भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 96

96.01

पक्षाद् भानोः सोमस्य मासिको +अङ्गारकस्य वक्त्र^उक्तः।
आदर्शनाच् च पाको बुधस्य जीवस्य वर्षेण॥

96.02

षड्भिः सितस्य मासैर् अब्देन शनेः सुरद्विषो +अब्दार्धात्।
वर्षात् सूर्यग्रहणे सद्यः स्यात् त्वाष्ट्र^कीलकयोः॥

96.03

त्रिभिर् एव धूमकेतोर् मासैः श्वेतस्य सप्तरात्र^अन्ते।
सप्ताहात् परिवेष^इन्द्रचाप^सन्ध्या^अभ्रसूचीनाम्॥

96.04

शीत^उष्ण^विपर्यासः फल^पुष्पम् अकालजं दिशां दाहः।
स्थिर^चरयोर् अन्यत्वं प्रसूति^विकृतिश् च षण्^मासात्॥

96.05

अक्रियमाणक^करणं भूकम्पो +अनुत्सवो दुरिष्टं च।
शोषश् च^अशोष्याणां स्रोतो +अन्यत्वं च वर्ष^अर्धात्॥

96.06

स्तम्भ^कुसूल^अर्चानां जल्पित^रुदित^प्रकम्पित^स्वेदाः।
मास^त्रयेण कलह^इन्द्रचाप^निर्घात^पाकाश् च॥

96.07

कीट^आखु^मक्षिक^उरग^बाहुल्यं मृग^विहङ्ग^विरुतं च।
लोष्टस्य चाप्सु तरणं त्रिभिर् एव विपच्यते मासैः॥

96.08

प्रसवः शुनाम् अरण्ये वन्यानां ग्राम^सम्प्रवेशश् च।
मधुनिलय^तोरण^इन्द्रध्वजाश् च वर्षात् समधिकाद् वा॥

96.09

गोमायु^गृध्र^संघा दश^अहिकाः सद्य एव तूर्य^रवः।
आक्रुष्टं पक्ष^फलं वल्मीको विदरणं च भुवः॥

96.10

अहुताश^प्रज्वलनं घृत^तैल^वसा^आदि^वर्षणं च^अपि।
सद्यः परिपच्यन्ते मासे +अध्यर्धे च जनवादः॥

96.11

छत्र^चिति^यूप^हुतवह^बीजानां सप्तभिर् भवति पक्षैः।
छत्रस्य तोरणस्य च केचिन् मासात् फलं प्राहुः ॥

96.12

अत्यन्त^विरुद्धानां स्नेहः शब्दश् च वियति भूतानाम्।
मार्जार^नकुलयोर् मूषकेण सङ्गश् च मासेन॥

96.13

गन्धर्वपुरं मासाद् रस^वैकृत्यं हिरण्य^विकृतिश् च।
ध्वज^वेश्म^पांशु^धूम^आकुला दिशश् च^अपि मास^फलाः॥

96.14

नवक^एक^अष्ट^दशक^एक^षट्^त्रिक^त्रिक^सङ्ख्य^मास^पाकानि।
नक्षत्राण्य् अश्विनिपूर्वकाणि सद्यः फल^आश्लेषा॥

96.15

पित्र्यान् मासः षट् सट्^त्रयो +अर्धम् अष्टौ च त्रि^षड्^एक^एकाः।
मास^चतुष्के +अषाढे सद्यः पाक^अभिजित्तारा॥

96.16

सप्त^अष्टव् अध्यर्धं त्रयस् त्रयः पञ्च च^एव मासाः स्युः।
श्रवण^आदीनां पाको नक्षत्राणां यथासङ्ख्यम्॥

96.17

निगदित^समये न दृश्यते चेद्
अधिकतरं द्विगुणे प्रपच्यते तत्।
यदि न कनक^रत्न^गो^प्रदानैर्
उपशमितं विधिवद् द्विजैश् च शान्त्या॥
97 नक्षत्रकर्मगुणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc