बृहत्संहिता · अध्याय 93
दन्तस्य मूल^परिधिं द्विर् आयतं प्रोह्य कल्पयेत्^शेषम्।
अधिकम् अनूप^चराणां न्यूनं गिरि^चारिणां किञ् चित्॥
श्रीवत्स^वर्धमान^च्छत्र^ध्वज^चामर^अनुरूपेषु।
छेदे दृष्टेष्व् आरोग्य^विजय^धन^वृद्धि^सौख्यानि॥
प्रहरण^सदृशेषु जयो नन्द्यावर्ते प्रनष्ट^देश^आप्तिः।
लोष्टे तु लब्ध^पूर्वस्य भवति देशस्य सम्प्राप्तिः॥
स्त्रीरूपे +अश्व^विनाशो[क्.स्वविनाशो] भृङ्गारे +अभ्युत्थिते सुत^उत्पत्तिः।
कुम्भेन निधि^प्राप्तिर् यात्रा^विघ्नं च दण्डेन॥
कृकलास^कपि^भुजङ्गेष्व् असुभिक्ष^व्याधयो रिपु^*वशित्वम्[क्.वशत्वम्]।
गृध्र^उलूक^ध्वाङ्क्ष^श्येन^आकारेषु जनमरकः॥
पाशे +अथ वा कबन्धे नृप^मृत्युर् जन^विपत् स्रुते रक्ते।
कृष्णे श्यावे रूक्षे दुर्गन्धे च^अशुभं भवति॥
शुक्लः समः सुगन्धिः स्निग्धश् च शुभ^आवहो भवेच् छेदः।
गलन^म्लान^फलानि च दन्तस्य समानि भङ्गेन॥
मूल^मध्य^दशन^अग्र^संस्थिता
देव^दैत्य^मनुजाः क्रमात् ततः।
स्फीत^मध्य^परिपेलवं फलं
शीघ्र^मध्य^चिरकाल^सम्भवम्॥
दन्त^भङ्ग^फलम् अत्र दक्षिणे भूप^देश^बल^विद्रव^प्रदम्।
वामतः सुत^पुरोहित^इभयान्[क्.इभपान्] हन्ति साटविक^दार^नायकान्॥
आदिशेद् उभय^भङ्ग^दर्शनात् पार्थिवस्य सकलं कुल^क्षयम्।
सौम्य^लग्न^तिथि^भ^आदिभिः शुभं वर्धते +अशुभम् अतो +अन्यथा वदेत्[क्.भवेत्]॥
क्षीर^मृष्ट[क्.क्षीरवृक्ष]^फल^पुष्प^पादपेष्व् आपगा^तट^विघट्टितेन वा।
वाम^मध्य^रद^भङ्ग^खण्डने[क्.खण्डनं] शत्रु^नाशकृद् अतो +अन्यथा परम्॥
स्खलित^गतिर् अकस्मात् त्रस्त^कर्णो +अतिदीनः
श्वसिति मृदु सुदीर्घं न्यस्त^हस्तः पृथिव्याम्।
द्रुत^मुकुलित^दृष्टिः स्वप्न^शीलो विलोमो
भयकृद् अहित^भक्षी नैकशो *+असृक्^शकृत्^कृत्[क्.+असृक् छकृत् च]॥
वल्मीक^स्थाणु^गुल्म^क्षुप^तरु^मथनः स्व^इच्छया हृष्ट^दृष्टिर्
यायाद् यात्रा^अनुलोमं त्वरित^पद^गतिर् वक्त्रम् उन्नाम्य च^उच्चैः।
कक्ष्या^सन्नाह^काले जनयति च मुहुः शीकरं बृंहितं वा
तत्काले[क्.तत्कालं] वा मदाप्तिर् जयकृद् अथ रदं वेष्टयन् दक्षिणं च॥
प्रवेशनं वारिणि वारणस्य
ग्राहेण नाशाय भवेन् नृपस्य।
ग्राहं गृहोत्वा[क्.ग्रिहीत्वा]^उत्तरणं नृपस्य[क्.ऊ.द्विपस्य]
तोयात् स्थलं वृद्धि^करं नृभर्तुः॥
94 वायसविरुताध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0