भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 9

9.01

नाग^गज^ऐरावत^वृषभ^गो^जरद्गव^मृग^अज^दहन^आख्याः।
अश्विन्य्^आद्याः कैश् चित् त्रिभाः क्रमाद् वीथयः कथिताः॥

9.02

नागा तु पवन^याम्य^अनलानि पैतामहात् त्रिभास् तिस्रः।
गोवीथ्याम् अश्विन्यः पौष्णं द्वे च^अपि भद्रपदे॥

9.03

जारद्गव्यां श्रवणात् त्रिभं मृग^आख्या त्रिभं तु मैत्र^आद्यम्।
हस्त^विशाखा^त्वाष्ट्राण्य् अज^इत्य् अषाढा^द्वयं दहना॥

9.04

तिस्रस् तिस्रस् तासां क्रमाद् उदङ्^मध्य^याम्य^मार्ग^स्थाः।
तासाम् अप्य् उत्तर^मध्य^*दक्षिणेन स्थित^एकैका[क्.दक्षिणावस्थितैकैका]॥

9.05

वीथी^मार्गान् अपरे कथयन्ति यथास्थितान् भ^मार्गस्य।
नक्षत्राणां तारा याम्योत्तर^मध्यमास् तद्वत्॥

9.06

उत्तरमार्गो याम्य^आदि निगदितो मध्यमस् तु भाग्य^आद्यः।
दक्षिण^मार्गो^आषाढा^आदि कैश् चिद् एवं कृता मार्गाः॥

9.07

*ज्यौतिषम्[क्.ज्योतिसम्] आगम^शास्त्रं विप्रतिपत्तौ न योग्यम् अस्माकम्।
स्वयम् एवा विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये॥

9.08

उत्तरवीथिषु शुक्रः सुभिक्ष^शिव^कृद् गतो +अस्तम् उदयम् *च[क्.वा]।
मध्यासु मध्य^फलदः कष्ट^फलो दक्षिण^स्थासु॥

9.09

अत्युत्तम^उत्तमोनं सम^मध्य^न्यूनम् अधम^कष्ट^फलम्।
*कष्टतरं[क्.कष्टतमं] सौम्य^आद्यासु वीथिषु यथाक्रमं ब्रूयात्॥

9.10

भरणी^पूर्वं मण्डलम् ऋक्ष^चतुष्कं सुभिक्ष^करम् आद्यम्।
वङ्ग^अङ्ग^महिष^*बाह्लिक[क्.वाह्लिक]^कलिङ्ग^देशेषु भय^जननम्॥

9.11

अत्र^उदितम् आरोहेद् ग्रहो +अपरो यदि सितं ततो हन्यात्।
भद्राश्व^शूरसेनक^यौधेयक^कोटिवर्ष^नृपान्॥

9.12

भचतुष्टयम् आर्द्रा^आद्यं द्वितीयम् अमित^अम्बु^सस्य^सम्पत्त्यै।
विप्राणाम् अशुभ^करं विशेषतः क्रूर^चेष्टानाम्॥

9.13

अन्येन^अत्र^आक्रान्ते म्लेच्छा^*आटविक[क्.& ऊ.आतविका]^श्वजीवि^गोमन्तान्।
गोनर्द^नीच^शूद्रान् वैदेहांश् च^अनयः स्पृशति॥

9.14

विचरन् मघा^आदि^पञ्चकम् उदितः सस्य^प्रणाश^कृत्^शुक्रः।
क्षुत्^तस्कर^भय^जननो नीच^उन्नति^सङ्करकरश् च॥

9.15

पित्र्याद्ये +अवष्टब्धो हन्त्य् अन्येन^आविकान् शबर^शूद्रान्।
पुण्ड्रा^अपरान्त्य^शूलिक^वनवासि^द्रविड^सामुद्रान्॥

9.16

स्वात्य्^आद्यं भ^त्रितयं मण्डलम् एतच् चतुर्थम् अभय^करम्।
ब्रह्म^क्षत्र^सुभिक्ष^अभिवृद्धये मित्र^भेदाय॥

