बृहत्संहिता · अध्याय 10
श्रवण^अनिल^हस्त^आर्द्रा^भरणी^भाग्य^उपगः सुतो +अर्कस्य।
प्रचुर^सलिल^उपगूढां करोति धात्रीं यदि स्निग्धः॥
अहि^वरुण^पुरन्दर^दैवतेषु सुक्षेम^कृन् न च^अतिजलम्।
क्षुत्^शस्त्र^अवृष्टि^करो मूले प्रत्येकम् अपि वक्ष्ये॥
तुरग^तुरगोपचारक^कवि^वैद्य^अमात्य^हा^अर्कजो +अश्विगतः।
याम्ये नर्तक^वादक^गेय^ज्ञ^क्षुद्र^नैकृतिकान्॥
बहुलास्थे पीड्यन्ते सौरे +अग्न्युपजीविनश् चमूपाश् च।
रोहिण्यां कोशल^मद्र^काशि^पञ्चाल^शाकटिकाः॥
मृगशिरसि वत्स^याजक^यजमान^आर्यजन^मध्यदेशास् च।
रौद्र^स्थे *पारत^रमठास् तैलिक^रजक[क्.पारतरातैलिकरजक]^चौराश् च॥
आदित्ये पाञ्चनद^प्रत्यन्त^सुराष्ट्र^सिन्धु^सौवीराः।
पुष्ये घाण्ठिक^घौषिक^यवन^वणिक्^कितव^कुसुमानि॥
सार्पे जलरुह^सर्पाः पित्र्ये बाह्लीक^चीन^गान्धाराः।
शूलिक^पारत^वैश्याः कोष्ठागाराणि वणिजश् च॥
भाग्ये रस^विक्रयिणः पण्य^स्त्री^कन्यका^महाराष्ट्राः।
आर्यम्णे नृप^गुड^लवण^भिक्षुक^अम्बूनि तक्षशिला॥
हस्ते नापित^चाक्रिक^चौर^भिषक्^सूचिका द्विप^ग्राहाः।
बन्धक्यः कौशलका मालाकाराश् च पीड्यन्ते॥
चित्रास्थे प्रमदाजन^लेखक^चित्रज्ञ^चित्रभाण्डानि।
स्वातौ मागध^चर^दूत^सूत^पोतप्लव^नट^आद्याः॥
ऐन्द्राग्नाख्ये त्रैगर्त^चीन^कौलूत^कुङ्कुमं लाक्षा।
सस्यान्य् अथ माञ्जिष्ठं कौसुम्भं च क्षयं याति॥
मैत्रे कुलूत^तङ्गण^खस^काश्मीराः समन्त्रि^चक्रचराः।
उपतापं यान्ति च घाण्टिका विभेदश् च मित्राणाम्॥
ज्येष्ठासु नृप^पुरोहित^नृप^सत्कृत^शूर^गण^कुल^श्रेण्यः।
मूले तु काशि^कोशल^पाञ्चाल^फल^औषधी^योधाः॥
आप्ये +अङ्ग^वङ्ग^कौशल^गिरिव्रजा मगध^पुण्ड्र^मिथिलाश् च।
उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च॥
विश्वेश्वरे +अर्कपुत्रश् चरन् दशार्णान् निहन्ति यवनांश् च।
उज्जयिनीं शबरान् पारियात्रिकान् कुन्तिभोजांश् च॥
श्रवणे राज^अधिकृतान् विप्राग्र्य^भिषक्^पुरोहित^कलिङ्गान्।
वसुभे मगधेश^जयो वृद्धिश् च धनेष्व् अधिकृतानाम्॥
साजे शतभिषजि भिषक्^कवि^शौण्डिक^पण्य^नीति*वृत्तीनाम्[क्.वर्त्तानाम्]।
आहिर्बुध्न्ये नद्यो यानकराः स्त्री^हिरण्यं च॥
रेवत्यां राज^भृताः क्रौञ्च^द्वीप^आश्रिताः शरत्सस्यम्।
शबराश् च निपीड्यन्ते यवनाश् च शनैश्चरे चरति॥
यदा विशाखासु महेन्द्र^मन्त्री सुतश् च भानोर् दहन^ऋक्ष^यातः।
तदा प्रजानाम् अनयो +अतिघोरः पुर^प्रभेदो गतयोर् भम् एकम्॥
अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद् यदि पीत^मयूखः।
शस्त्र^भयाय च रक्तसवर्णो भस्मनिभो बहु^वैरकरश् च॥
वैदूर्यकान्ति^विमलः शुभकृत् प्रजानां
बाण^अतसीकुसुम^वर्ण^निभश् च शस्तः।
*यं च^अपि[क्.पञ्च^अपि] वर्णम् उपगच्छति तत्सवर्णान्
सूर्यात्मजः क्षयतीति मुनि^प्रवादः॥
11 केतुचाराध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0