भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 89

89.01

श्वभिः शृगालाः सदृशाः फलेन
विशेष एषां शिशिरे मदाप्तिः।
हूहू रुतान्ते परतश् च टाटा
पूर्णः स्वरो +अन्ये कथिताः प्रदीप्ताः॥

89.02

लोमाशिकायाः खलु कक्कशब्दः
पूर्णः स्वभाव^प्रभवः स तस्याः।
ये +अन्ये स्वरास् ते प्रकृतेर् अपेताः
सर्वे च दीप्ता इति सम्प्रदिष्टाः॥

89.03

पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता।
धूमिता^अभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्॥
89.4अब्[क्.ओमित्तेद्]। राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।
89.4च्द्[क्.ओमित्तेद्]। गज^अध्यक्षश् च पूर्वा^आद्याः क्षत्रिय^आद्याश् चतुर्दिशम्॥

89.05

सर्वदिक्ष्व् अशुभा दीप्ता विशेषेण^अह्न्य् अशोभना।
पुरे सैन्ये +अपसव्या च कष्टा सूर्योन्मुखी शिवा॥

89.06

याहि^इत्य् अग्निभयं शास्ति टाट^इति मृत^वेदिका।
धिग्धिग् दुष्कृतिम्[क्.दुष्कृतम्] आचष्टे सज्वाला देशनाशिनी॥

89.07

नैव दारुणताम् एके सज्वालायाः प्रचक्षते।
अर्काद्यनलवत् तस्या वक्त्रं लालास्वभावतः॥

89.08

अन्यप्रतिरुता याम्या सा^उद्बन्ध^मृत^शंसिनी।
वारुण्य् अनुरुता सा^एव शंसते सलिले मृतम्॥

89.09

अक्षोभः श्रवणं च^इष्टं धनप्राप्तिः प्रियागमः।
क्षोभः प्रधान^भेदश् च वाहनानां च सम्पदः॥

89.10

फलम् आ सप्तमाद् एतद् अग्राह्यं परतो रुतम्।
याम्यायां तद्^विपर्यस्तं फलं षट्^पञ्चमाद् ऋते॥

89.11

या रोमाञ्चं मनुष्याणां शकृन्^मूत्रं च वाजिनाम्।
रावात् त्रासं च जनयेत् सा शिवा न शिव^प्रदा॥

89.12

मौनं गता प्रतिरुते नर^द्विरद^*वाजिभिः[क्.वाजिनाम्]।
या शिवा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति॥

89.13

भेभा^इति शिवा भयङ्करी भोभो व्यापदम् आदिशेच् च सा।
मृति^बन्ध^निवेदिनी फिफे[क्.फिफ] हूहू च^आत्महिता शिवा स्वरे॥

89.14

शान्ता त्व् अ^वर्णात् *परम् आ^रुवन्ती[क्.पवनौ रुवन्ती]
टाटाम् उदीर्णाम् इति वाश्यमाना।
टेटे च पूर्वं परतश् च थेथे
तस्याः स्व^तुष्टि^प्रभवं रुतं तत्॥

89.15

उच्चैर् घोरं वर्णम् उच्चार्य पूर्वं
पश्चात् क्रोशेत् क्रोष्टुकस्य^अनुरूपम्।
या सा क्षेमं प्राह वित्तस्य चाप्तिं
संयोगं वा प्रोषितेन प्रियेण॥
90 मृगचेष्टिताध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc