बृहत्संहिता · अध्याय 94
प्राच्यानां दक्षिणतः शुभदाः[क्.शुभदः] काकाः करायिका वामाः[क्.वामा]।
विपरीतम् अन्य^देशेष्व् अवधिर् लोक^प्रसिद्ध्या^एव॥
वैशाखे निरुपहते वृक्षे नीडः सुभिक्ष^शिव^दाता।
निन्दित^कण्टकि^शुष्केष्व् असुभिक्ष^भयानि तद्देशे॥
नीडे प्राक् शाखायां शरदि भवेत् प्रथम^वृष्टिर् अपरस्याम्।
याम्य^उत्तरयोर् मध्यात्[क्.मध्या] प्रधान^वृष्टिस् तरोर् उपरि॥
शिखि^दिशि मण्डल^वृष्टिर् नैरृत्यां शारदस्य निष्पत्तिः।
परिशेषयोः सुभिक्षं मूषक^*सम्पच् च[क्.सम्पत् तु] वायव्ये॥
शर^दर्भ^गुल्म^वल्ली^धान्य^प्रासाद^गेह^निम्नेषु।
शून्यो भवति स देशश् चौर^अनावृष्टि^रोग^आर्तः॥
द्वि^त्रि^चतुः^शावत्वं सुभिक्षदं पञ्चभिर् नृप^अन्यत्वम्।
अण्ड^अवकिरणम् एक^अण्डता^अप्रसूतिश् च न शिवाय॥
चौरक^वर्णैश् चौराश् चित्रैर् मृत्युः सितैस् तु वह्नि^भयम्।
विकलैर् दुर्भिक्ष^भयं काकानां निर्दिशेत्^शिशुभिः॥
अनिमित्त^संहतैर् ग्राम^मध्यगैः क्षुद्^भयं प्रविरुवद्भिः[क्.प्रवाशद्भिः]।
रोधश् चक्र^आकारैर् अभिघातो वर्ग^वर्ग^स्थैः॥
अभयाश् च तुण्ड^पक्षैश् चरण^विघातैर् जनान् अभिभवन्तः।
कुर्वन्ति शत्रु^वृद्धिं निशि विचरन्तो जन^विनाशम्॥
सव्येन खे भ्रमद्भिः स्वभयं विपरीत^मण्डलैश् च परात्।
अत्याकुलं भ्रमद्भिर् वात^उद्भ्रमो भवति काकैः॥
ऊर्ध्व^मुखाश् चल^पक्षाः पथि भयदाः क्षुद्^भयाय धान्य^मुषः।
सेना^अङ्ग^स्था युद्धं परिमोषं च^अन्यभृत^पक्षाः॥
भस्म^अस्थि^केश^पत्राणि विन्यसन् पति^वधाय शय्यायाम्।
मणि^कुसुम^आद्य्^अवहनने[क्.अवहनेन] सुतस्य *जन्माप्यथा^अङ्गनायाश्[क्.जन्माङ्गनायाश् च][उ.जन्म^अन्यथा^अङ्गनायाश्] च॥
पूर्णानने +अर्थ^लाभः सिकता^धान्य^आर्द्रमृत्^कुसुम^पूर्वैः।
भयदो जन^संवासाद् यदि भाण्डान्य् अपनयेत् काकः॥
वाहन^शस्त्र^उपानत्^छत्रछाया^अङ्ग^कुट्टने मरणम्।
तत्पूजायां पूजा विष्ठा^करणे +अन्न^सम्प्राप्तिः॥
यद् द्रव्यम् उपनयेत् तस्य लब्धिर् अपहरति चेत् प्रणाशः स्यात्।
पीत^द्रव्यैः[क्.पीतद्रव्ये] कनकं वस्त्रं *कार्पासिकैः सितैः[क्.कार्पासिके सिते] रूप्यम्॥
सक्षीर^अर्जुन^वञ्जुल^कूलद्वय^पुलिन^गा रुवन्तश् च।
प्रावृषि वृष्टिं दुर्दिनम् अनृतौ स्नाताश् च पांशु^जलैः॥
