बृहत्संहिता · अध्याय 95
दिग्^देश^चेष्टा^स्वर^वासर^ऋक्ष^मुहूर्त^होरा^करण^उदय^अंशान्।
चर^स्थिर[क्.चिरस्थिर, क्ऽस् त्र्. चरस्थिर]^उन्मिश्र^बल^अबलं च बुद्ध्वा फलानि प्रवदेद् रुतज्णः॥
द्विविधं कथयन्ति संस्थितानाम्
आगामि^स्थिर^संज्ञितं च कार्यम्।
नृप^दूत^चर^अन्यदेश^जातान्य्
अभिघातः स्वजनादि च^आगम^आख्यम्॥
उद्बद्ध^संग्रहण^भोजन^चौर^वह्नि^
वर्ष^उत्सव^आत्मज^वधाः कलहो भयं च।
वर्गः स्थिरो +अयम् उदय^इन्दुयुते स्थिर^ऋक्षे
विद्यात् स्थिरं चरगृहे च चरं यद् उक्तम्॥
स्थिर^प्रदेश^उपल^मन्दिरेषु सुरालये भू^जल^सन्निधौ च।
स्थिराणि कार्याणि चराणि यानि चल^प्रदेश^आदिषु च^आगमाय॥
आप्य^उदय^ऋक्ष^क्षण^दिग्^जलेषु
पक्ष^अवसानेषु च ये प्रदीप्ताः।
सर्वे +अपि ते वृष्टिकरा रुवन्तः
शान्तो +अपि वृष्टिं कुरुते +अम्बुचारी॥
आग्नेय^दिग्^लग्न^मुहूर्त^देशेष्व्
अर्क^प्रदीप्तो +अग्निभयाय रौति।
विष्ट्यां यम^ऋक्ष^उदय^कण्टकेषु
निष्पत्र^वल्लीषु च दोषकृत्[क्.मोषकृत्] स्यात्॥
ग्राम्यः प्रदीप्तः स्वर^चेष्टिताभ्याम्
उग्रो रुवन् कण्टकिनि स्थितश् च।
भौम^ऋक्षलग्ने यदि नैरृतीं च
स्थितो +अभितश् चेत् कलहाय दृष्टः॥
लग्ने +अथ वा^इन्दोर् भृगु^भ^अंश^संस्थे
विदिक्^स्थितो +अधो^वदनश् च रौति।
दीप्तः स चेत् संग्रहणं करोति
योन्या तया या विदिशि प्रदिष्टा॥
पुंराशि^लग्ने विषमे तिथौ च
दिक्स्थः प्रदीप्तः शुकुनो नर^आख्यः।
वाच्यं तदा संग्रहणं नराणां
मिश्रे भवेत् पण्डक^सम्प्रयोगः॥
एवं रवेः क्षेत्र^नवांश^लग्ने
लग्ने स्थिते वा स्वयम् एव सूर्ये।
दीप्तो +अभिधत्ते शकुनो विरौति[क्.विवासं]
पुंसः प्रधानस्य हि कारणं तत्॥
प्रारम्भमाणेषु[क्.प्रारभ्यमाणेषु] च सर्व^कार्येष्व् अर्क^अन्विताद् भाद् गणयेद् विलग्नम्।
सम्प्तद् विपच् च^इति यथा क्रमेण सम्पद् विपच् च^इति[क्.वा^अपि] तथ^एव वाच्यम्[क्.वाच्या]॥
काणेन^अक्ष्णा दक्षिणेन^एति सूर्ये
चन्द्रे लग्नाद् द्वादशे च^इतरेन।
लग्नस्थे +अर्के पापदृष्टे +अन्ध एव
कुब्जः स्व^ऋक्षे श्रोत्र^हीनो जडो वा॥
क्रूरः षष्ठे क्रूरदृष्टो विलग्नाद्
यस्मिन् राशौ तद्गृह^अङ्गे व्रणो +अस्य[क्.स्यात्]।
एवं प्रोक्तं यन् मया जन्मकाले
चिह्नं रूपं तत् तद् अस्मिन् विचिन्त्यम्॥
95.ॠ1अ अतः परं लोक^निरूपितानि[क्.ओमित्स् fरोम् 95.ॠ1अ तो 95.ॠ32द्]
95.ॠ1ब् द्रव्येषु नाना^अक्षर^संग्रहाणि।
95.ॠ1च् इष्ट^प्रणीतानि विभाजितानि
95.ॠ1द् नामानि केन्द्र^क्रमशः प्रवक्ष्ये॥
95.ॠ2अ लग्न^अम्बु^संस्थ^अस्त^नभःस्थितेषु
95.ॠ2ब् क्षेत्रेषु ये लग्नगता गृह^अंशाः।
95.ॠ2च् तेभ्यो +अक्षराण्य् आत्मगृह^आश्रयाणि
95.ॠ2द् विन्द्याद् ग्रहाणां स्वगण^क्रमेण॥
95.ॠ3अ क^वर्ग^पूर्वान् कुज^शुक्र^चान्द्रि^
95.ॠ3ब् जीव^अर्कजानां प्रवदन्ति वर्गान्।
95.ॠ3च् य^कार^पूर्वाः शशिनो निरुक्ता
95.ॠ3द् वर्णास् त्व् अ^कार^प्रभवा रवेः स्युः॥
95.ॠ4अ द्रेष्काण^वृद्ध्या प्रवदन्ति नाम
95.ॠ4ब् त्रि^पञ्च^सप्त^अक्षरम् ओजराशौ।
95.ॠ4च् युग्मे तु विन्द्याद् द्वि^चतुष्क^षट्कं
95.ॠ4द् नाम^अक्षराणि ग्रह^दृष्टि^वृद्ध्या॥
95.ॠ5अ वर्गोत्तमे द्व्य^क्षरकं चर^अंशे
95.ॠ5ब् स्थिर^ऋक्ष^भागे चतुर्^अक्षरं तत्।
95.ॠ5च् ओजेषु च^एभ्यो विषम^अक्षराणि
95.ॠ5द् स्युर् द्विस्वभावेषु तु राशिवच् च॥
95.ॠ6अ द्विमूर्ति^संज्ञे तु वदेद् द्विनाम
95.ॠ6ब् सौम्य^ईक्षिते द्विप्रकृतौ च राशौ।
95.ॠ6च् यावान् गणः स्व^उदयगो +अंशकानां
95.ॠ6द् तावान् ग्रहः संग्रहके +अक्षराणाम्॥
95.ॠ7अ संयोगम् आदौ बहुलेषु विन्द्यात्
95.ॠ7ब् कूटेषु संयोगपरं वदन्ति।
95.ॠ7च् स्व^उच्चांशके द्विष्कृतम् ऋक्ष^योगाद्
95.ॠ7द् गुर्व्^अक्षरं तद्^भवन^अंशके स्यात्॥
95.ॠ8अ मात्रा^आदि^युक् स्याद् ग्रहयुक्^त्रिकोणे
95.ॠ8ब् द्रेष्काण^पर्यायवद् अक्षरेषु।
95.ॠ8च् नभो^बलेषु^ऊर्ध्वम् अधो +अम्बुजेषु
95.ॠ8द् ज्ञेयो *विसर्गस् तु बल[उ.विसर्गो^अस्तबल]^अन्वितेषु॥
95.ॠ9अ शीर्ष^उदयेषु^ऊर्ध्वम् उशन्ति मात्राम्
95.ॠ9ब् अधश् च पृष्ठ^उदय^शब्दितेषु।
95.ॠ9च् तीर्यक् च विन्द्याद् उभय^उदये तां
95.ॠ9द् दीर्घेषु दीर्घाम् इतरेषु च^अन्याम्॥
95.ॠ10अ प्राग्^लग्न^तोय^अस्त^नभःस्थितेषु
95.ॠ10ब् भेष्व् अंशकेभ्यो +अक्षर^संग्रहः स्यात्।
95.ॠ10च् क्रूरो +अक्षरं हन्ति चतुष्टयस्थो
95.ॠ10द् दृष्ट्या^अपि मात्रां च त्रिकोणगो वा॥
95.ॠ11अ शुभग्रहस् तु^ऊर्जित^वीर्य^भागी
95.ॠ11ब् स्थान^अंश^तुल्य^अक्षरदः स च^उक्तः।
95.ॠ11च् पश्यन् स्थितः केन्द्र^त्रिकोणयोर् वा
95.ॠ11द् स्व^उच्चे +अपि वर्ण^द्वयम् आत्म^भागे॥