9.17

अत्र^अक्रान्ते मृत्युः किरातभर्तुः^पिनष्टि च^इक्ष्वाकून्।
प्रत्यन्त^अवन्ति^पुलिन्द^तङ्गणान् शूरसेनांश् च॥

9.18

ज्येष्ठा^आद्यं पञ्च^ऋक्षं क्षुत्^तस्कर^रोग^दम् प्रबाधयते।
काश्मीर^अश्मक^मत्स्यान् स^चारुदेवीन् अवन्तींश् च॥

9.19

*अत्र^अरोहेद् द्रविड^आभीर^अम्बष्ठ[क्.आरोहे +अत्राभीरान् द्रविडाम्बष्ठ]^त्रिगर्त^सौराष्ट्रान्।
नाशयन्ति सिन्धु^सौवीरकांश् च काशि^ईश्वरस्य वधः॥

9.20

षष्ठं षण्नक्षत्रं शुभम् एतन् मण्डलं धनिष्ठा^आद्यम्।
भूरि^धन^गोकुल^आकुलम् अनल्प^धान्यं क्व चित् सभयम्॥

9.21

अत्र^*आरोहेच्[क्.आरोहे]^शूलिक^गान्धार^अवन्तयः प्रपीड्यन्ते।
वैदेह^वधः प्रत्यन्त^यवन^शक^दास^परिवृद्धिः॥

9.22

अपरस्यां स्वात्य्^आद्यं ज्येष्ठा^आद्यं च^अपि मण्डलं शुभदम्।
पित्र्य^आद्यं पूर्वस्यां शेषाणि यथोक्त^फलदानि॥

9.23

दृष्टो *+अनस्तमिते[क्.+अनस्तगते +अर्के] भय^कृत् क्षुद्^रोग^कृत् समस्तम् अहः।
*अर्ध^दिवसे[क्.अर्थदिवसं] च स^इन्दुर् नृप^बल^पुर^भेदकृत्^शुक्रः॥

9.24

भिन्दन् गतो +अनल^ऋक्षं कूलातिक्रान्त^वारि^वाहाभिः।
अव्यक्त^तुङ्ग^निम्ना समा सरिद्भिर् भवति धात्री॥

9.25

प्राजापत्ये शकटे भिन्ने कृत्वा^इव पातकं वसुधा।
केश^अस्थि^शकल^शबला कापालम् इव व्रतं धत्ते॥

9.26

सौम्य^उपगतो रस^सस्य^संक्षयाय^उशनाः समुद्दिष्टः।
आर्द्रागतस् तु कोशल^कलिङ्ग^हा सलिल^निकर^करः॥

9.27

अश्मक^वैदर्भाणां पुनर्वसुस्थे सिते महान् अनयः।
पुष्ये पुष्टा वृष्टिर् *विद्याधररण[उ.विद्याधर]^विमर्दश् च॥

9.28

आश्लेषासु भुजङ्गम^दारुण^पीडा^वहश् चरन् शुक्रः।
भिन्दन् मघां महामात्र^दोष^कृद् भूरि^वृष्टि^करः॥

9.29

भाग्ये शबर^पुलिन्द^प्रध्वंस^करो +अम्बु^निवह^मोक्षाय।
आर्यम्णे कुरु^जाङ्गल^पाञ्चाल^घ्नः सलिल^दायी॥

9.30

कौरव^चित्रकराणां हस्ते पीडा जलस्य च निरोधः।
कूपकृद्^अण्डज^पीडा चित्रास्थे शोभना वृष्टिः॥

9.31

स्वातौ प्रभूत^वृष्टिर् दूत^वणिग्^नाविकान् स्पृशत्य् अनयः।
ऐन्द्र^अग्ने +अपि सुवृष्टिर् वणिजां च भयं विजानीयात्॥