दारुण^नादस् तरु^कोटर^उपगो वायसो महा^भयदः।
सलिलम् अवलोक्य विरुवन् वृष्टिकरो +अब्द^अनुरावी च॥
दीप्त^उद्विग्नो विटपे विकुट्टयन् वह्निकृद् विधुत^पक्षः।
रक्त^द्रव्यं दग्धं तृण^काष्ठं वा गृहे विदधत्॥
ऐन्द्र्य^आदि^दिग् अवलोकी सूर्य^अभिमुखो रुवन् गृहे गृहिनः।
राजभय^चोर^बन्धन^कलहाः स्युः पशु^भयं च^इति॥
शान्ताम् ऐन्द्रीम् अवलोकयन् रुयाद् राजपुरुष^मित्र^आप्तिः।
भवति च सुवर्ण^लब्धिः शाल्य्^अन्न^गुड^अशन^आप्तिश् च॥
आग्नेय्याम् अनलाजीविक^युवति^प्रवर^धातु^लाभश् च।
याम्ये माष^कुलूत्था[क्.कुलत्था]भोज्यं गान्धर्विकैर् योगः॥
नैरृत्यां दूत^अश्व^उपकरण^दधि^तैल^पलल^भोज्य^आप्तिः।
वारुण्यां मांस^सुरा^आसव^धान्य^समुद्र^रत्न^आप्तिः॥
मारुत्यां शस्त्र^आयुध^सरोज^वल्ली^फल^अशन^आप्तिश् च।
सौम्यायां परम^अन्न^अशनं तुरङ्ग^अम्बर^प्राप्तिः॥
ऐशान्यां सम्प्राप्तिर् घृत^पूर्णानां भवेद् अनडुहश् च।
एवं फलं गृहपतेर् गृह^पृष्ठ^समाश्रिते भवति॥
गमने कर्णसमश् चेत् क्षेमाय न कार्य^सिद्धये भवति॥
अभिमुखम् उपैति यातुर् विरुवन् विनिवर्तयेद् यात्राम्॥
वामे वाशित्वा^आदौ दक्षिण^पार्श्वे +अनुवाशते यातुः।
अर्थ^अपहार^कारी तद्^विपरीतो +अर्थ^सिद्धि^करः॥
यदि वाम एव विरुवन्[क्.विरुयात्] मुहुर्मुहुर् यायिनो +अनुलोम^गतिः।
अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश् च^एवम्॥
वामः प्रतिलोम^गतिर् विरुवन्[क्.वाशन्] गमनस्य विघ्नकृद् भवति।
तत्रस्थस्य^एव फलं कथयति तद्^वाञ्छितं गमने॥
दक्षिण^विरुतं कृत्वा वामे विरुयाद् यथा^ईप्सित^अवाप्तिः।
प्रतिवाश्य पुरो यायाद् द्रुतम् *अत्यर्थागमो भवति[क्.अग्रे +अर्थागमो +अतिमहान्]॥
प्रतिवाश्य पृष्ट्ःअतो दक्षिणेन यायाद् द्रुतं क्षतज^कारी[क्.क्षतजकर्ता]।
एकचरणो +अर्कम् ईक्षन् विरुवंश् च पुरो रुधिर^हेतुः॥
दृष्ट्वा^अर्कम् एकपादस् तुण्डेन लिखेद् यदा स्वपिच्छानि।
पुरतो जनस्य महतो वधम् अभिधत्ते तदा बलिभुक्॥
सस्य^उपेते क्षेत्रे विरुवति शान्ते ससस्य^भू^लब्धिः।
आकुल^चेष्टो विरुवन् सीमान्ते क्लेशकृद् यातुः॥
सुस्निग्ध^पत्र^पल्लव^कुसुम^फल^आनम्र^सुरभि^मधुरेषु।
सक्षीर^अव्रण^संस्थित^मनोज्ञ^वृक्षेषु च^अर्थ^सिद्धि^करः[क्.चार्थकरः]॥