95.ॠ12अ क्षेत्रेश्व् अरे क्षीणबले +अंशके च
95.ॠ12ब् मात्रा^अक्षरं नाशम् उपैति तज्जम्।
95.ॠ12च् असम्भवे +अप्य् उद्भवम् एति तस्मिन्
95.ॠ12द् वर्ग^आद्यम् उच्चांश^युजि^ईश^दृष्टे॥
95.ॠ13अ केन्द्रे यथास्थान^बल^प्रकर्षं
95.ॠ13ब् क्षेत्रस्य तत्^क्षेत्र^पतेश् च बुद्ध्वा।
95.ॠ13च् कार्यो +अक्षराणाम् अनुपूर्वयोगो
95.ॠ13द् मात्रा^आदि^संयोग^विकल्पना च॥
95.ॠ14अ तत्र^आदिराश्य्^आदि^चतुर्^विलग्नम्
95.ॠ14ब् आद्य्^अंशक^आदि^क्रम^पर्यायेण।
95.ॠ14च् ग्रहांशकेभ्यः स्वगण^अक्षराणाम्
95.ॠ14द् अन्वर्थने प्राप्तिर् इयं विधार्या॥
95.ॠ15अ मेषे ककारो हिबुके यकारस्
95.ॠ15ब् तुले चकारो मकरे पकारः।
95.ॠ15च् मेषे छकारो हिबुके +अप्य् अकारस्
95.ॠ15द् तुले खकारो मकरे फकारः॥
95.ॠ16अ मेषे टकारो हिबुके ठकारस्
95.ॠ16ब् तुले तकारो मकरे थकारः।
95.ॠ16च् मेषे तु रेफा हिबुके जकारस्
95.ॠ16द् तुले बकारो मकरे गकारः॥
95.ॠ17अ आकारम् आद्ये +अम्बुगते घकारम्
95.ॠ17ब् अस्ते भकारं मकरे झकारम्।
95.ॠ17च् लग्ने डकारं हिबुके दकारम्
95.ॠ17द् अस्ते धकारं मकरे ढकारम्॥
95.ॠ18अ लग्ने ञकारो हिबुके मकारस्
95.ॠ18ब् तुले ङकारो मकरे लकारः।
95.ॠ18च् लग्ने ककारो हिबुके पकारस्
95.ॠ18द् तुले चकारो मकरे इकारः॥
95.ॠ19अ लग्ने नकारो हिबुके तकारस्
95.ॠ19ब् तुले णकारो मकरे टकारः।
95.ॠ19च् इत्य् एतद् उक्तं चरसंज्ञकस्य
95.ॠ19द् वक्ष्ये स्थिराख्यस्य चतुष्टयस्य॥
95.ॠ20अ वृषे फकारो हिबुके खकारः
95.ॠ20ब् कीटे वकारो नृघटे छकारः।
95.ॠ20च् आद्यांशकेभ्यो मतिमान् विदध्याद्
95.ॠ20द् अनुक्रमेण स्थिरसंज्ञकेषु॥
95.ॠ21अ लग्ने बकारो हिबुके जकार
95.ॠ21ब् ईकारम् अस्ते +अम्बरगे गकारः।
95.ॠ21च् वृषे थकारो हिबुके टकारः
95.ॠ21द् कीटे डकारो नृघटे दकारः॥
95.ॠ22अ वृषे घकारो हिबुके शकारः
95.ॠ22ब् कीटे झकारो नृघटे भकारः।
95.ॠ22च् लग्ने जकारो हिबुके उकारः
95.ॠ22द् कीटे ङकारो नृघटे मकारः॥
95.ॠ23अ लग्ने ढकारो +अथ जले णकारश्
95.ॠ23ब् चास्ते धकारो +अम्बरगे नकारः।
95.ॠ23च् वृषे षकारो हिबुके चकारः
95.ॠ23द् कीटे पकारो नृघटे ककारः॥
95.ॠ24अ ऊकारम् आहुर् वृषभे जले खम्
95.ॠ24ब् अस्ते फकारो नृघटे छकारः।
95.ॠ24च् अन्त्ये वृषे टम् तम् उशन्ति सिंहे
