भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 91

91.01

गावो दीनाः पार्थिवस्य^अशिवाय
पादैर् भूमिं कुट्टयन्त्यश् च रोगान्।
मृत्युं कुर्वन्त्य् अश्रु^पूर्ण^आयत^अक्ष्यः
पत्युर् भीतास् तस्करान् आ^रुवन्त्यः॥

91.02

अकारणे क्रोशति चेद् अनर्थो भयाय रात्रौ वृषभः शिवाय।
भृशं निरुद्धा यदि मक्षिकाभिस् तदा^आशु वृष्टिं सरमात्मजैर् वा॥

91.03

आगच्छन्त्यो वेश्म बम्भारवेण
संसेवन्त्यो गोष्ठ^वृद्ध्यै गवां गाः।
आर्द्र^अङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा
धन्या गावः स्युर् महिष्यो +अपि च^एवम्॥
92 अश्वेङ्गिताध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc