भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 8

8.01

नक्षत्रेण सह^उदयम् उपगच्छति येन देवपति^मन्त्री।
तत्^संज्ञं वक्तव्यं वर्षं मास^क्रमेण^एव॥

8.02

वर्षाणि कार्त्तिक^आदीन्य् आग्नेयाद् भ^द्वय^अनुयोगीनि।
क्रमशस् त्रिभं तु पञ्चमम् उपान्त्यम् अन्त्यं च यद् वर्षम्॥

8.03

शकट^अनल^उपजीवक^गो^पीडा व्याधि^शस्त्र^कोपश् च।
वृद्धिस् तु रक्त^पीतक^कुसुमानां कार्त्तिके वर्षे॥

8.04

सौम्ये +अब्दे +अनावृष्टिर् मृग^आखु^शलभ^अण्डजैश् च सस्य^वधः।
व्याधि^भयं मित्रैर् अपि भूपानां जायते वैरम्॥

8.05

शुभ^कृज्^जगतः पौषो निवृत्त^वैराः परस्परं क्षितिपाः।
द्वि^त्रि^गुणो धान्य^अर्घः पौष्टिक^कर्म^प्रसिद्धिश् च॥

8.06

पितृपूजा^परिवृद्धिर् माघे हार्दिश् च सर्वभूतानाम्।
आरोग्य^वृष्टि^धान्य^अर्घ^सम्पदो मित्र^लाभश् च॥

8.07

फाल्गुन^वर्षे विन्द्यात् क्व चित् क्व चित् क्षेम^वृष्टि^सस्यानि।
दौर्भाग्यं प्रमदानां प्रबलाश् चौरा नृपाश् च^उग्राः॥

8.08

चैत्रे मन्दा वृष्टिः प्रियम् अन्नं क्षेमम् अवनिपा मृदवः।
वृद्धिश् च कोश^धान्यस्य भवति पीडा च रूपवताम्॥

8.09

वैशाखे *धर्म^रता[क्.धर्मपरा] विगत^भयाः प्रमुदिताः प्रजाः सनृपाः।
यज्ञ^क्रिया^प्रावृत्तिर् निष्पत्तिः सर्व^सस्यानाम्॥

8.10

ज्यैष्ठे जाति^कुल^धन^श्रेणी^श्रेष्ठा नृपाः सधर्मज्ञाः।
पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम्॥

8.11

आषाढे जायन्ते सस्यानि क्व चिद् अवृष्टिर् अन्यत्र।
योगक्षेमं मध्यं व्यग्राश् च भवन्ति भूपालाः॥

8.12

श्रावण^वर्षे क्षेमं सम्यक् सस्यानि पाकम् उपयान्ति।
क्षुद्रा ये *पाखण्डाः[क्.पाषण्डाः] पीड्यन्ते ये च तद्^भक्ताः॥

8.13

भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च।
न भवत्य् अपरं सस्यं क्व चित् सुभिक्षं क्वचिच् च भयम्॥

8.14

आश्वयुजे +अब्दे +अजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम्।
प्राण^चयः प्राण^भृताम् सर्वेषाम् अन्न^बाहुल्यम्॥

8.15

उदग्^आरोग्य^सुभिक्ष^क्षेम^करो वाक्पतिश् चरन् भानाम्।
याम्ये तद्^विपरीतो मध्येन तु मध्य^फल^दायी॥

8.16

विचरन् भ^द्वयम् इष्टस् तत्^सार्धं वत्सरेण मध्य^फलः।
सस्यानां विध्वंसी विचरेद् अधिकं यदि कदा चित्॥

8.17

अनल^भयम् अनल^वर्णे व्याधिः पीते रण^आगमः श्यामे।
हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्र^भयम्॥

8.18

धूम^आभे +अनावृष्टिस् त्रिदश^गुरौ नृप^वधो दिवा दृष्टे।
विपुले +अमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः॥

8.19

रोहिण्यो +अनलभं च वत्सर^तनुर् नाभिस् त्व् अषाढ^द्वयं
सार्पं हृत्^पितृ^दैवतं च कुसुमं शुद्धैः शुभं तैः फलम्।
देहे क्रूर^निपीडिते +अग्न्य्^अनिलजं नाभ्यां भयं क्षुत्^कृतं
पुष्पे मूल^फल^क्षयो +अथ हृदये सस्यस्य नाशो ध्रुवम्॥

8.20

गतानि वर्षाणि शकेन्द्र^कालाद्
धतानि रुद्रैर् गुणयेच् चतुर्भिः।
नव^अष्ट^पञ्च^अष्ट(8589)युतानि कृत्वा
विभाजयेच्^शून्य^शरा^गरामैः(3750)॥

8.21

*लब्धेन[क्.फलेन] युक्तं शक^भूपकालं
संशोध्य षष्ट्या विषयैर् विभज्य।
युगानि नारायण^पूर्वकाणि
लब्धानि शेषाः क्रमशः समाः स्युः॥

