बृहत्संहिता · अध्याय 97
शिखि^गुण^रस^इन्द्रिय^अनल^शशि^विषय^गुण^ऋतु^पञ्च^वसु^पक्षाः।
विषय^एक^चन्द्र^भूत^अर्णव^अग्नि^रुद्र^अश्वि^वसु^दहनाः॥
भूत^शत^पक्ष^वसवो द्वात्रिंशच् च^इति तारका^मानम्।
क्रमशो +अश्विन्य्^आदीनां कालस् तारा^प्रमाणेन॥
नक्षत्रजम् उद्वाहे फलम् अब्दैस् तारका^मितैः सदसत्।
दिवसैर् ज्वरस्य नाशो व्याधेर् अन्यस्य वा वाच्यः॥
अश्वि^यम^दहन^कमलज^शशि^शूलभृद्^अदिति^जीव^फणि^पितरः।
योन्य्^अर्यम^दिनकृत्^त्वष्टृ^पवन^शक्राग्नि^मित्राश् च॥
शक्रो निरृतिस् तोयं विश्वे ब्रह्मा हरिर् वसुर् वरुणः।
अजपादो +अहिर्बुध्न्यः पूषा चेतीश्वरा भानाम्॥
त्रीण्य् उत्तराणि तेभ्यो रोहिण्यश् च ध्रुवाणि तैः कुर्यात्।
अभिषेक^शान्ति^तरु^नगर^धर्म^बीज^ध्रुव^आरम्भान्॥
मूल^शिव^शक्र^भुजग^अधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति।
अभिघात^मन्त्र^वेताल^बन्ध^वध^भेद^संबन्धाः॥
उग्राणि पूर्व^भरणी^पित्र्याण्य् उत्साद^नाश^शाठ्येषु।
योज्यानि बन्ध^विष^दहन^शस्त्र^घात^आदिषु च सिद्ध्यै॥
लघु हस्त^अश्विन^पुष्याः पण्य^रति^ज्ञान^भूषण^कलासु।
शिल्प^औषध^यान^आदिषु सिद्धिकराणि प्रदिष्टानि॥
मृदु^वर्गो[क्.मृदुवर्गस् त्व्] +अनूराधा^चित्रा^पौष्ण^ऐन्दवानि मित्रार्थे।
सुरतविधि^वस्त्र^भूषण^मङ्गल^गीतेषु च हितानि॥
हौतभुजं सविशाखं मृदु^तीक्ष्णम् तद्^विमिश्र^फल^कारि।
श्रवणत्रयम् आदित्य^आनिले च चरकर्मणि हितानि॥
हस्त^त्रयं मृगशिरः श्रवण^त्रयं[क्.श्रवनात्त्रयं] च
पूष^अश्वि^शक्र^गुरु^भानि पुनर्वसुश् च।
क्षौरे तु कर्मणि हितान्य् उदये क्षणे वा
युक्तानि च^उडुपतिना शुभतारया च॥
न स्नातमात्र^गमन^उन्मुख[क्.उत्सुक]^भूषितानाम्
अभ्यक्त^भुक्त^रणकाल^निरासनानाम्।
सन्ध्या^*निशा^शनि^कुज^अर्क^तिथौ[क्.निशोः कुजयमार्कदिने] च रिक्ते
क्षौरं हितं न नवमे +अह्नि न च^अपि विष्ट्याम्॥
नृपाज्ञया ब्राह्मण^सम्मते च विवाहकाले मृतसूतके च।
बद्धस्य मोक्षे क्रतु^दीक्षणासु सर्वेषु शस्तं क्षुरकर्म भेषु॥
[क्.ओने वेर्से इन्सेर्तेद्
क्.98.15अब्। हस्तो मूलं श्रवणा पुनर्वसुर् मृगशिरस् तथा पुष्यः।
क्.98.15च्द्। पुंसञ्ज्ञितेषु कार्येष्व् एतानि शुभानि धिष्ण्यानि॥]
सावित्र^पौष्ण^अनिल^मैत्र^तिष्य^त्वाष्ट्रे तथा च^उडुगणाधिप^ऋक्षे।
संस्कार^दीक्षा^व्रत^मेखलादि कुर्याद् गुरौ शुक्र^बुध^इन्दुयुक्ते॥
[क्.ओने वेर्से इन्सेर्तेद्
क्.98.17अब्। लाभे तृतीये च शुभैः समेते पापैर् विहीने शुभराशिलग्ने।
क्.98.17च्द्। वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दुचित्राहरिरेवतीषु॥]
शुद्धैर् द्वादश^केन्द्र^नैधनगृहैः पापैस् त्रिषष्ठायगैर्
लग्ने केन्द्रगते +अथ वा सुरगुरौ दैत्य^इन्द्रपूज्ये +अपि वा।
सर्व^आरम्भ^फल^प्रसिद्धिर् उदये राशौ च कर्तुः शुभे
सग्राम्य^स्थिर^भ^उदये च भवनं कार्यं प्रवेशो +अपि वा॥
98 तिथिकर्मगुणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0