95.ॠ24द् थं सप्तगे ठं प्रवदन्ति कुम्भे॥
95.ॠ25अ द्विमूर्तिसंज्ञे मिथुने जकाराः
95.ॠ25ब् षष्ठे बकारः प्रथमांशके स्यात्।
95.ॠ25च् धनुर्धरे +अस्तोपगते गकारो
95.ॠ25द् मीनद्वये चाम्बरगे सकारः॥
95.ॠ26अ लग्ने घकारो हिबुके भकारश्
95.ॠ26ब् चास्ते झकारो +अम्बरमध्यगे ई।
95.ॠ26च् लग्ने दकारो हिबुके धकारम्
95.ॠ26द् अस्ते डकारं विदुर् अम्बरे ढम्॥
95.ॠ27अ लग्ने मकारो हिबुके ङकारश्
95.ॠ27ब् अस्ते हकारो +अम्बरगे ञकारः।
95.ॠ27च् लग्ने पकारो जलगे चकार
95.ॠ27द् ऐकारम् अस्ते +अम्बरगे ककारः॥
95.ॠ28अ प्राग्लग्ने नं जलगे णम् आहुर्
95.ॠ28ब् अस्तं गते टं नभसि स्थिते तम्।
95.ॠ28च् प्राग्लग्नगे खं जलगे यम् आहुर्
95.ॠ28द् अस्तं गते छं नभसि स्थिते फम्॥
95.ॠ29अ लग्ने जम् ओकारम् अथाम्बुसंस्थे
95.ॠ29ब् गम् अस्तसंस्थे विदुर् अम्बरे बम्।
95.ॠ29च् ठं लग्नगे +अन्त्ये हिबुकाश्रिते डं
95.ॠ29द् थम् अस्तगे दं नभसि स्थिते वै॥
95.ॠ30अ एवं विकल्पो +अक्षर^संग्रहो +अयं
95.ॠ30ब् नाम्नां निरुद्दिष्ट^विधान उक्तः।
95.ॠ30च् सर्वेषु लग्नेषु च के चिद् एवम्
95.ॠ30द् इच्छन्ति पूर्व^उक्त^विधानवत् तु॥
95.ॠ31अ केन्द्राणि वा केन्द्र^गत^अंशकैः स्वैः
95.ॠ31ब् पृथक् पृथक् संगुणितानि कृत्वा।
95.ॠ31च् त्रिकृद्^विभक्तं विदुर् अक्षरं तत्
95.ॠ31द् क्षेत्र^ईश्वरस्य^अम्श^परिक्रम^स्वम्॥
95.ॠ32अ संचिन्तित^प्रार्थित^निर्गतेषु
95.ॠ32ब् नष्ट^क्षत^स्त्री^रति^भोजनेषु।
95.ॠ32च् स्वप्न^ऋक्ष^चिन्ता^पुरुषादि^वर्गेष्व्
95.ॠ32द् एतेषु नामान्य् उपलक्षयेत
द्व्यक्षरं चर^गृह^अंशक^उदये
नाम चास्य चतुर्^अक्षरं स्थिरे।
नामयुग्मम् अपि च द्विमूर्तिषु
त्र्यक्षरं भवति च^अस्य पञ्चभिः॥
क^आद्यास् तु वर्गाः कुज^शुक्र^सौम्य^
जीव^अर्कजानां क्रमशः प्रदिष्टाः।
वर्ण^अष्टकं य^आदि च शीतरश्मे
रवेर् अ^कारात् क्रमशः स्वराः स्युः॥
नामानि च^अग्न्य्^अम्बु^कुमार^विष्णु^
शक्र^इन्द्रपत्नी^चतुराननानाम्।
तुल्यानि सूर्यात् क्रमशो विचिन्त्य
द्वि^त्र्य्^आदि^वर्णैर् घटयेत् स्वबुद्ध्या॥
वयांसि तेषाम् स्तन^पान^बाल्य^
व्रत^स्थिता यौवन^मध्य^वृद्धाः।
अतीव^वृद्धा इति चन्द्र^भौम^
ज्ञ^शुक्र^जीव^अर्क^शनैश्चराणाम्॥
96 पाकाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0