8.22

एकैकम् अब्देषु नव^आहतेषु दत्त्वा पृथग् द्वादशकं क्रमेण।
हृत्वा चतुर्भिर् वसुदेवता^आद्यान्य् उडूनि शेषांशक^पूर्वम् अब्दम्॥

8.23

विष्णुः सुरेज्यो बलभिद् धुताशस् त्वष्ट^उत्तरप्रोष्ठपदा^अधिपश् च।
क्रमाद् युगेशाः पितृ^विश्व^*सोम[क्.सोमाः]^शक्रानल^आख्य^अश्वि^भगाः प्रदिष्टाः॥

8.24

संवत्सरो +अग्निः परिवत्सरो +अर्क इदा^आदिकः शीत^मयूख^माली।
प्रजापतिश् च^अप्य् अनुवत्सरः स्याद् इद्वत्सरः शैलसुतापतिश् च॥

8.25

वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूत^तोया कथिता तृतीये।
पश्चाज् जलं मुञ्चति यच् चतुर्थं स्वल्प^उदकं पञ्चमम् अब्दम् उक्तम्॥

8.26

चत्वारि मुख्यानि युगान्य् अथ^एषां विष्णु^इन्द्र^जीव^अनल^दैवतानि।
चत्वारि मध्यानि च मध्यमानि चत्वारि च^अन्त्यान्य् अधमानि
विन्द्यात्॥

8.27

आद्यं धनिष्टांशम् अभिप्रपन्नो माघे यदा यात्य् उदयं सुरेज्यः।
षष्ट्य्^अब्द^पूर्वः प्रभवः स नाम्ना *प्रपद्यते[क्.प्रवर्तते] भूत^हितस् तदाब्दः॥

8.28

क्व चित् त्व् अवृष्टिः पवन^अग्नि^कोपः सन्ति^ईतयः श्लेष्म^कृताश् च रोगाः।
संवत्सरे +अस्मिन् प्रभवे प्रवृत्ते न दुःखम् आप्नोति जनस् तथा^अपि॥

8.29

तस्माद् द्वितीयो विभवः प्रदिष्टः शुक्लस् तृतीयः परतः प्रमोदः।
प्रजापतिश् च^इति यथोत्तराणि शस्तानि वर्षाणि फलान्य् *अथ^एषाम्[क्.चैषाम्]॥

8.30

निष्पन्न^शालि^इक्षु^यव^आदि^सस्यां भयैर् विमुक्ताम् उपशान्त^वैराम्॥
संहृष्ट^लोकां कलि^दोष^मुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम्॥

8.31

आद्यो +अङ्गिराः श्रीमुख^भावसा^आह्वौ *युवा सुधातेति[क्.युवाथ धातेति] युगे द्वितीये।
वर्षाणि पञ्च^एव यथाक्रमेण त्रीण्य् अत्र शस्तानि समे परे द्वे॥

8.32

त्रिष्व् *आद्य^वर्षेषु[क्.अङ्गिराद्येषु, क्ऽस् त्र्. आद्यवर्षेषु] निकाम^वर्षी देवी निरातङ्क^*भयश्[क्.भयाश्] च लोकः।
अब्द^द्वये +अन्त्ये +अपि समा सुवृष्टिः किन्त्व् अत्र रोगाः समर^आगमश् च॥

8.33

शाक्रे युगे पूर्वम् अथ^ईश्वर^आख्यं वर्षं द्वितीयं बहुधान्यम् आहुः।
प्रमाथिनं विक्रमम् अप्य् *अथ^अन्यद्[क्.अतो +अन्यद्] वृषं च विन्द्याद् गुरुचार^योगात्॥

8.34

आद्यं द्वितीयं च शुभे तु वर्षे कृत^अनुकारं कुरुतः प्रजानाम्।
पापः प्रमाथी वृष^विक्रमौ तु सुभिक्षदौ रोग^भय^प्रदौ च॥

8.35

श्रेष्ठं च चतुर्थस्य युगस्य पूर्वं यच् चित्रभानुं कथयन्ति वर्षम्।
मध्यं द्वितीयं तु सुभानु^सञ्ज्ञं रोग^प्रदं मृत्यु^करं *न तं च[क्.न तच् च]॥

8.36

तारणं तद्^अनु भूरि^वारिदं सस्य^वृद्धि^*मुदिताति[क्.मुदितं च]^पार्थिवम्।
पञ्चमं व्ययम् उशन्ति शोभनं मन्मथ^प्रबलम् उत्सव^आकुलम्॥

8.37

त्वाष्ट्रे युगे सर्वजिद्^आद्य उक्तः संवत्सरो +अन्यः खलु सर्वधारी।
तस्माद् विरोधी विकृतः खरश् च शस्तो द्वितीयो +अत्र भयाय शेषाः॥

8.38

नन्दनो +अथ विजयो जयस् तथा मन्मथो +अस्य परतश् च दुर्मुखः।
कान्तम् अत्र युग आदितस् त्रयं मन्मथः सम^फलो +अधमो +अपरः॥

8.39

हेमलम्ब इति सप्तमे युगे स्याद् विलम्बि परतो विकारि च।
शर्वरीति तद्^अनु प्लवः स्मृतो वत्सरो गुरु^वशेन पञ्चमः॥

8.40

*ईति^प्राया[क्.इतिप्रायः] प्रचुर^पवना वृष्टिर् अब्दे तु पूर्वे
मन्दं सस्यं न बहु^सलिलं वत्सरे +अतो द्वितीये।
अत्युद्वेगः प्रचुर^सलिलः स्यात् तृतीयश् चतुर्थो
दुर्भिक्षाय प्लव इति ततः शोभनो भूरि^तोयः॥

8.41

वैश्वे युगे *शोकहृद्[क्.शोभकृद्] इत्य् अथ^आद्यः संवत्सरो +अतः शुभकृद् द्वितीयः।
क्रोधी तृतीयः परतः क्रमेण विश्वावसुश् च^इति पराभवश् च॥

8.42

पूर्वा^परौ प्रीति^करौ प्रजानाम् एषां तृतीयो बहु^दोषदो +अब्दः।
अन्त्यौ समौ किन्तु पराभवे +अग्निः शस्त्र^आमय^आर्तिर् द्विज^गो^भयं च॥

8.43

आद्यः प्लवङ्गो नवमे युगे +अब्दः स्यात् कीलको +अन्यः परतश् च सौम्यः।
साधारणो रोधकृद् इत्य् *अथ^एवं[क्.अथाब्दः] शुभप्रदौ कीलक^सौम्यसंज्ञौ॥

8.44

कष्टः प्लवङ्गो बहुशः प्रजानां साधारणे +अल्पं जलम् ईतयश् च।
यः पञ्चमो रोधकृद् इत्य् अथ^अब्दश् चित्रम् जलम् तत्र च सस्यसम्पत्॥

8.45

इन्द्राग्निदैवं दशमं युगं यत् *तत्र^आद्य^वर्षं[क्.तराद्यमब्दं] परिधाविसंज्ञम्।
*प्रमादिनं विक्रमम् अप्य् अतो +अन्यत्[क्.प्रमाद्यथानन्दमतः परं यत्] स्याद् राक्षसं च^अनल^संज्ञितम् च॥

8.46

परिधाविनि मध्यदेश^नाशो नृप^हानिर् जलम् अल्पम् अग्नि^कोपः।
अलसस् तु जनः प्रमादि^संज्ञे डमरं रक्तक^पुष्प^बीज^नाशः॥

8.47

*विक्रमः[क्.तत्परः] सकल^लोक^नन्दनो राक्षसः क्षय^करो +अनलस् तथा।
ग्रीष्म^धान्य^जननो +अत्र राक्षसो वह्नि^कोप^मरक^प्रदो +अनलः॥

8.48

एकादशे पिङ्गल^कालयुक्त^सिद्धार्थ^रौद्राः खलु दुर्मतिश् च।
आद्ये तु व्षृटिर् महती सचौरा श्वासो हनू^कम्प^युतश् च कासः॥

8.49

यत् कालयुक्तं तद् अनेक^दोषं सिद्धार्थ^संज्ञे बहवो गुणाश् च।
रौद्रो +अतिरौद्रः क्षय^कृत् प्रदिष्टो यो दुर्मतिर् मध्यम^वृष्टि^कृत् सः॥

8.50

भाग्ये युगे दुन्दुभि^संज्ञम् आद्यं सस्यस्य वृद्धिं महतीं करोति।
*अङ्गार^संज्ञं[क्.उद्गारिसंज्ञं] तद्^अनु क्षयाय नरेश्वराणां विषमा च वृष्टिः॥

8.51

रक्ताक्षम् अब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रि^कृतं गदाश् च।
क्रोधं बहु^क्रोध^करं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः॥

8.52

क्षयम् इति युगस्य^अन्त्यस्य^अन्त्यं बहु^क्षय^कारकं
जनयति भयं तद्^विप्राणां कृषीबल^वृद्धिदम्।
उपचय^करं विट्^शूद्राणां पर^स्व^हृतां तथा
कथितम् अखिलं षष्ट्य्^अब्दे यत् तद् अत्र समासतः॥

8.53

अकलुषांशु^जटिलः पृथु^मूर्तिः कुमुद^कुन्द^कुसुम^स्फटिक^आभः।
ग्रह^हतो न यदि सत्^पथ^वर्ती *हित^करो[क्.हतकिरो] +अमर^गुरुर् मनुजानाम्॥
9 शुक्रचाराध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc