बृहत्संहिता · अध्याय 92
उत्सर्गान् न शुभदम् *आसनात् परस्थं[क्.ऊ.आसनापरस्थं]
वामे च ज्वलनम् अतो +अपरं प्रशस्तम्।
सर्व^अङ्ग^ज्वलनम् अवृद्धिदं हयानां
द्वे वर्षे दहन^कणाश् च धूपनं वा॥
अन्तःपुरं नाशम् उपैति मेढ्रे
कोशः क्षयं यात्य् उदरे प्रदीप्ते।
पायौ च पुच्छे च पराजयः स्याद्
वक्त्र^उत्तम^अङ्ग^ज्वलने जयश् च॥
स्कन्ध^आसन^अंस^ज्वलनं जयाय
बन्धाय पाद^ज्वलनं प्रदिष्टम्।
ललाट^वक्षो *+अक्षि^भुजे च[क्.अक्षिभुजेषु] धूमः
पराभवाय ज्वलनं जयाय॥
नासापुट^प्रोथ^शिरो +अश्रुपात^
*नेत्रे च[क्.नेत्रेषु] रात्रौ ज्वलनं जयाय।
पलाश^ताम्र^असित^कर्बुराणां
नित्यं शुक^आभस्य सितस्य च^इष्टम्॥
प्रद्वेषो यवस^अम्भसां प्रपतनं स्वेदो निमित्ताद् विना
कम्पो वा वदनाच् च रक्त^पतनं धूमस्य वा सम्भवः।
अस्वप्नश् च विरोधिनां[क्.विरोधिता] निशि दिवा निद्रा^अलस^ध्यानता।
सादो +अधो^मुखता विचेष्टितम् इदं नेष्टं स्मृतं वाजिनाम्॥
आरोहणम् अन्य^वाजिनां पर्याण^आदियुतस्य वाजिनः।
उपवाह्य^तुरङ्गमस्य वा कल्पस्य^एव विपन्न^शोभना॥
क्रौञ्चवद् रिपु^वधाय ह्रेषितं[क्.हेषितं]
ग्रीवया त्व् अचलया च स^उन्मुखम्।
स्निग्धम् उच्चम् अनुनादि हृष्टवद्^
ग्रास^रुद्ध^वदनैश् च वाजिभिः॥
पूर्णपात्र^दधि^विप्र^देवता
गन्ध^पुष्प^फल^काञ्चन^आदि वा।
द्रव्यम् इष्टम् अथ वा परं भवेद्
ध्रेषतां[क्.धेषतां] यदि समीपतो जयः॥
भक्ष्य^पान^खलिन^अभिनन्दिनः
पत्युर् औपयिक^नन्दिनो +अथ वा।
सव्य^पार्श्व^गत^दृष्टयो +अथ वा
वाञ्छित^अर्थ^फलदास् तुरङ्गमाः॥
वामैश् च पादैर् अभिताडयन्तो महीं
प्रवासाय भवन्ति भर्तुः।
सन्ध्यासु दीप्ताम् अवलोकयन्तो
ह्रेषन्ति[क्.हेषन्ति] चेद् बन्ध^पराजयाय॥
अतीव ह्रेषन्ति[क्.हेषन्ति] किरन्ति वालान्
निद्रारताश् च प्रवदन्ति यात्राम्।
रोम^त्यजो दीन^खर^स्वराश् च
पांशून् ग्रसन्तश् च भयाय दृष्टाः॥
समुद्गवद् दक्षिण^पार्श्व^शायिनः
पदं समुत्क्षिप्य च दक्षिणं स्थिताः।
जयाय शेषेष्व् अपि वाहनेष्व् इदं
फलं यथासम्भवम् आदिशेद् बुधः॥
आरोहति क्षितिपतौ विनय^उपपन्नो
यात्रा^अनुगो +अन्य^तुरगं प्रतिह्रेषते[क्.प्रतिहेषते] च।
वक्त्रेण वा स्पृशति दक्षिणम् आत्म^पार्श्वं
यो +अश्वः स भर्तुर् अचिरात् प्रचिनोति लक्ष्मीम्॥
मुहुर्मुहुर् मूत्र^शकृत् करोति
न ताड्यमानो +अप्य् अनुलोमयायी।
अकार्य^भीतो +अश्रु^विलोचनश् च
शिवं[क्.शुभम्] न भर्तुस् तुरगो +अभिधत्ते॥
उक्तम् इदं हय^चेष्टितम् अत ऊर्ध्वं दन्तिनां प्रवक्ष्यामि।
तेषां तु दन्त^कल्पन^भङ्ग^म्लान^आदि^चेष्टाभिः॥
93 हस्तिचेष्टिताध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0