं हसत्येव हि नैव राजा न चापि संतप्यत एव दासः
आज्ञा नृपत्वे ऽभ्यधिकेति यत्स्यान्महान्ति दुःखान्यत एव राज्ञः ।
आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदमेति
राज्ये नृपस्त्यागिनि बव्हमित्रे विश्वासमागच्छति चेद्विपन्नः ।
अथापि विश्रम्भमुपैति नेह किं नाम सौख्यं चकितस्य राज्ञः
यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरमेकमेव ।
तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः
राज्ञो ऽपि वासोयुगमेकमेव क्षुत्संनिरोधाय तथान्नमात्रा ।
शय्या तथैकासनमेकमेव शेषा विशेषा नृपतेर्मदाय
तुष्ट्यर्थमेतच्च फलं यदीष्टमृते ऽपि राज्यान्मम तुष्टिरस्ति ।
तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः
तन्नास्मि कामान् प्रति संप्रतार्यः क्षेमं शिवं मार्गमनुप्रपन्नः ।
स्मृत्वा सुहृत्त्वं तु पुनः पुनर्मा ब्रूहि प्रतिज्ञां खलु पालयेति
न ह्यस्म्यमर्षेण वनं प्रविष्टो न शत्रुबाणैरवधूतमौलिः ।
कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद्वचनं यतस्ते
यो दन्दशूकं कुपितं भुजङ्गं मुक्त्वा व्यवस्येद्धि पुनर्ग्रहीतुम् ।
दाहात्मिकां वा ज्वलितां तृणोल्कां संत्यज्य कामान्स पुनर्भजेत
अन्धाय यश्च स्पृहयेदनन्धो बद्धाय मुक्तो विधनाय चाढ्यः ।
उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद्विषयात्मकाय
भैक्षोपभोगीति च नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः ।
इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि
लक्ष्म्यां महत्यामपि वर्तमानस्तृष्णाभिभूतस्त्वनुकम्पितव्यः ।
प्राप्नोति यः शान्तिसुखं न चेह परत्र दुःखै प्रतिगृह्यते च
एवं तु वक्तुं भवतो ऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव ।
ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव
अहं हि संसारशरेण विद्धो विनिःसृतः शान्तिमवाप्तुकामः ।
नेच्छेयमाप्तुं त्रिदिवे ऽपि राज्यं निरामयं किं बत मानुषेषु
त्रिवर्गसेवां नृप यत्तु कृत्स्नतः परो मनुष्यार्थ इति त्वमात्थ माम् ।
अनर्थ इत्येव ममात्र दर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः
पदे तु यस्मिन्न जरा न भीर्न रूङ् न जन्म नैवोपरमो न चाधयः ।
तमेव मन्ये पुरुषार्थमुत्तमं न विद्यते यत्र पुनः पुनः क्रिया
यदप्यवोच परिपाल्यतां जरा नव वयो गच्छति विक्रियामिति ।
अनिश्चयो ऽय चपलं हि दृश्यते जराप्यधीरा धृतिमच्च यौवनम्
स्वकर्मदक्षश्च यदान्तको जगद् वयसु सर्वेष्ववश विकर्षति ।
विनाशकाले कथमव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना
जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध इवाशिवः स्थितः ।
प्रजामृगान् भाग्यवनाश्रितांस्तुदन् वयःप्रकर्ष प्रति को मनोरथः
अतो युवा वा स्थविरो ऽथवा शिशुस्तथा त्वरावानिह कर्तुमर्हति ।
यथा भवेद्धर्मवतः कृतात्मनः प्रवृत्तिरिष्टा विनिवृत्तिरेव वा
यदात्थ चापीष्टफलां कुलोचितां कुरुष्व धर्माय मखक्रियामिति ।
नमो मखेभ्यो न हि कामये सुखं परस्य दुःखक्रियया यदिष्यते
परं हि हन्तुं विवशं फलेप्सया न युक्तरूप करुणात्मनः सतः ।
क्रतोः फलं यद्यपि शाश्वतं भवेत्तथापि कृत्त्वा किमु यत्क्षयात्मकम्
भवेच्च धर्मो यदि नापरो विधिर्व्रतेन शीलेन मनःशमेन वा ।
तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परमुच्यते फलम्
इहापि तावत्पुरुषस्य तिष्ठतः प्रवर्तते यत्परहिंसया सुखम् ।
तदप्यनिष्टं सघृणस्य धीमतो भवान्तरे किं बत यन्न दृश्यते
न च प्रतार्यो ऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः ।
लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चलाः
इहागतश्चहमितो दिदृक्षया मुनेरराडस्य विमोक्षवादिनः ।
प्रयामि चाद्यैव नृपास्तु ते शिवं वचः क्षमेथा मम तत्त्वनिष्ठुरम्
अवेन्द्रवद्दिव्यव शश्वदर्कवद् गुणैरव श्रेय इहाव गामव ।
अवायुरार्यैरव सत्सुतानव श्रियश्च राजन्नव धर्ममात्मनः
हिमारिकेतूद्भवसंभवान्तरे यथा द्विजो याति विमोक्षयंस्तनुम् ।
हिमारिशत्रुक्षयशत्रुघातने तथान्तरे याहि विमोक्षयन्मनः
नृपो ऽब्रवीत्साञ्जलिरागतस्पृहो यथेष्टमाप्नोतु भवानविघ्नतः ।
अवाप्य काले कृतकृत्यतामिमां ममापि कार्यो भवता त्वनुग्रहः
स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वंतरमाश्रमं ययौ ।
परिव्रजन्तं तमुदीक्ष्य विस्मितो नृपो ऽपि वव्राज पुरि गिरिव्रजम्
मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0