निष्पन्न^सस्य^शाद्वल[क्.शाड्वल, क्ऽस् त्र्. शाद्वल]^भवन^प्रासाद^हर्म्य^हरितेषु।
धन्य[क्.धान्य]^उच्छ्रय^मङ्गल्येषु च^एव विरुवन् धन^आगमदः॥
गोपुच्छस्थे वल्मीकगे +अथ वा दर्शनं भुजङ्गस्य।
सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम्॥
कार्यस्य व्याघातस् तृणकूटे वामगे +अम्बु^संस्थे[क्.अस्थिसंस्थे] वा।
ऊर्ध्व^अग्नि^प्लुष्टे +अशनि^हते च काके वधो भवति॥
कण्टकि^मिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश् च।
कण्टकिनि भवति कलहो वल्ली^परिवेष्टिते बन्धः॥
छिन्न^अग्रे +अङ्ग^च्छेदः कलहः शुष्क^द्रुम^स्थिते ध्वांक्षे।
पुरतश् च पृष्ठतो वा गोमय^संस्थे धन^प्राप्तिः॥
मृत^पुरुष^अङ्ग^अवयव^स्थितो +अभिविरुवन्[क्.+अभिवाशन्] करोति मृत्यु^भयम्।
भञ्जन्न् अस्थि च चञ्च्वा यदि विरुवत्य्[क्.वाशत्य्] अस्थि^भङ्गाय॥
रज्ज्व्^अस्थि^काष्ठ^कण्टकि^निःसार^शिरोरुह^आनने रुवति।
भुजग^गद^दंष्ट्रि^तस्कर^शस्त्र^अग्नि^भयान्य् अनुक्रमशः॥
सितकुसुम^अशुचि^मांस^आनने +अर्थ^सिद्धिर् यथा^ईप्सिता यातुः।
*पक्षौ धुन्वन्न्[क्.धुन्वन् पक्षाव्] ऊर्ध्व^आनने च विघ्नं मुहुः क्वणति॥
यदि शृङ्खलां वरत्रां वल्लीं वा^आदाय वाशते बन्धः।
पाषाण^स्थे च भयं क्लिष्ट^अपूर्व^अध्विक^युतिश् च॥
अन्योन्य^भक्ष^संक्रामित^आनने तुष्टिर् उत्तमा भवति।
विज्ञेयः स्त्री^लाभो दम्पत्योर् विरुवतोर्[क्.वाशतोर्] युगपत्॥
प्रमदा^शिर^उपगत^पूर्ण^कुम्भ^संस्थे +अङ्गना^अर्थ^सम्प्राप्तिः।
घट^कुट्टने सुत^विपद् घट^उपहदने +अन्न^सम्प्राप्तिः॥
स्कन्धावार^आदीनां निवेश^समये रुवंश् चलत्^पक्षः।
सूचयते +अन्यत्^स्थानं[क्.+अन्यस्थानं] निश्चल^पक्षस् तु भय^मात्रम्॥
प्रविशद्भिः सैन्य^आदीन् सगृध्र^कङ्कैर् विना^आमिषं ध्वांक्षैः।
अविरुद्धैस् तैः प्रीतिर् द्विषतां युद्धं विरुद्धैश् च॥
बन्धः सूकर^संस्थे पङ्काक्ते सूकरे द्विके +अर्थ^आप्तिः।
क्षेमं खर^उष्ट्र^संस्थे के चित् प्राहुर् वधं तु खरे॥
वाहनलाभो +अश्वगते विरुवत्य् अनुयायिनि क्षतजपातः।
अन्ये +अप्य् अनुव्रजन्तो यातारं काकवद् विहगाः॥
द्वात्रिंशत् प्रविभक्ते दिग्चक्रे यद् यथा समुद्दिष्टम्।
तत्तत् तथा विधेयं गुण^दोष^फलं यियासूनाम्॥
का इति काकस्य रुतं स्व^निलय^संस्थस्य निष्फलं प्रोक्तम्।
कव इति च^आत्मप्रीत्यै क^इति रुते स्निग्ध^मित्र^आप्तिः॥
करा^इति कलहं कुरुकुरु च हर्षम् अथ कटकट^इति दधिभक्तम्।
केके विरुतं कुकु वा धन^लाभं यायिनः प्राह॥
खरेखरे पथिक^आगमम् आह कखाखा^इति यायिनो मृत्युम्।
गमन^प्रतिषेधिकम् आ कखला[क्.आखलखल, क्ऽस् त्र्. आ खलखल] सद्यो +अभिवर्षाय॥
काका^इति विघातः[क्.विघातं] काकटि^इति च^आहार^दूषणं प्राह।
प्रीत्य्^आस्पदं कवकव^इति बन्धम् एवं कगाकुर् इति॥
करगौ[क्.करकौ] विरुते वर्षं गुडवत् त्रासाय वड् इति वस्त्र^आप्तिः।
कलय^इति च संयोगः शूद्रस्य ब्राह्मणैः साकम्॥
कड् [क्.फड्] इति फलाप्तिः फलदा[क्.फलवा]^
अहिदर्शनं टड्डिति[क्.टडिति] प्रहाराः स्युः।
स्त्री^लाभः स्त्रीति रुते
गड् इति गवां पुड् इति पुष्पाणाम्॥
युद्धाय टाकुटाक्व् इति गुहु वह्नि^भयं कटेकटे कलहः।
टाकुलि चिण्टिचि केकेक^इति पुरं च^इति दोषाय॥
काक^द्वयस्य^अपि समानम् एतत्
फलं यदुक्तं रुत^चेष्टित^आद्यैः।
पतत्रिणो +अन्ये +अपि यथा^एव काको
वन्याः श्ववच् च^उपरिदंष्ट्रिणो ये॥
स्थल^सलिल^चराणां व्यत्ययो मेघ^काले
प्रचुर^सलिल^वृष्ट्यै शेषकाले भयाय।
मधु भवन^निलीनं तत् करोत्य् आशु शून्यं
मरणम् अपि *च नीला[क्.निलीना] मक्षिका मूर्ध्नि लीना॥
विनिक्षिपन्त्यः सलिले +अण्डकानि
पिपीलिका वृष्टि^निरोधम् आहुः।
*तरुं स्थलं[क्.तरुस्थलं, क्ऽस् त्र्.तरुं स्थलं] वा^अपि नयन्ति निम्नाद्
यदा तदा ताः कथयन्ति वृष्टिम्॥
कार्यं तु मूल^शकुने +अन्तरजे तदह्नि
विन्द्यात् फलं नियतम् एवम् इमे विचिन्त्याः।
प्रारम्भ^यान^समयेषु तथा प्रवेशे
ग्राह्यं क्षुतं न शुभदं क्व चिद् अप्य् उशन्ति॥
शुभं दशा^पाकम् अविघ्न^सिद्धिं
मूल^अभिरक्षाम् अथ वा सहायान्।
दुष्टस्य[क्.इष्टस्य] संसिद्धिम् अनामयत्वं
वदन्ति ते मानयितुर् नृपस्य॥
क्रोशाद् ऊर्ध्वं शकुन[क्.शकुनि]विरुतं निष्फलं प्राहुर् एके
तत्र^अनिष्टे प्रथम^शकुने मानयेत् पञ्च षट् च।
प्राणायामान् नृपतिर् अशुभे षोडश^एव द्वितीये
प्रत्यागच्छेत् स्वभवनम् अतो यद्य् अनिष्टस् तृतीयः॥
95 शाकुन^उत्तराध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0