9.32

मैत्रे क्षत्र^विरोधो ज्येष्ठायां क्षत्र^मुख्य^सन्तापः।
मौलिक^भिषजाम् मूले त्रिष्व् अपि च^एतेष्व् अनावृष्टिः॥

9.33

आप्ये सलिलज^पीडा विश्वेशे व्याधयः प्रकुप्यन्ति।
श्रवणे श्रवण^व्याधिः *पाखण्डि[क्.पाषण्डि]^भयं धनिष्ठासु॥

9.34

शतभिषजि शौण्डिकानाम् *अजैकभे[क्.अजैकपे] द्यूतजीविनां *पीडां[क्.पीडा]।
कुरु^पाञ्चालानाम् अपि करोति च^अस्मिन् सितः सलिलम्॥

9.35

आहिर्बुध्न्ये फल^मूल^ताप^कृद् यायिनाम् च रेवत्याम्।
अश्विन्यां हयपानां याम्ये तु किरात^यवनानाम्॥

9.36

*चतुर्दशीं पञ्चदशीं तथा^अष्टमीं[क्.चतुर्दशे पञ्चदशे तथाष्टमे] तमिस्रपक्षस्य *तिथिं[क्.तिथौ] भृगोः सुतः।
यदा व्रजेद् दर्शनम् अस्तम् एति वा तदा मही वारिमयीव लक्ष्यते॥

9.37

गुरुर् भृगुश् च^अपर^पूर्व^काष्ठयोः परस्परं सप्तम^राशिगौ यदा।
तदा प्रजा रुग्^भय^शोक^पीडिता न वारि पश्यन्ति पुरन्दर^उज्झितम्॥

9.38

यदा स्थिता जीव^बुध^आर^सूर्यजाः सितस्य सर्वे +अग्रपथ^अनुवर्तिनः।
नृ^नाग^विद्याधर^सङ्गरास् तदा भवन्ति वाताश् च समुच्छ्रित^अन्तकाः॥

9.39

न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग् न रता द्विजातयः।
न च^अल्पम् अप्य् अम्बु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम्॥

9.40

शनैश्चरे म्लेच्छ^विडाल^कुञ्जराः खरा महिष्यो +असित^धान्य^शूकराः।
पुलिन्द^शूद्राश् च सदक्षिणापथाः क्षयं व्रजन्त्य् अक्षि^मरुद्^गद^उद्भवैः॥

9.41

निहन्ति शुक्रः क्षितिजे +अग्रतः *प्रजां[क्.प्रजा] हुताश^शस्त्र^क्षुद्^अवृष्टि^तस्करैः।
चर^अचरं व्यक्तम् अथ^उत्तरापथं दिशो +अग्नि^विद्युद्^रजसा च पीड्येत्॥

9.42

बृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विज^गो^सुरालयान्।
दिशं च पूर्वां करकासृजो +अम्बुदा गले गदा भूरि भवेच् च शारदम्॥

9.43

सौम्यो +अस्त^उदयोः पुरो भृगुसुतस्य^अवस्थितस् तोय^कृद्
रोगान् पित्तज^*कामलांश्[क्.कामलां क्ऽस् त्र्. कामलाम्श् ओर् कामलाश्] च कुरुते पुष्णाति च *ग्रैष्मिकान्[क्.ग्रैष्मिकम्]।
हन्यात् प्रव्रजित^आग्निहोत्रिक^भिषग्^रङ्गोपजीव्यान् हयान्
वैश्यान् गाः सह वाहनैर् नरपतीन् पीतानि पश्चाद् दिशम्॥

9.44

शिखि^भयम् अनलाभे शस्त्र^कोपश् च रक्ते
कनकनिकषगौरे व्याधयो दैत्यपूज्ये।
हरित^कपिल^रूपे श्वास^कास^प्रकोपः
पतति न सलिलं खाद् भस्मरूक्षासिताभे॥

9.45

दधि^कुमुद^शशाङ्क^कान्ति^भृत् स्फुट^विकसत्^किरणो बृहत्तनुः।
सुगतिर् अविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः॥
10 शनैश्चरचाराध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc